घटस्तवः

आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु मे विजयाय मञ्जु- मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥१॥   देवि त्र्यम्बकपत्नि पार्वति सति त्रैलोक्यमातः शिवे शर्वाणि त्रिपुरे मृणा(डा)नि वरदे रुद्राणि कात्यायनि । भीमे भैरवि चण्डि शर्वरि कले कालक्षये शूलिनि त्वत्पादप्रणताननन्यमनसः पर्याकुलान्पाहि नः ॥२॥   देवि त्वां सकृदेव यः प्रणमति क्षोणिभृतस्तं नम- न्त्याजन्मस्फुरदङ्घ्रिपीठविलुठत्कोटीरकोटिच्छटाः । यस्त्वामर्चति सोऽर्च्यते सुरगणैर्यः स्तौति स स्तूयते यस्त्वां ध्यायति तं स्मरार्ति (वि)धुरा ध्यायन्ति वामभ्रुवः ॥३॥   उन्मत्ता इव सग्रहा इव विषव्यासक्तमूर्छा इव प्राप्तप्रौढमदा इवातिविरहग्रस्ता इवार्ता इव । ये ध्यायन्ति शैलराजतनयां धन्यास्त एवाग्रतः त्यक्तोपाधिविवृद्धरागमनसो ध्यायन्ति तान्सुभ्रुवः ॥४॥   ध्यायन्ति ये क्षणमपि त्रिपुरे हृदि त्वां लावण्ययौवनधनैरपि विप्रयुक्ताः । ते विस्फुरन्ति ललितायतलोचनानां चित्तैकभित्तिलिखितप्रतिमाः पुमांसः ॥५॥   एतं किं नु दृशा पिबाम्युत विशाम्यस्याङ्गङ्गैर्निजैः किं वाऽमुं निगराम्यनेन सहसा किं वैकतामाश्रये । यस्येत्थंविवशो विकल्पलतिकाकूतेन योषिज्जनः किं तद्यन्न करोति देवि ! हृदये यस्य त्वमावर्तसे ॥६॥   विश्वव्यापिनि यद्वदीश्वर इति स्थाणावनन्याश्रयः शब्दे शक्तिरिति त्रिलोकजननि त्वय्येव तथ्यस्थितिः । इत्थं सत्यपि शक्नुवन्ति यदिमाः क्षुद्रा रुजो बाधितुं त्वद्भक्तानपि न क्षिणोषि च रुषा तद्देवि चित्रं महत् ॥७॥   इन्दोर्मध्यगतां मृगाङ्कसदृशच्छायां मनोहारिणीं पाण्डूत्फुल्लसरोरुहासनगतां स्निग्धप्रदीपच्छविम् । वर्षन्तीममृतं भवानि भवतीं ध्यायन्ति ये देहिनः ते निर्मुक्तरुजो भवन्ति रिपवः प्रोज्झन्ति तान् दूरतः॥८॥   पूर्णेन्दोश्शकलैरिवातिबहलैः पीयूषपूरैरिव क्षीराब्धेर्लहरीभरैरिव सुधापङ्कस्य पिण्डैरिव । प्रालेयैरिव निर्मितं तव वपुर्ध्यायन्ति ये श्रद्धया चित्तान्तर्निहितार्तितापविपदस्ते सम्पदं बिभ्रति ॥९॥   ये संस्मरन्ति तरलां सहसोल्लसन्तीं त्वां ग्रन्थिपञ्चकभिदां तरुणार्कशोणाम् । रागार्णवे बहलरागिणि मज्जयन्तीं कृत्स्नं जगद्दधति चेतसि तान्मृगाक्ष्यः ॥१०॥   लाक्षारसस्नपितपङ्कजतन्तुतन्वीं अन्तःस्मरत्यनुदिनं भवतीं भवानि । यस्तं स्मरप्रतिममप्रतिमस्वरूपा नेत्रोत्पलैर्मृगदृशो भृशमर्चयन्ति ॥११॥   स्तुमस्त्वां वाचमव्यक्तां हिमकुन्देन्दुरोचिषम् । कदम्बमालां बिभ्राणामापादतललम्बिनीम् ॥१२॥   मूर्ध्नीन्दोस्सितपङ्कजासनगतां प्रालेयपाण्डुत्विषं वर्षन्तीममृतं सरोरुहभुवो वक्त्रेऽपि रन्ध्रेऽपि च । आच्छिन्ना च मनोहरा च ललिता चातिप्रसन्नापि च त्वामेवं स्मरतस्स्मरारिदयिते वाक्सर्वतो वल्गति ॥१३॥   ददातीष्टान्भोगान्क्षपयति रिपून्हन्ति विपदः दहत्याधीन्व्याधीन्शमयति सुखानि प्रतनुते । हठादन्तर्दुःखं दलयति पिनष्टीष्टविरहं सकृद्ध्याता देवी किमिव निरवद्यं न कुरुते ॥१४॥   यस्त्वां ध्यायति वेत्ति वन्दति जपत्यालोकते चिन्तय- त्यन्वेति प्रतिपद्यते कलयति स्तौत्याश्रयत्यर्चति । यश्च त्र्यम्बकवल्लभे तव गुणानाकर्णयत्यादरात् तस्य श्रीर्न गृहादपैति विजयस्तस्याग्रतो धावति ॥१५॥   किं किं दुःखं दनुजदलिनि क्षीयते न स्मृतायां का का कीर्तिः कुलकमलिनि ख्याप्यते न स्तुतायाम् । का का सिद्धिस्सुरवरनुते प्राप्यते नार्चितायां कं कं योगं त्वयि न चिनुते चित्तमालम्बितायाम् ॥१६॥   ये देवि दुर्धरकृतान्तमुखान्तरस्थाः ये कालि कालघनपाशनितान्तबद्धाः । ये चण्डि चण्डगुरुकल्मषसिन्धुमग्नाः तान्पासि मोचयसि तारयसि स्मृतैव ॥१७॥   लक्ष्मीवशीकरणचूर्णसहोदराणि त्वत्पादपङ्कजरजांसि चिरं जयन्ति । यानि प्रणाममिलितानि नृणां ललाटे लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥१८॥   रे मूढाः किमयं वृथैव तपसा कायः परिक्लिश्यते यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियन्ते गृहाः । भक्तिश्चेदविनाशिनी भगवतीपादद्वयी सेव्यतां उन्निद्राम्बुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥१९॥   याचे न कञ्चन न कञ्चन वञ्चयामि सेवे न कञ्चन निरस्तसमस्तदैन्यः । श्लक्ष्णं वसे मधुरमद्मि भजे वरस्त्रीः देवी हृदि स्फुरति मे कुलकामधेनुः ॥२०॥   नमामि यामिनीनाथ लेखालङ्कृतकुन्तलाम् । भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥२१॥   ॥ इति घटस्तवः ॥   ॥ अन्तवन्त इमे देहा नित्यस्योक्ताश्शरीरिणः ॥ © स्वामी नीलकण्ठः

Author Socials Follow me