उत्तरगीता गौडपादीयदीपिकासहिता (१)

प्रथमोऽध्यायः

गौडपादीयदीपिका

श्रीगणेशाय नमः

अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् ।
      आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥१॥ इह खलु अर्जुनः “अशोच्यानन्वशोचस्त्वम्” इत्यारभ्य भगवदुपदिष्टमात्मतत्त्वोपदेशं विषयभोगप्राबल्येन विस्मृत्य पुनस्तमा(दा ?)त्मतत्त्वं भगवन्तं पृच्छति –   अर्जुन उवाच –

यदेकं निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् ।

अप्रतर्क्यमविज्ञेयं विनाशोत्पत्तिवर्जितम् ॥१॥

कारणं योगनिर्मुक्तं हेतुसाधनवर्जितम् ।

हृदयाम्बुजमध्यस्थं ज्ञानज्ञेयस्वरूपकम् ॥

तत्क्षणादेव मुच्येत यज्ज्ञानाद्ब्रूहि केशव ॥२॥

हे केशव ! यज्ज्ञानाद्यस्य ब्रह्मणः सम्यग्ज्ञानात्तत्क्षणादेव ज्ञानोत्तरक्षण एव मुच्येत अविद्यानिवृत्तिद्वारा आनन्दावाप्तिर्भवेत् तद्ब्रूहि  स्वरूप[1]तट[2]स्थलक्षणाभ्यां प्रतिपादयेत्यर्थः । ते एव लक्षणे दर्शयति – यदित्यादिना । एकं सजातीयविजातीयस्वगतभेदरहितं निष्कलमवयवरहितं व्योमातीतमाकाशादिचतुर्विंशतितत्त्वातीतं निरञ्जनं स्वयंप्रकाशमप्रतर्क्यममनोगोचरं , “यन्मनो न मनुते” इति श्रुतेः । अविज्ञेयं प्रमाणाविषयं , “यद्वाचाऽनिरुक्तम्, यतो वाचो निवर्तन्ते “ इति श्रुतेः । विनाशोत्पत्तिवर्जितं त्रैकालिकं कारणं सर्वोत्पत्तिमन्निमित्तोपादानभूतं योगनिर्मुक्तं वस्त्वन्तरसम्बन्धरहितं हेतुसाधनवर्जितं निमित्तत्वोपादानत्वधर्मवर्जितमित्यर्थः । स्वस्य सनातनत्वेन ताभ्यामेव वर्जितमिति वा । हृदयाम्बुजमध्यस्थं सर्वलोकान्तर्नियामकतया सर्वलोकहृदयमध्यस्थं ज्ञानज्ञेयस्वरूपकं ज्ञानं विषयप्रकाशः ज्ञेयं विषयः, तदुभयसत्तात्मकं यद्ब्रह्म , तत् कीदृशमिति प्रश्नार्थः ॥१॥२॥

[1] पदान्तरार्थसंसर्गागोचरतया लक्ष्यधर्मिस्वरूपमात्रबोधकं स्वरूपलक्ष्यणम् । यथा – प्रकृष्टप्रकाशश्चन्द्र इति ।

[2] यो हि धर्मोऽसाधारणः सन्नेव कदाचिद्धर्मिणा सम्बद्ध्यते स तटस्थलक्षणमित्युच्यते । यथा- छत्रचामरादिकं राज्ञः ।

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.