उत्तरगीता गौडपादीयदीपिकासहिता (७)

एवमात्मतत्त्वापरोक्षज्ञा(नी/नेन) मुक्तः सन् ईश्वर एव जायते । तस्य स्वरूपमाह– यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः  ॥१८॥ वेदादौ सर्ववेदानामादौ वेदस्याधःस्रवणपरिहाराय निधीयमानः । वेदान्ते च सर्ववेदानामन्ते उपर्युत्क्रमणपरिहाराय प्रतिष्ठितः संस्थापितः । चकारात्सर्ववेदरक्षणाय वेदमध्ये च निहितः यः स्वरः प्रणवात्मकः । तस्य प्रणवस्य परावस्थायां लीनस्य यः परः परादिवाक्यचतुष्टयबोधितः । उपलक्षणञ्चैतत् सर्वप्राणेन्द्रियकरणप्रबोधकः सर्वनियन्ता सर्वान्तर्यामी यो महेश्वरः इति प्रसिद्धः । स एवात्मतत्त्वज्ञानी नान्य इत्यर्थः ॥१८॥ आत्मतत्त्वापरोक्षानुभवात्पूर्वं यावत्तत्साधने प्रयत्नः कृतः, ज्ञाने च तस्मिन् अनुभूते स न कर्तव्य इत्याह – नावार्थी तु भवेत्तावद्यावत्पारं न गच्छति । उत्तीर्णे तु सरित्पारे नावया  किं प्रयोजनम् ॥१९॥ यावत्पर्यन्तं पारं नदीतीरं न गच्छति न सम्प्राप्नोति तावत्पर्यन्तं नावार्थी नदीतरणसाधनार्थी भवेत् भूयात् । सरित्पारे नदीतीरे उत्तीर्णे सति नावया नदीतरणसाधनेन किं प्रयोजनम् ? किमपि नास्तीत्यर्थः । तद्वदत्रापि आत्मापरोक्षे जाते शास्त्रादिभारैः किं प्रयोजनम् ? न किमपीति भावः ॥१९॥   तदेव भङ्ग्यन्तरेण सदृष्टान्तमाह — ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥२०॥ मेधावी बुद्धिमान् ग्रन्थमभ्यस्य वेदान्तश्रवणं कृत्वा ज्ञाने सामान्यज्ञाने विज्ञाने विशेषानुभवे तत्परः सन् ग्रन्थं सर्वं शास्त्रं त्यजेत् । अत्र दृष्टान्तः – धान्यार्थी धान्यसहितं तृणमादाय तद्गतधान्यस्वीकारानन्तरं पलालं गतकणशं तृणं यथा त्यजति तद्वदित्यर्थः ॥२०॥

Author Socials Follow me