उत्तरगीता गौडपादीयदीपिकासहिता (१०)

तत्त्वज्ञानिनः समाधिसाधनस्वरूपमाह –

आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम्‌। 
ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत्‌॥२५॥

आत्मानम् आत्मनि कर्तृत्वाद्यध्यासवन्तं जीवम् अरणिं
कृत्वा अधरारणिं भावयित्वा, प्रणवं परमात्मप्रतिपादकं
शब्दम् उत्तरारणिं कृत्वा भावयित्वा ,
ध्याननिर्मथनाभ्यासात्‌
ध्यानरूपमथनेन पौनःपुन्येन पूर्वोक्तप्रकारेण निगूढवत्‌
पाण्डित्याप्रकटनेन यो वर्तते, स एवं परमात्मानं पश्येत्‌
;
नान्य इत्यर्थः॥२५॥

यावदपरोक्षानुभवपर्यन्तं स्वयंप्रकाशब्रह्मधारणामाह –

तादृशं परमं रूपं स्मरेत्पार्थ ह्यनन्यधीः।
विधूमाग्निनिभं देवं पश्येदन्त्यन्तनिर्मलम्‌॥२६॥ 

हे पार्थ ! विधूमाग्निनिभं विगतधूमाग्निरिव
द्योतमानम्‌ अत्यन्तनिर्मलम्‌ अतिस्वच्छं देवं स्वयंप्रकाशं परमात्मानं यावत् पश्येद् अपरोक्षीकुर्यात्‌ ,
तावत्‌ तादृशं परमं सर्वोत्कृष्टं रूपं ब्रह्मस्वरूपम्‌ , अनन्यधीरिति अनन्यचित्तः सन्‌ संस्मरेत्‌
ब्रह्मधारणं कुर्यादित्यर्थः॥२६॥

भावनाप्रकारमेव ब्रह्मस्वरूपप्रकटनव्याजेन
विशदयति –

दूरस्थोऽपि न दूरस्थः पिण्डस्थः पिण्डवर्जितः। 
विमलः सर्वदा देही सर्वव्यापी निरञ्जनः॥२७॥

देही जीवः सर्वदा सर्वस्मिन्‌ काले दूरस्थोऽपि अज्ञस्य
परोक्षवत्‌ स्थितोऽपि न दूरस्थः परोक्षस्थितो न भवति ;
किं तु सर्वदापि अपरोक्ष एवेत्यर्थः। पिण्डस्थोऽपि अज्ञस्य
शरीरसम्बन्धाध्यासात्‌ परिच्छिन्नवत्‌ भासमानोऽपि ,
पिण्डवर्जितः शरीरसम्बन्धध्यासरहितः ; तत्र हेतुः –
विमलः निर्मलः सर्वव्यापी सर्वतः परिपूर्णः निरञ्जनः
स्वयंप्रकाशश्च। एवं ध्यायेदिति पूर्वेण सम्बन्धः॥

किञ्च , देहाध्यासात्‌ प्रतीयमानं
कर्तृत्वभोक्तृत्वादिकमात्मनो नास्ति इत्याह –

कायस्थोऽपि न कायस्थः कायस्थोऽपि न जायते।
कायस्थोऽपि न भुञ्जानः कायस्थोऽपि न बध्यते॥२८॥

देही जीवः कायस्थोऽपि शरीराध्यासवानपि
कायस्थः
शरीरनिमित्तबन्धरहितः। कायस्थोऽपि जन्मादिवच्छरीरस्थोऽपि न जायते शरीरनिमित्तजन्मरहित
इत्यर्थः।
कायस्थोऽपि भोगसाधनीभूतशरीरस्थोऽपि न भुञ्जानः
भोगरहितः।
कायस्थोऽपि बन्धहेतुभूतदेहस्थोऽपि न बध्यते बन्धनं
न प्राप्नोतीत्यर्थः।

किंच –

कायस्थोऽपि न लिप्तः स्यात्कायस्थोऽपि न बाध्यते।

कायस्थोऽपि सुखदुःखादिहेतुभूतदेहसम्बन्धोऽपि
न लिप्तः स्यात्‌ सुखदुःखादिसम्बन्धरहित इत्यर्थः।
कायस्थोऽपि मरणधर्मवद्देहस्थोऽपि न बाध्यते न म्रियत
इत्यर्थः।
अनेन जन्मादिषड्भावविकारशून्यत्वं दर्शितम्‌॥

यदध्यासेन आत्ममोहात्संसृतिः , तदपवादेन तत्रैव
देहान्तःकरणादावात्मा विचारणीय इत्याह –

तिलमध्ये यथा तैलं क्षीरमध्ये यथा घृतम्‌॥२९॥
पुष्पमध्ये यथा गन्धः फलमध्ये यथा रसः।
काष्ठाग्निवत्प्रकाशेत आकाशे वायुवच्चरेत्‌॥३०॥

आत्मा तिलमध्ये तैलाच्छादकतिलेषु यथा तैलं
यन्त्रादिना तिले निष्पिष्टे यथा तिलात्पृथक्‌ तैलं शुद्धं
भासते , क्षीरमध्ये घृताच्छादकक्षीराणां मध्ये
क्षीरत्वापनोदकोपायद्वारा दधिपरिणामे मथनेनापनीते
नवनीतादिपरिणामद्वारा अग्निसंयोगाद् यथा घृतं
प्रतीयते , तथा पुष्पाणां मध्ये यथा गन्धः प्रतीयते ,
फलमध्ये त्वगस्थ्यादिहेयांशपरित्यागेन यथा रसो
भासते , आकाशे यथा वायुः सर्वगतः सन्‌ वाति
संचरति , तथा काष्ठाग्निवद् अरण्यादिस्थिताग्निः
मथनादिना मथिते
यथा काष्ठभावं विहाय स्वयंप्रकाशतया भासते ,
तद्वदात्मापि अन्नमयादिपञ्चकोशेषु मध्ये हेयांशपरित्यागेन आनन्दात्मकतया स्वयंप्रकाशः सन्‌ भासत
इत्यर्थः॥३०॥

Author Socials Follow me