उत्तरगीता गौडपादीयदीपिकासहिता (१२)

एतस्यैकान्तिकदृष्टेः विधिनिषेधातीतत्वमाह –

शून्यभावितभावात्मा पुण्यपापैः प्रमुच्यते।

 शून्यमिति सर्वपरिच्छेदरहितमिति भावितो वासितो
भावोऽभिप्रायो यस्यात्मनः तादृशः सन्‌
शून्यभावितभावात्मा
योगी पुण्यपापैः विधिनिषेधप्रयुक्तैः प्रमुच्यते मुक्तो
भवतीत्यर्थः॥

एवं भगवदुपदिष्टसमाधौ विरोधमसम्भवं च आह

अर्जुन उवाच –
अदृश्ये भावना नास्ति दृश्यमेतद्विनश्यति॥३६॥
अवर्णमस्वरं ब्रह्म कथं ध्यायन्ति योगिनः। 

अदृश्ये ज्ञानागोचरे वस्तुनि भावना ध्यानं नास्ति ;
ननु तर्हि दृश्यं भवत्विति चेत्‌ , दृश्यमेतत् सर्वं
विनश्यति नाशं प्राप्नोति शुक्तिकारूप्यवत्‌। तथा च
अवर्णं रूपरहितम्‌ अस्वरं शब्दागोचरं ब्रह्म योगिनः कथं ध्यायन्ति ,
ध्यानस्य स्मृत्यात्मकत्वेनाननुभूते तदयोगादिति भावः।

न हि सावयवमूर्त्यादिमत्त्वेन वयं ध्यानं ब्रूमः
येन त्वयोक्तं घटेत , किं तु निर्विशेषपरब्रह्मण एव निर्मलं
निष्कलमित्यादिना वेदान्तजन्यवृत्तिगोचरत्वेन
तत्सम्भवतीत्यभिप्रायेणाह –

श्रीभगवानुवाच –
ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं यदात्मकम्‌॥३७॥
सर्वपूर्णं स आत्मेति समाधिस्थस्य लक्षणम्‌। 
ऊर्ध्वाधोमध्यपूर्णशब्दैः सर्वदेशतः सर्वकालतः
परिच्छेदं व्यावर्तयति। यदात्मकं यद् एतादृशं वस्तु
सर्वत्र परिपूर्णं स आत्मेति यो ध्यायति , स समाधिस्थः।
तस्य लक्षणमपि तदेवेत्यर्थः॥
नन्वयं सालम्बनयोगो निरालम्बनयोगो वेति द्वेधा
विकल्प्य तत्र दोषमाशङ्क्याह – 
अर्जुन उवाच – 
सालम्बस्याप्यनित्यत्वं निरालम्बस्य शून्यता॥३८॥ 
उभयोरपि दुष्टत्वात्कथं ध्यायन्ति योगिनः।
सालम्बस्य मूर्त्याधारादिसहितस्य अनित्यत्वं विनाशित्वं ,
निरालम्बस्य मूर्त्याधारादिरहितस्य शून्यता शशविषाणायितत्वम्‌ , एवमुभयोरपि दुष्टत्वात्‌
दोषघटितत्वाद् योगिनः कथं ध्यायन्तीति प्रश्नार्थः॥ 
यज्ञदानादिना शुद्धान्तःकरणस्य
वेदान्तजन्यनिर्विशेषब्रह्मगोचरवृत्तिसम्भवान्न
शून्यतेत्यभिप्रायेणाह- 
श्रीभगवानुवाच – 
हृदयं निर्मलं कृत्वा चिन्तयित्वाप्यनामयम्‌॥३९॥ 
अहमेव इदं सर्वमिति पश्येत्परं सुखम्‌। 
हृदयं चित्तं निर्मलं ज्ञानविरोधिरागादिदोषरहितं
कृत्वा अनामयं चिन्तयित्वा ईश्वरं ध्यात्वा परं सुखी सन्‌
एक एवाहमिदं सर्वं जगज्जालमहमेव न मत्तो व्यतिरिक्तमन्यत्‌
इति पश्येद् अपरोक्षानुभवं प्राप्नुयात्‌ इत्यर्थः॥
अर्थात्मकस्य जगतः शब्दनिरूप्यत्वेन शब्दस्य वर्णात्मकत्वेन वर्णानां प्रणवात्मकत्वेन प्रणवस्य बिन्द्वात्मकत्वेन
बिन्दोः नादात्मकत्वेन नादस्य ब्रह्मध्यानस्थानात्मककलात्मकत्वेन ब्रह्मणि समन्वयेन बिन्दुनादकलातीतं ब्रह्म
ध्यायेदिति भगवतोक्तम्‌ । तद्विविच्य ज्ञातुं पृच्छति – 
अर्जुन उवाच – 
अक्षराणि समात्राणि सर्वे बिन्दुसमाश्रिताः॥४०॥ 
बिन्दुभिर्भिद्यते नादः स नादः केन भिद्यते।
हे भगवन्‌ समात्राणि अक्षराणि अकारादीनि सर्वे
सर्वाणि लिङ्गव्यत्ययः आर्षः , बिन्दुसमाश्रिताः
बिन्दुतन्मात्राणीत्यर्थः । बिन्दुस्तु नादेन भिद्यते नादतन्मात्रः
सन्‌ तत्र समन्वेतीत्यर्थः । स नादः कलायां समन्वेति । सा
कला
कुत्र समन्वेति इति प्रश्नार्थः । यद्यपि श्लोके स नादः केन
भिद्यत इति
नादस्यैव समन्वयः पृष्ट इति भाति , तथापि नादस्य
कलासमन्वय
इति प्रसिद्धत्वात्‌ नादपदं कलोपलक्षणम्‌॥

Author Socials Follow me