उत्तरगीता गौडपादीयदीपिकासहिता (८)

उक्तार्थे दृष्टान्तरम् (दृष्टान्तम्) आह – उल्काहस्तो यथाकालं द्रव्यमालोक्य तां त्यजेत् । ज्ञानेन ज्ञेयमालोक्य ज्ञानं पश्चात्परित्यजेत् ॥२१॥ कश्चिल्लोके अन्धकारस्थितद्रव्यदर्शनार्थी सन् यथा उल्काहस्त उल्मुकहस्तो भवति  पश्चाद्द्रव्यमालोक्य तदनन्तरं तामुल्कां यथा त्यजेत्तथा ज्ञानेन ज्ञानसाधनेन ज्ञेयं ब्रह्मालोक्य अपरोक्षीकृत्य पश्चाद् ज्ञानं ज्ञानसाधनं परित्यजेत् ॥२१॥ जाते चापरोक्षज्ञाने तेन प्रयोजनाभावात् साधनं परित्याज्यमित्येतद्दृष्टान्तान्तरेणाप्याह – यथाऽमृतेन तृप्तस्य पयसा किं प्रयोजनम् । एवं तं परमं ज्ञात्वा वेदैर्नास्ति प्रयोजनम् ॥२२॥ यथामृतेन सागरमथनोद्भूतेन तृप्तस्य संतुष्टस्य पयसा नीरेण प्रयोजनं नास्ति । एवं परमं तं ज्ञात्वा परमात्मानमपरोक्षीकृत्य वेदैः वेदान्तशास्त्रादिभिःकिं प्रयोजनम् ? न किमपीत्यर्थः ॥२२॥  तत्त्वज्ञानिनां विधिनिषेधादिकर्तव्यमपि नास्तीत्याह – ज्ञानाऽमृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चास्ति किञ्चित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥२३॥ ज्ञानामृतेन तृप्तस्य आनन्दैकरसं प्राप्तस्य कृतकृत्यस्य कृतार्थस्य योगिनो मुक्तस्य किञ्चिदपि कर्तव्यं नास्ति । (किन्तु) लोकसङ्ग्रहार्थमेव यद्यभिनिवेशेन कर्मासक्तिरस्ति तर्हि   तत्त्वविन्न भवति आरूढो न भवतीत्यर्थः ॥२३॥

उत्तरगीता गौडपादीयदीपिकासहिता (७)

एवमात्मतत्त्वापरोक्षज्ञा(नी/नेन) मुक्तः सन् ईश्वर एव जायते । तस्य स्वरूपमाह– यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः  ॥१८॥ वेदादौ सर्ववेदानामादौ वेदस्याधःस्रवणपरिहाराय निधीयमानः । वेदान्ते च सर्ववेदानामन्ते उपर्युत्क्रमणपरिहाराय प्रतिष्ठितः संस्थापितः । चकारात्सर्ववेदरक्षणाय वेदमध्ये च निहितः यः स्वरः प्रणवात्मकः । तस्य प्रणवस्य परावस्थायां लीनस्य यः परः परादिवाक्यचतुष्टयबोधितः । उपलक्षणञ्चैतत् सर्वप्राणेन्द्रियकरणप्रबोधकः सर्वनियन्ता सर्वान्तर्यामी यो महेश्वरः इति प्रसिद्धः । स एवात्मतत्त्वज्ञानी नान्य इत्यर्थः ॥१८॥ आत्मतत्त्वापरोक्षानुभवात्पूर्वं यावत्तत्साधने प्रयत्नः कृतः, ज्ञाने च तस्मिन् अनुभूते स न कर्तव्य इत्याह – नावार्थी तु भवेत्तावद्यावत्पारं न गच्छति । उत्तीर्णे तु सरित्पारे नावया  किं प्रयोजनम् ॥१९॥ यावत्पर्यन्तं पारं नदीतीरं न गच्छति न सम्प्राप्नोति तावत्पर्यन्तं नावार्थी नदीतरणसाधनार्थी भवेत् भूयात् । सरित्पारे नदीतीरे उत्तीर्णे सति नावया नदीतरणसाधनेन किं प्रयोजनम् ? किमपि नास्तीत्यर्थः । तद्वदत्रापि आत्मापरोक्षे जाते शास्त्रादिभारैः किं प्रयोजनम् ? न किमपीति भावः ॥१९॥   तदेव भङ्ग्यन्तरेण सदृष्टान्तमाह — ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥२०॥ मेधावी बुद्धिमान् ग्रन्थमभ्यस्य वेदान्तश्रवणं कृत्वा ज्ञाने सामान्यज्ञाने विज्ञाने विशेषानुभवे तत्परः सन् ग्रन्थं सर्वं शास्त्रं त्यजेत् । अत्र दृष्टान्तः – धान्यार्थी धान्यसहितं तृणमादाय तद्गतधान्यस्वीकारानन्तरं पलालं गतकणशं तृणं यथा त्यजति तद्वदित्यर्थः ॥२०॥

उत्तरगीता गौडपादीयदीपिकासहिता (६)

एवं जीवन्मुक्तस्य देहादिष्वभिनिवेशो नास्तीत्याह — स्वयमुच्चलिते देहे देही न्यस्तसमाधिना । निश्चलं तं विजानीयात्समाधिस्थस्य लक्षणम् ॥१५॥ देहे स्वयमनादिप्रारब्धकर्मवासनावशादुच्चलिते गमनादिकं कुर्वत्यपि देही जीवः न्यस्तसमाधिना निश्चलसमाधियोगेन निश्चलं यथा भवति तथा तं परमात्मानं विजानीयात् तदेव समाधिस्थस्य आत्मयोगस्थितस्य लक्षणमित्युच्यते ॥१५॥ इतोऽप्यात्मज्ञस्य लक्षणमाह — अमात्रं शब्दरहितं स्वरव्यञ्जनवर्जितम् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥१६॥ अमात्रं ह्रस्वदीर्घप्लुतरहितं शब्दरहितं शब्दातीतं स्वरव्यञ्जनवर्जितमक्षरसमूहात्मकपदानभिधेयं बिन्दुनादकलातीतम्, अनुस्वारः बिन्दुः । संवृत्ते गलविवरे  यद्घण्टानिह्रादवदनुरणनं स नादः । कला नादैकदेशः । तैरतीतं यथाकथञ्चिच्छब्दावाच्यमित्यर्थः । एतादृशं ब्रह्म यो वेद स वेदवित् सकलवेदान्ततात्पर्यज्ञो नान्य इत्यर्थः ॥१६॥ एवं परमात्मतत्त्वज्ञानस्य असंभावनाविपरीतभावनादिनिवृत्तौ सत्यां न किञ्चित् कृत्यमस्तीत्याह — प्राप्ते ज्ञानेन विज्ञाने ज्ञेये च हृदिसंस्थिते । लब्धशान्तिपदे देहे न योगो नैव धारणा ॥१७॥ ज्ञानेन परोक्षात्मकेन विज्ञाने अपरोक्षानुभवे , यद्वा ज्ञानेन शास्त्राचार्योपदेशजन्येन विज्ञाने अनुभवात्मके प्राप्ते सति ज्ञेये च सर्ववेदान्ततात्पर्यगोचरे परमात्मनि हृदि संस्थिते हृद्यपरोक्षतया भासमाने सति देहे देहोपाधिमति जीवे लब्धशान्तिपदे सम्प्राप्तब्रह्मतत्त्वे (तत्त्वे / भावे) सति तदनुयोगोऽपि नास्ति धारणा नास्ति । सिद्ध(द्धे)फले साधने प्रयोजनाभावात् ॥१७॥