चर्चास्तवः

 
सौन्दर्यविभ्रमभुवो [1]भुवनाधिपत्य-
 
सङ्कल्पकल्पतरवस्त्रिपुरे जयन्ति ।
 
एते कवित्वकुमुदप्रकरावबोध-
 
पूर्णेन्दवस्त्वयि जगज्जजननि प्रणामाः ॥१॥
 
 
 
देवि स्तुतिव्यतिकरे कृतबुद्धयस्ते
 
वाचस्पतिप्रभृतयोऽपि जडीभवन्ति ।
 
तस्मान्निसर्गजडिमा कतमोऽहमत्र
 
स्तोत्रं तव त्रिपुरतापनपत्नि कर्तुम् ॥२॥
 
 
 
मातस्तथापि भवतीं भवतीव्रताप-
 
विच्छित्तये स्तव[2]महार्णवकर्णधारः ।
 
स्तोतुं भवानि स भवच्चरणारविन्द-
 
भक्तिग्रहः किमपि मां मुखरीकरोति ॥३॥
 
 
 
सूते जगन्ति भवती भवती बिभर्ति
 
जागर्ति तत्क्षयकृते भवती भवानि ।
 
मोहं भिनत्ति भवती भवती रुणद्धि
 
लीलायितं जयति[3] चित्रमिदं भवत्याः ॥४॥
 
 
 
यस्मिन्मनागपि नवाम्बुजपत्रगौरीं
 
गौरि [4]प्रसादमधुरां दृ[5]शमादधासि ।
 
तस्मिन्निरन्तरमनङ्गशरावकीर्ण[6]-
 
सीमन्तिनीनयनसन्ततयः पतन्ति ॥५॥
 
 
 
पृथ्वीभुजोऽप्युदयन[7]प्ररवस्य तस्य
 
विद्याधरप्रणतिचुम्बितपादपीठः ।
 
[8]तच्चक्रवर्तीपदवीप्रणयस्स एषः
 
त्वत्पादपङ्कजरजःकणजः प्रसादः ॥६॥
 
 
 
त्वत्पादपङ्कजरजःप्रणिपातपूर्वैः
 
पुण्यैरनल्पमतिभिः कृतिभिः कवीन्द्रैः ।
 
क्षीरक्षपाकरदुकूलहिमावदाता
 
कैरप्यवापि भुवनत्रितयेऽपि कीर्तिः ॥७॥
 
 
 
कल्पद्रुमप्रसवकल्पितचित्रपूजा-
 
मुद्दीपितप्रियतमामदरक्तगीतैः[9] ।
 
नित्यं भवानि भवतीमुपवीणयन्ति
 
विद्याधराः कनकशैलगुहागृहेषु ॥८॥
 
 
 
लक्ष्मीवशीकरणकर्मणि कामिनीना-
 
माकर्षणव्यतिकरेषु च सिद्धमन्त्रः ।
 
नीरन्ध्रमोहतिमिरच्छिदुरप्रदीपो
 
देवि त्वदङ्घ्रिजनितो जयति प्रसादः ॥९॥
 
 
 
देवि त्वदङ्घ्रिनखरत्नभुवो मयूखाः
 
प्रत्यग्र[10]मौक्तिकरुचो मुदमुद्वहन्ति ।
 
सेवानतिव्यतिकरे सुरसुन्दरीणां
 
सीमन्तसीम्नि कुसुमस्तबकायितं यैः ॥१०॥
 
 
 
मूर्ध्नि स्फुरत्तुहिनदीधितिदीप्तिदीप्तं[11]
 
मध्ये ललाटममरायुधरश्मिचित्रम् ।
 
हृच्चक्रचुम्बि हुतभुक्कणिकानुकारि[12]-
 
ज्योतिर्यदेतदिदमम्ब तव स्वरूपम् ॥११॥
 
 
 
रूपं तव स्फुरितचन्द्रमरीचिगौर-
 
मालोकते[13] शिरसि वागधिदैवतं यः[14] ।
 
निःसीमसूक्तिरचनामृतनिर्झरस्य[15]
 
तस्य प्रसादमधुराः[16] प्रसरन्ति वाचः ॥१२॥
 
 
 
सिन्दूरपांसुपटलच्छुरितामिव द्यां
 
त्वत्तेजसा जतुरसस्नपितामिवोर्वीम् ।
 
यः पश्यति क्षणमपि त्रिपुरे विहाय
 
व्रीडां मृडानि सुदृशस्तमनुद्रवन्ति[17] ॥१३॥
 
 
 
मातर्मुहूर्तमपि यः स्मरति स्वरूपं
 
लाक्षारसप्रसर[18]तन्तुनिभं भवत्याः ।
 
ध्यायन्त्यनन्यमनसस्तमनङ्गतप्ताः
 
प्रद्युम्नसीम्नि सुभगत्वगुणं[19] तरुण्यः ॥१४॥
 
 
 
योऽयं चकास्ति गगनार्णवरत्नमिन्दु-
 
र्योऽयं सुरासुरगुरुः पुरुषः पुराणः ।
 
यद्भाग[20]मर्धमिदमन्धकसूदनस्य
 
देवि त्वमेव तदिति प्रतिपादयन्ति ॥१५॥
 
 
 
इच्छानुरूपमनुरूपगुणप्रकर्ष[21]-
 
सङ्कर्षिणि त्वमभिमृश्य यदा बिभर्षि ।
 
जायेत स त्रिभुवनैकगुरुस्तदानीं
 
देवश्शिवोऽपि भुवनत्रयसूत्रधारः ॥१६॥
 
 
 
ध्यातासि हेमवति[22] येन हिमांशुरश्मि-
 
मालामलद्युतिरकल्मषमानसेन ।
 
तस्याविलम्बमनवद्यमनन्तकल्प-
 
मल्पैर्दिनैस्सृजसि सुन्दरि वाग्विलसम् ॥१७॥
 
 
 
आधारमारुतनिरोधवशेन येषां
 
सिन्दूररञ्जितसरोजगुणानुकारि ।
 
दीप्तं[23] हृदि स्फुरति देवि वपु[24]स्त्वदीयं
 
ध्यायन्ति तानिह समीहितसिद्धिसार्थाः[25] ॥१८॥
 
 
 
ये चिन्तयन्त्यरुणमण्डलमध्यवर्ति
 
रूपं तवाम्ब नवयावकपङ्कपिङ्गम्[26] ।
 
तेषां सदैव कुसुमायुधबाणभिन्न-
 
वक्षःस्थला मृगदृशो वशगा भवन्ति ॥१९॥
 
 
 
त्वामैन्दवीमिव कलामनुफालदेश-
 
मुद्भासिताम्बरतलामवलोकयन्तः[27] ।
 
सद्यो भवानि सुधियः कवयो भवन्ति
 
त्वं भावनाहितधियां कुलकामधेनुः॥२०॥
 
 
 
शर्वाणि सर्वजनवन्दितपादपद्मे
 
पद्मच्छदद्युतिविडम्बितनेत्रलक्ष्मि ।
 
निष्पापमूर्तिजनमानसराजहंसि
 
हन्सि त्वमापदमनेकविधां जनस्य ॥२१॥
 
 
 
उत्तप्तहेमरुचिरे त्रिपुरे पुनीहि
 
चेतश्चिरन्तनमघौघवनं लुनीहि ।
 
कारागृहे निगळबन्धनयन्त्रितस्य
 
त्वत्संस्मृतौ झटिति मे नि[28]गळास्त्रुटन्ति ॥२२॥
 
 
 
त्वां व्यापिनीति सुमना इति कुण्डलीति
 
त्वां कामिनीति कमलेति कलावतीति ।
 
त्वां मालिनीति ललितेत्यपराजितेति
 
देवि स्तुवन्ति विजयेति जयेत्युमेति ॥२३॥
 
 
 
उद्दामकामपरमार्थसरोजखण्ड-
 
चण्डद्युतिद्युतिमपासितषड्विकाराम् ।
 
मोहद्विपेन्द्रकदनोद्यतबोधसिंह-
 
लीलागुहां भगवतीं त्रिपुरां नमामि ॥२४॥
 
 
 
गणेशबटुकस्तुता रतिसहायकामान्विता
 
स्मरारिवरविष्टरा कुसुमबाणबाणैर्युता ।
 
अनङ्गकुसुमादिभिः परिवृता च सिद्धैस्त्रिभिः
 
कदम्बवनमध्यगा त्रिपुरसुन्दरी पातु नः ॥२५॥
 
 
 
रुद्राणि विद्रुममयीं प्रतिमामिव त्वां
 
ये चिन्तयन्त्यरुणकान्तिमनन्यरूपाम् ।
 
तानेत्यपक्ष्मलदृशः प्रसभं भजन्ते
 
कण्ठावसक्तमृदुबाहुलतास्तरुण्यः ॥२६॥
 
 
 
त्वद्रूपैकनिरूपणप्रणयिता बन्धो दृशोस्त्वद्गुण-
 
ग्रामाकर्णनरागिता श्रवणयोस्त्वत्संस्मृतिश्चेतसि ।
 
त्वत्पादार्चनचातुरी करयुगे त्वत्कीर्तितं वाचि मे
 
कुत्रापि त्वदुपासनव्यसनिता मे देवि मा शाम्यतु ॥२७॥
 
 
 
त्वद्रूपमुल्लसितदाडिमपुष्परक्त-
 
मुद्भावयेन्मदनदैवतमक्षरं यः ।
 
तं रूपहीनमपि मन्मथनिर्विशेष-
 
मालोकयन्त्युरुनितम्बतटास्तरुण्यः ॥२८॥
 
 
 
ब्रह्मेन्द्ररुद्रहरिचन्द्रसहस्ररश्मि-
 
स्कन्दद्विपाननहुताशनवन्दितायै ।
 
वागीश्वरि त्रिभुवनेश्वरि विश्वमातः
 
अन्तर्बहिश्च कृतसंस्थितये नमस्ते ॥२९॥
 
 
 
यः स्तोत्रमेतदनुवासरमीश्वरायाः[29]
 
श्रेयस्करं पठति वा यदि वा शृणोति ।
 
तस्येप्सितं फलति राजिभिरीड्यतेऽसौ
 
जायेत स प्रियतमो मदिरेक्षणानाम् ॥३०॥
 
 
 
खड्गं पादुकमञ्जनञ्च घुटिकां सारस्वतं सम्पदं
 
मृत्योर्वञ्चनमुग्रकालहरणं देहस्थिते कारणम्।
 
भ्रूभङ्गादगतुङ्गवृक्षपतनं वश्यं जगद्योषितां
 
चर्चाजाप्यमिदं करोति सततं त्वत्पूजकस्येप्सितम्॥३१॥
 
 
 
॥ इति चर्चास्तवः ॥
 
[1] भुवनाधिपत्यं सम्पत्तिकल्प [2] स्तुतिम [3] जगति [4] रीप्र /री प्र [5] भृश [6] शरप्रकीर्ण [7] प्रभवस्य [8] यच्चक्रवर्त्तिपदवीं प्रण [9] गीतम् [10] प्रत्युक्तमौ [11] दीधितिकान्तिमित्रं [12] णिकानुरूपं [13] लोक्यते [14] यैः [15] झरिण्यः [16] तेषां प्रकाममधुराः [17] नुव्रजन्ति [18] रसस्नपिततन्तु [19] गुणाः [20] यद्वामम [21] प्रकर्षं सकर्षणत्वमभिसृत्य [22] हैमवति [23] तीव्रं [24] महस्त्व [25] सिद्धिसाध्याः
 
[26] पङ्करम्यम् [27] न्ति [28] तन्निगळा [29] रमम्बिकायाः

Author Socials Follow me