उत्तरगीता गौडपादीयदीपिकासहिता (१४)

एवं स्थूलदेहलयेऽपि धर्माधर्मौ
लिङ्गशरीरमाश्रित्य तिष्ठत इत्युक्ते , लिङ्गशरीरभङ्गः
कदेति
पृच्छति –
अर्जुन उवाच –

स्थावरं जङ्गमं चैव यत्किञ्चित्सचराचरम्‌।
जीवा जीवेन सिध्यन्ति स जीवः केन सिध्यति॥४७॥

स्थावरजङ्गमात्मकं सचराचरं चराचरसहितं
जगज्जालं सर्वस्मिन्‌ ये जीवाः अभिमानवन्तः
स्थूलदेहाभिमानिनो
विश्वात्मका जीवाः जीवेन लिङ्गशरीराभिमानिना तैजसेन
सिध्यन्ति विश्वाभिमानं त्यजन्ति। स जीवः तैजसाभिमानी केन
हेतुना सिध्यति स्वाभिमानं त्यजतीति प्रश्नार्थः॥४७॥

एवं पृष्टे सति प्राज्ञेन तैजसः सिध्यति ,
प्राज्ञस्तुरीयेणेत्येवं क्रमेण सिध्यतीत्युत्तरमाह –
श्रीभगवानुवाच –

मुखनासिकयोर्मध्ये प्राणः सञ्चरते सदा।
आकाशः पिबते प्राणं स जीवः केन जीवति॥४८॥

मुखनासिकयोर्मध्ये मुखनासिकामध्यतः सदा सर्वदा
यावददृष्टं प्राणवायुः सञ्चरते अजपामन्त्रात्मकत्वेन
एकैकस्य दिनस्य षट्शताधिकैकविंशतिसहस्रसङ्ख्यया
संचरति , तावत्पर्यन्तमदृष्टमहिम्ना लिङ्गमपि वर्तते।
यदा तु योगमहिम्ना ब्रह्मज्ञानानन्तरं जीवस्यादृष्टनिवृत्तिः , तदा आकाशः जीवत्वनिमित्तं प्राणं पिबते , तदा
जीवः केन जीवति जीवत्वापादकाविद्यानिवृत्त्या
निरञ्जनब्रह्मभावे जाते जीवत्वमेव नास्तीत्यर्थः॥४८॥

ननु ब्रह्माण्डाद्युपाधिविशिष्टस्य सर्वगतस्य ब्रह्मणः
कथं निरञ्जनत्वमिति पृच्छति –
अर्जुन उवाच –

ब्रह्माण्डव्यापितं व्योम व्योम्ना चावेष्टितं जगत्‌।
अन्तर्बहिश्च तद्व्योम कथं देवो निरञ्जनः॥४९॥

हे भगवन्‌ ! व्योम आकाशं ब्रह्माण्डव्यापितं
ब्रह्माण्डावच्छिन्नमित्यर्थः । व्योम्ना च आकाशेन जगत्‌ आवेष्टितं
व्याप्तम्‌ , तस्मात्कारणात्‌ अन्तर्बहिश्च व्योमैव वर्तते ,
एवं सति देवः ईश्वरः कथं निरञ्जनः अन्यप्रकाशनिरपेक्षः
कथमित्यर्थः॥४९॥

आकाशादिसर्वप्रपञ्चस्य कल्पितत्वेन सर्वं
सेत्स्यतीत्यभिप्रायेणाह –
श्रीभगवानुवाच –

आकाशो ह्यवकाशश्च आकाशव्यापितं च यत्‌।
आकाशस्य गुणः शब्दो निःशब्दो ब्रह्म उच्यते॥५०॥

आकाशः महाकाशः अवकाशः परिच्छिन्नाकाशः
उभयमप्याकाशेन आकाशतन्मात्रभूतेन शब्देन
व्यापितं व्याप्तं तदुपादनकतया तदतिरिक्तं न
भवतीत्यर्थः। तर्हि उपादानस्य शब्दस्य
अतिरिक्तत्वमस्त्वित्यत आह –
आकाशस्य गुणः शब्द इति , शब्दः तन्मात्रभूत आकाशस्य
मिथ्याभूताकाशस्य गुणः परिणाम्युपादानं यतः , अत एव स्वयमपि
मिथ्याभूत इत्यर्थः। ब्रह्म तु निःशब्दः निष्प्रपञ्चः
इत्युच्यते। तथा च सत्यस्याक्षरस्य ब्रह्मणः असत्येन सह
सम्बन्धासम्भवात्‌ निरञ्जनत्वमुपपद्यत इत्यर्थः॥५०॥

एवं भगवतोक्ते अक्षरशब्दस्य भगवदभिमतार्थम्
अजानानः सन्‌ लोकप्रसिद्धवर्णात्मकाक्षरबुद्ध्या
वर्णानामक्षरत्वं न सम्भवतीत्यभिप्रायेण पृच्छति –
अर्जुन उवाच –

दन्तोष्ठतालुजिह्वानामास्पदं यत्र दृश्यते।
अक्षरत्वं कुतस्तेषां क्षरत्वं वर्तते सदा॥५१॥

हे भगवन्‌ ! यत्र वर्णात्मकाक्षरेषु दन्तोष्ठतालुजिह्वानाम्‌ , उपलक्षणेमेतत्‌ कण्ठादीनामष्टानां
स्थानानाम्‌ , आस्पदम्‌ आस्पदत्वं दृश्यते प्रत्यक्षमनुभूयते । ‘अकुहविसर्जनीयानां कण्ठः ‘ इत्यादिना
श्रूयते च। तथा च तेषां वर्णानाम्‌ अक्षरत्वं नाशरहितत्वं कुतः ? उत्पत्तिमतो नाशावश्यम्भावात्‌ । सदा
सर्वकालं क्षरत्वं नाशवत्त्वमेव वर्तते तेषाम्‌ , नाशरहितत्वं कुत इति प्रश्नार्थः॥५१॥

एवमभिप्रायमजानानेन अर्जुनेन पृष्ठे स्वाभिप्रेतमक्षरशब्दार्थं स्फुटयन्‌ भगवानुवाच –
श्रीभगवानुवाच –

अघोषमव्यञ्जनमस्वरं चाप्यतालुकण्ठोष्ठमनासिकं च।
अरेखजातं परमूष्मवर्जितं
तदक्षरं न क्षरते कथंचित्‌॥५२॥

अघोषं घोषाख्यवर्णगुणरहितम्‌ अव्यञ्जनं
ककारादिव्यञ्जनातीतम्‌ अस्वरम्‌ अजतीतम्‌ , अतालुकण्ठोष्ठमपि अज्व्यञ्जनाद्युत्पत्तिस्थानताल्वोष्ठादिरहितम्‌
अनासिकम्‌ अनुस्वारोत्पातिस्थाननासिकातीतम्‌ अरेखजातं
वर्णव्यञ्जकरेखासमूहातीतम्‌ ऊष्मवर्जितं शषसहातीतम्‌ , यद्वा , ऊष्मशब्देन श्वासाख्यो गुणोऽभिधीयते
तद्रहितम्‌ , परं लोकप्रसिद्धवर्णलक्षणातीतं यत्‌ ब्रह्म
कथञ्चित्‌ सर्वप्रकारेण सर्वकालेऽपि न क्षरते ,
तदेवाक्षरशब्देनोच्यते। न लौकिकान्यक्षराणीत्यर्थः॥५२॥

एतादृशं ब्रह्मज्ञानोपायम्‌ अनुभवदार्ढ्याय
पुनरपि पृच्छति –
अर्जुन उवाच –

ज्ञात्वा सर्वगतं ब्रह्म सर्वभूताधिवासितम्‌।
इन्द्रियाणां निरोधेन कथं सिध्यन्ति योगिनः॥५३॥

सर्वभूताधिवासितं सर्वभूतेष्वप्यन्तर्यामितया
स्थितं
सर्वगतम्‌ अन्तर्बहिश्च परिपूर्णं ब्रह्म ज्ञात्वा सम्यग्विबुध्य योगिनः इन्द्रियाणां निरोधेन इन्द्रियनियमनेन कथं
सिध्यन्ति
केनोपायेन मुक्ता भवन्तीत्यर्थः॥

एवं पृष्टो भगवान्‌ तमेव ज्ञानोपायं पुनरप्याह –
श्रीभगवानुवाच –

इन्द्रियाणां निरोधेन देहे पश्यन्ति मानवाः।
देहे नष्टे कुतो बुद्धिर्बुद्धिनाशे कुतो ज्ञता॥५४॥

मानवाः मनुष्या इन्द्रियाणां निरोधेन इन्द्रियनियमनेन
देहे देहे एव पश्यन्ति ज्ञास्यन्ति , तस्मात्‌ देहदार्ढ्यम् इन्द्रियदार्ढ्यं  च
ज्ञानोपाय इति भावः। तदभावे ज्ञानमेव नास्ति इत्याह –
देहे नष्टे अदृष्टे सति बुद्धिः कुतः तत्त्वज्ञानं कुतः ?
तस्माद्देहेन्द्रियादिभिः यज्ञदानादिश्रवणादिकमेव तत्त्वज्ञाने
कारणमिति भावः॥५४॥

तादृशं च कारणं
यावत्पर्यन्तमनुष्ठेयमित्याशङ्क्य
अवधिमाह –

तावदेव निरोधः स्याद्यावत्तत्त्वं न विन्दति।
विदिते तु परे तत्त्वे एकमेवानुपश्यति॥५५॥

यावत्तत्त्वज्ञानं नास्ति
तावत्पर्यन्तमिन्द्रियनिरोधः स्यात्‌ ;
परे तत्त्वे अखण्डानन्दब्रह्मणि विदिते अपरोक्षभूते सति ,
एकमेवानुपश्यति एकमेव देहेन्द्रियसाधनानुष्ठानादिसाधनरहितं ब्रह्मैवानुपश्यति , नान्यत्‌ ; तदनन्तरं साधनानुष्ठाप्रयासोऽपि मा भूदिति भावः॥५५॥

Author Socials Follow me