उत्तरगीता गौडपादीयदीपिकासहिता (३)

मुक्तौ जीवपरयोरैक्यं प्रतिपादयितुमध्यारोपापवादाभ्यां निष्प्रपञ्चं ब्रह्म प्रपञ्च्यते (जीवपरयोरैक्यं प्रतिपादयते . इति पाठान्तरम्) —   काकीमुखककारान्त उकारश्चेतानाकृतिः । अकारस्य च लुप्तस्य कोऽर्थः सम्(प्रति/प)पद्यते ॥७॥   कं अकं काके सुखदुःखे ते अस्य स्त इति काकी जीव अविद्याप्रतिबिम्बः ।  तस्य मुखं मुखस्थानीयं बिम्बभूतं यद्ब्रह्म तत्प्रतिपादकं यत्ककारान्तं मुखमित्येतत्काकाक्षिन्यायेनात्रापि सम्बद्ध्यते । तथा च शब्दश्लेषः मुखभूतककारस्य काकीत्यत्र प्राथमिकककारस्य अन्तः अन्तिमं यदक्षरमकारात्मकं पञ्चीकृतपञ्चमहाभूतानि तत्कार्याणि विराडित्युच्यते । एतत्स्थूलशरीरमात्मनः इन्द्रियैरर्थोपलब्धिर्जागरितं तदुभयाभिमान्यात्मा विश्व एतत्त्रयमकारस्यार्थः । उकारश्चेतनाकृतिः काकीमुखेत्यत्र मकारात्परो य उकार अपञ्चीकृतपञ्चमहाभूतानि तत्कार्याणि सप्तदशकं लिङ्गं हिरण्यगर्भ इत्युच्यते । एतत्सूक्षमशरीरमात्मनः करणेषूपसंहृतेषु जागरितसंस्कारजप्रत्ययः स्वविषयस्वप्नः तदुभयाभिमान्यात्मा तैजसः । एतत्त्रयमुकारस्यार्थः । चेतनाकृतिः चेतनस्य हिरण्यगर्भात्मकतैजसस्य आकृतिः वाचकः । मकारस्य काकीमुखेत्यत्र उकारात्पूर्वमभिहितो यो मकार इमं शरीरद्वयकारणमात्माज्ञानं साभासमव्याकृतमित्युच्यते । तच्च न सत् नासत् नापि सदसत् न भिन्नं नाभिन्नं नापि भिन्नाभिन्नं कुतश्चिन्न निरवयवं न सावयवं नोभयं किन्तु केवलब्रह्मात्मैकत्वज्ञानापनोद्यं सर्वप्रकारकज्ञानोपसंहारो बुद्धेः कारणं सुषुप्तिः तदुभयाभिमान्यात्मा प्राज्ञः । एतत्त्रयं मकारस्यार्थः । लुप्तस्य अकारस्य उकारे उकारो मकारे मकारः ओङ्कारे एवं लुप्तस्य कोऽर्थः ककारात् परो य अकारः तस्य योऽर्थः लक्ष्यस्वरूपं तत्संप्रतिपद्यते तदैक्यं प्राप्नोतीत्यर्थः । अयमात्मा ब्रह्म , स यश्चायं पुरुषे यश्चासावादित्ये स एकः , तत्त्वमसि , अहं ब्रह्मास्मि इत्यादिश्रुतिभ्य इति भावः । यद्वा कं अकं काके सुखदुःखे ते अस्य स्त इति काकी जीवः । तत्प्रतिपादकशब्दस्य मुखे अग्रे यः ककारः तस्यान्तो य अकारः ब्रह्म चेतनाकृतिः जीवाकार इत्यर्थः ।   ब्रह्मैव स्वाविद्यया संसरतीति न्यायादकारस्य जीवत्वाकारस्य लुप्तस्य अपगतस्य कोऽर्थः अखण्डाद्वितीयसच्चिदानन्दरूपोऽर्थः तं काकीमुखेत्याद्युक्तप्रकारेणैक्यानुसन्धानात् सम्प्रतिपद्यते प्राप्नोतीत्यर्थः । (ई / इ)कारश्चेतनाकृतिः इति पाठे ( इ / ई )कारः मूलप्रकृतिः तस्य ब्रह्मणश्चेतयमाना आकृतिः शक्तिः ( / आ)कारस्य लुप्तस्य परिणाममानाविद्यालोपवतः ब्रह्मणः कोऽर्थः ककारात्परो योऽकारः तस्य योऽर्थः लक्ष्यस्य स्वरूपं तत्संप्रतिपद्यते तदैक्यं प्राप्नोतीत्यर्थः । एवमुपासक इति शेषः ।  तथा च श्रुतिः – आप्लवस्व प्रप्लवस्व आण्डीभव ज मा मुहुः । सुखादिं दुःखनिधनां प्रतिमुञ्चस्व स्वां पुरम् ॥ अस्यार्थः —  हे जननमरणाद्युक्तजीवः त्वमाप्लवस्व जीवन्मुक्तो भव प्रप्लवस्व साक्षान्मुक्तो भव मुहुः आण्डी ब्रह्माण्डमध्यवर्ती संसारी मा भव मा भूः । संसारी चेत्किमपराद्धमित्याशङ्याह – सुखादिं वैषयिकसुखहेतुं दुःखनिधनां दुःखमेव निधने अन्ते यस्यास्तां स्वां पुरं स्वकीयस्थूलसूक्ष्मदेहद्वयं प्रतिमुञ्चस्व त्यजस्व ॥७॥

Author Socials Follow me