उत्तरगीता गौडपादीयदीपिकासहिता (२)

एवमर्जुनेन पृष्टो भगवान् प्रश्नार्थमभिनन्दन्नुत्तरमाह — श्रीभगवानुवाच — साधु पृष्टं महाबाहो बुद्धिमानसि पाण्डव । यन्मां पृच्छसि तत्त्वार्थमशेषं प्रवदाम्यहम् ॥३॥   हे महाबाहो इति सम्बोधयन् सर्वशत्रुनिबर्हणसामर्थ्यं द्योतयति । त्वं मां प्रति यत् आत्मतत्त्वार्थं पृच्छसि दशेषं यथा भवति तथा तुभ्यमहं प्रवदामि ॥३॥ तदेवमात्मतत्त्वं सोपायमाह — आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् । योगेन गतकामानां भावना ब्रह्म चक्षते  ॥४॥ आत्मनि तात्पर्येण पर्यवसन्नस्य प्रणवात्मकस्य मन्त्रस्य तात्पर्यविषयहंसस्य हन्ति स्वतत्त्वज्ञानेनाज्ञानसंसारमिति हंसः ,  तस्य परमात्मनः परस्परसमन्वयादन्योन्यप्रतिपाद्यप्रतिपादकभावसंसर्गादनेन सर्ववेदान्ततात्पर्यगोचरत्वं तत्तु समन्वयात् (व्या. सू. १।१।४ ) इति समन्वयाधिकरणोक्तं दर्शितम्  । योगेन आत्मत्त्वविचाराख्येन गतकामानां नष्टारिषड्वर्गाणाम् । अनेन ज्ञानप्रतिबन्धककल्मषनिवृत्तिर्दर्शिता । तेषां ये भावना तत्त्वमसीत्यादिवाक्यजन्या चरमवृत्तिः  तन्निवृत्तिर्वा (तन्निवृत्याऽविद्यानिवृत्तिर्वा . इति क्वचित्पुस्तके नास्ति) निवृत्त्यधिष्ठानं वा ब्रह्मेत्याचक्षते प्राहुः तत्त्वज्ञा इति शेषः ॥४॥ तदेव तत्त्वज्ञानं तन्नि(वर्त्या / वृत्या)ऽविद्यानिवृत्तिञ्चाह — शरीरिणामजस्यान्तं हंसत्वं पारदर्शनम् । हंसो हंसाक्षरञ्चैव कूटस्थं यत्तदक्षरम्  ॥५॥ तद्विद्वानक्षरं प्राप्य जह्यान्मरणजन्मनी ॥६॥ अजस्य जीवस्य अन्तमवधिभूतं हंसत्वं परब्रह्मरूपत्वं शरीरिणां जीवानां पारदर्शनं परमं ज्ञानं हंसः ब्रह्म हंसाक्षरञ्च प्रणवञ्च एतत्कूटस्थं यत् एतदुभयसाक्षिभूतं यत् तदक्षरमित्युच्यते । अनेन त्रिविधपरिच्छेदशून्यत्वं दर्शितम् । तत् स्वरूपं विद्वान् विवेकी सन् तदक्षरं वस्तु प्राप्य मरणजन्मनी जन्ममरणप्रवाहरूपं संसारं जह्यात् त्यजेदिति यावत् (सा च मुक्तिः . इति क्वचिदधिकं पाठम्) ॥५॥६॥

Author Socials Follow me