पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१८)

अथासम्प्रज्ञातसमाधिः किमुपायः किंस्वभावो वेति – 
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१८॥ 

व्यासभाष्यम् 
सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः । तस्य परं वैराग्यमुपायः । सालम्बनो ह्यभ्यासस्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते । स चार्थशून्यः । तदभ्यासपूर्वं(र्वकं हि) चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः समाधिरसम्प्रज्ञातः ।। १८ ।। 
 
तत्त्ववैशारदी 
क्रमप्राप्तमसम्प्रज्ञातमवतारयितुं पृच्छति – अथेति । विरामप्रत्यायाभ्यासपूर्वः संस्कारशेषोऽन्यः । पूर्वपदेनोपायकथनमुत्तराभ्यां च स्वरूपकथनम् । मध्यमं पदं विवृणोति – सर्ववृत्तीति । प्रथमं पदं व्याचष्टे – तस्य परमिति । विरामो वृत्तीनामभावः , तस्य प्रत्ययः = कारणम् , तस्याभ्यासः = तदनुष्ठानं पौनःपुन्यम् , तदेव पूर्वं यस्य स तथोक्तः ।
अथापरं वैराग्यं निरोधकारणं कस्मान्न भवतीति ।
अत आह – सालम्बानो हीति । कार्यसरूपं कारणं युज्यते , न विरूपम् । विरूपं चापरं वैराग्यं सालम्बनं निरालम्बनसमाधिना कार्येण । तस्मान्निरालम्बनादेव ज्ञानप्रसादमात्रात्तस्योत्पत्तिर्युक्ता । धर्ममेघसमाधिरेव हि नितान्तविगलितरजस्तमोमलाद् बुद्धिसत्त्वादुपजातः तत्तद्विषयातिक्रमेण प्रवर्तमानोऽनन्तो विषयावद्यदर्शी समस्तविषयपरित्यागाच्च स्वरूपप्रतिष्ठः सन्निरालम्बनः संस्कारमात्रशेषस्य निरालम्बनस्य समाधेः कारणामुपपद्यते सारूप्यादिति । आलम्बनीकरणमाश्रयणम् । अभावप्राप्तमिव वृत्तिरूपकार्याकरणान्निर्बीजो = निरालम्बनः । अथवा बीजम् क्लेशकर्माशयाः , ते निष्क्रान्ता यस्मात्स तथा ॥१८॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१७)

अथोपायद्वयेन निरुद्धचित्तवृत्तेः कथमुच्यते सम्प्रज्ञातः समाधिरिति —

 वितर्कविचारानन्दास्मिता(रूपा)नुगमात्सम्प्रज्ञातः ॥१७॥ 

व्यासभाष्यम् 
वितर्कश्चित्तस्याऽऽलम्बने स्थूल आभोगः । सूक्ष्मो विचारः । आनन्दो ह्लादः । एकात्मिका संविदस्मिता । तत्र प्रथमश्चतुष्टयानुगतः समाधिः सवितर्कः । द्वितीयो वितर्कविकल सविचारः । तृतीयो विचारविकलः सानन्दः । चतुर्थस्तद्विकलोऽस्मितामात्र इति । सर्व एते सालम्बनाः सामाधयः ।।१७ ।। 

तत्त्ववैशारदी
उपायमभिधाय सप्रकारोपेयकथनाय पृच्छति – अथोपायद्वयेनेति । वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः । सम्प्रज्ञातपूर्वकत्वादसम्प्रज्ञातस्य प्रथमं सम्प्रज्ञातोपवर्णनम् । सम्प्रज्ञातसामान्यं वितर्कविचारानन्दास्मितानां रूपैः स्वरूपैरनुगमात् प्रतिपत्तव्यम् ।
वितर्कं विवृणोति – चित्तस्येति । स्वरूपसाक्षात्कारवती प्रज्ञाऽऽभोगः । स च स्थूल विषयत्वात् स्थूलः । यथा हि प्राथमिको धानुष्कः स्थूलमेव लक्ष्यं विध्यत्यथ सूक्ष्मम् , एवं प्राथमिको योगी स्थूलमेव पाञ्चभौतिकं चतुर्भुजादि ध्येयं साक्षात्करोत्यथ सूक्ष्ममिति ।
एवं चित्तस्याऽऽलम्बने सूक्ष्म आभोगः स्थूलकारणभूतसूक्ष्मपञ्चतन्मात्रलिङ्गालिङ्गविषयो विचारः ।
तदेवं ग्राह्यविषयं दर्शयित्वा ग्रहणविषयं दर्शयति – आनन्द इति । इन्द्रिये स्थूल आलम्बने चित्तस्याऽऽभोगो ह्लाद आनन्दः । प्रकाशशीलतया खलु सत्त्वप्रधानादहंकरादिन्द्रियाण्युत्पन्नानि । सत्त्वं सुखमिति तान्यपि सुखानीति तस्मिन्नाभोगो ह्लाद इति ।
ग्रहीतृविषयं सम्प्रज्ञातमाह – एकात्मिका संविदिति । अस्मिताप्रभवाणीन्द्रियाणि , तेनैषामस्मिता सूक्ष्मं रूपम् । सा चाऽऽत्मना ग्रहीत्रा सह बुद्धिरेकात्मिका संवित् (इति) । तस्यां च ग्रहीतुरन्तर्भावाद्भवति ग्रहीतृविषयः सम्प्रज्ञात इति ।
चतुर्णामपरमप्यवान्तरविशेषमाह – तत्र प्रथम इति । कार्यं कारणानुप्रविष्टं न कारणं कार्येण । तदयं स्थूल आभोगः स्थूलसूक्ष्मेन्द्रियास्मिताकारणचतुष्टयानुगतो भवति । उत्तरे तु त्रिद्व्येककारणकास्त्रिद्व्येकरूपा भवन्ति ।
असम्प्रज्ञाताद्भिनत्ति – सर्व एत इति ॥१७॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१६)

तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥१६॥ 

व्यासभाष्यम् 
दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात्तच्छुद्धिप्रविवेकाप्यायितबुद्धिर्गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति । तद्द्वयं वैराग्यम् । तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रम् , यस्योदये सति योगी प्रत्युदितख्यातिरेवं मन्यते – प्राप्तं प्रापणीयम् , क्षीणाः क्षेतव्याः क्लेशाः , छिन्नः श्लिष्टपर्वा भवसङ्क्रमः , यस्याऽविच्छेदाज्जनित्वा म्रियते मृत्वा च जायत इति । ज्ञानस्यैव परा काष्ठा वैराग्यम् । एतेस्यैव हि नान्तरीयकं कैवल्यमिति ॥१६॥ 
तत्त्ववैशारदी 
अपरं वैराग्यमुक्त्वा परमाह – तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् । अपरवैराग्यस्य परं वैराग्यं प्रति कारणत्वम् । तत्र च द्वारमादर्शयति – दृष्टानुश्रविकविषयदोषदर्शी विरक्त इति । अनेनापरं वैराग्यं दर्शितम् । पुरुषदर्शनाभ्यासादागमानुमानाचार्योपदेशसमधिगतस्य पुरुषस्य दर्शनम् , तस्याभ्यासः पौनः पुन्येन निषेवणम् ; तस्मात् । तस्य दर्शनस्य शुद्धी = रजस्तमःपरिहाण्या सत्त्वैकतानता , तया यो गुणपुरुषयोः प्रकर्षेण विवेकः – पुरुषः शुद्धोःऽनन्तस्तद्विपरीता गुणा इति , तेनाऽऽप्यायिता बुद्धिर्यस्य योगिनः स तथोक्तः । तदनेन धर्ममेघाख्यः समाधिरुक्तः । स तथाभूतो योगी गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यः सर्वथा विरक्तः सत्त्वपुरुषान्यताख्यातावपि गुणात्मिकायां यावद्विरक्त इति ।
तत्तस्माद्द्वयं वैराग्म् । पूर्वं हि वैराग्यं सत्त्वसमुद्रेकविधूततमसि रजःकणकलङ्कसम्पृक्ते चित्तसत्त्वे । तच्च तौष्ठिकानामपि समानम् । ते हि तेनैव प्रकृतिलया बभूवुः । (य०/त०)थोक्तम् – वैराग्यात्प्रकृतिलय इति ।
तत्र तयोर्द्वयोर्मध्ये यदुत्तरं तज्ज्ञानप्रसादमात्रम् । मात्रग्रहणेन निर्विषयतां सूचयति । तदेव हि तादृशं चित्तसत्त्वं रजोलेशमलेनाप्यपरामृष्टमस्याऽऽश्रयोऽत एव ज्ञानप्रसाद इत्युच्यते । चित्तसत्त्वं हि प्रसादस्वभावमपि रजस्तमःसम्पर्कान्मलिनतामनुभवति । वैराग्याभ्यासविमलवारिधाराधौतसमस्तरजस्तमोमलं त्वतिप्रसन्नं ज्ञानप्रसादमात्रपरिशेषं भवति । तस्य गुणानुपादेयत्वाय दर्शयतिम – यस्योदये सति योगी प्रत्युदितख्यातिः। ख्यातिविशेषे सति वर्तमानख्यातिमानित्यर्थः ।
प्रापणीयं कैवल्यं प्राप्तम् । यथा वक्ष्यति – जीवन्नेव विद्वान्मुक्तो भवति । संस्कारमात्रस्य च्छिन्नमूलस्य सिद्धत्वादिति भावः ।
कुतः प्राप्तम् ? यतः क्षीणाः क्षेतव्याः क्लेशा अविद्यादयः सवासनाः ।
नन्वस्ति धर्माधर्मसमूहो भवस्य जन्ममरणप्रबन्धस्य सङ्क्रमः प्राणिनाम् । तत्कुतः कैवल्यमिति ।
अत आह – छिन्न इति । श्लिष्टानि निःसन्धीनि पर्वाणि यस्य स तथोक्तः । धर्माधर्मसमूहस्य समूहिनः पर्वाणि तानि श्लिष्टानि । न हि जातु जन्तुर्मरणजन्मप्रबन्धेन त्यक्ष्यते । सोऽयं भवसङ्क्रमः क्लेशक्षये छिन्नः । यथा वक्ष्यति – क्लेशमूलः कर्माशयः २।१२ , सति मूले तद्विपाकः २।१३ इति ।
ननु प्रसङ्ख्यानपरिपाकं धर्ममेघं च निरोधमन्तरा किं तदस्ति यज्ज्ञानप्रसादमात्रमिति ।
अत आह – ज्ञानस्यैवेति । धर्ममेघभेद एव परं वैराग्यं नान्यत् । यथा वक्ष्यति – प्रसङ्ख्यानेऽप्यकुशीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ४।२९ (इति) , तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पम् ४।३१ इति च । तस्मादेतस्य हि नान्तरीयकमविनाभावि कैवल्यमिति ॥१६॥