पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१५)

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् ॥१५॥ 

व्यासभाष्यम्
 स्त्रियोऽन्न(न्नं)पानमैश्वर्यमिति दृष्टविषये (वितृष्णस्य / विरक्तस्य) (दृष्टविषयवितृष्णस्य) स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्तावानुश्रविकविषये वितृष्णस्य दिव्यादिव्यविषयसम्प्रयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसङ्ख्यानबलादनाभोगात्मिका हेयोपादेयशून्या वशीकारसञ्ज्ञा वैराग्यम् ।। १५ ।।

तत्त्ववैशारदी
वैराग्यमाह – दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् । चेतनाचेतनेषु दृष्टविषयेषु वितृष्णतामाह — स्त्रिय इति । ऐश्वर्यमाधिपत्यम् । अनुश्रवो वेदस्ततोऽधिगता आनुश्रविकाः स्वर्गादयः । तत्रापि वैतृष्ण्यमाह – स्वर्गेति । देहरहिता विदेहाः करणेषु लीनाः , तेषां भावो वैदेह्यम् । अन्ये तु प्रकृतिमेवात्मानमभिमन्यमानाः प्रकृत्युपासकाः प्रकृतौ साधिकारायामेव लीनास्तेषां भावः प्रकृतिलयत्वम् ; तत्प्राप्तिविषये , आनुश्रविकविषये वितृष्णस्य , आनुश्रविकविषये वितृष्णो हि स्वर्गादिप्राप्तिविषये वितृष्ण उच्यते । 
ननु यदि वैतृष्णमात्रं वैराग्यम् , हन्त विषयाप्राप्तावपि तदस्तीति वैराग्यं स्यादिति ।
अत आह – दिव्यादिव्येति । न वैतृष्ण्यमात्रं वैराग्यम् , अपि तु दिव्यादिव्यविषयसम्प्रयोगेऽपि चित्तस्यानाभोगात्मिका । तामेव स्पष्टयति – हेयोपादेयशून्या आसङ्गद्वेषरहितोपेक्षाबुद्धिर्वशीकारसञ्ज्ञा ।
कुतः पुनरियमित्यत्राह – प्रसङ्ख्यानबलादिति । तापत्रयपरीतता विषयाणां दोषः , तत्परिभावनया तत्साक्षात्कारः प्रसख्यानम् , तद्बलादित्यर्थः । 
यतमानसञ्ज्ञा , व्यतिरेकसञ्ज्ञा, एकेन्द्रियसञ्ज्ञा , वशीकारसञ्ज्ञा चेति चतस्त्रः सञ्ज्ञा इत्यागमिनः । 
रागादयः खलु कषायाश्चित्तवर्तिनस्तैरिन्द्रियाणि यथास्वं विषयेषु प्रवर्तन्ते(प्रवर्त्यन्ते) , तन्मा प्रवर्तिषतेन्द्रियाणि तत्तद्विषयेष्विति तत्परिपाचनायारम्भः प्रयत्नः , सा यतमानसञ्ज्ञा । 
तदारम्भे सति केचित्कषायाः पक्वाः , पच्यन्ते पक्ष्यन्ते च केचित् । तत्र पक्ष्यमाणेभ्यः पक्वानां व्यतिरेकेणावधारणं व्यतिरेकसञ्ज्ञा । 
इन्द्रियप्रवर्तनासमर्थतया पक्वानामौत्सुक्यमात्रेण मनसि व्यवस्थानमेकेन्द्रियसञ्ज्ञा । 
औत्सुक्यमात्रस्यापि निवृत्तिरुपस्थितेषु (अपि / च) दिव्यादिव्यविषयेषूपेक्षाबुद्धिः सञ्ज्ञात्रयात्परा वशीकारसञ्ज्ञा । एतयैव च पूर्वासां चरितार्थत्वान्न ताः पृथगुक्ता इति सर्वमवदातम् ॥१५॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१४)

स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥१४॥ 
व्यासभाष्यम् 
दीर्घकालाऽऽसेवितो निरन्तराऽऽसेवितः सत्कारासेवितः तपसा ब्रह्मचर्येण विद्यया श्रद्धया च सम्पादितः सत्कारवान्दृढभूमिर्भवति । व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः ।। १४ ।। 
तत्त्ववैशारदी 
ननु व्युत्थानसंस्कारेणानादिना परिपन्थिना प्रतिबद्धोऽभ्यासः कथं स्थित्यै कल्पत इति ।
अत आह – स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः । सोऽयमभ्यासो विशेषणत्रयसम्पन्नः सन्दृढावस्थो , न सहसा व्युत्थानसंस्कारैरभिभूतस्थितिरूपविषयो भवति । यदि पुनरेवंभूतमप्यभ्यासं कृत्वोपरमेत्ततः कालपरिवासेनाभिभूयेत । तस्मान्नोपरन्तव्यमिति भावः ॥१४॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१३)

तत्र स्थितौ यत्नोऽभ्यासः ॥१३॥ 
व्यासभाष्यम् 
चित्तस्यावृत्तिकस्य प्रशान्तवाहिता स्थितिः । तदर्थः प्रयत्नो वीर्यमुत्साहः । तत्सम्पिपादयिषया तत्साधनानुष्ठानमभ्यासः ॥१३॥ 
तत्त्ववैशारदी 
तत्राभ्यासस्य स्वरूपप्रयोजनाभ्यां लक्षणमाह 
–  तत्र स्थितौ यत्नोभ्यासः ।
तद्व्याचष्टे – चित्तस्यावृत्तिकस्य राजसतामसवृत्तिरहितस्य प्रशान्तवाहिता विमलता सात्त्विकवृत्तिवाहितैकाग्रता स्थितिः । तदर्थ इति स्थिताविति निमित्तसप्तमी व्याख्याता । यथा – ‘चर्मणि द्वीपिनं हन्ति’ इति । प्रयत्नमेव पर्यायाभ्यां विशदयति – वीर्यमुत्साह इति । तस्येच्छायोनितामाह – तत्सम्पिपादयिषया । तदिति स्थितिं परामृशति । प्रयत्नस्य विषयमाह – तत्साधनेति । स्थितिसाधनान्यन्तरङ्गबहिरङ्गाणि यमनियमादीनि । साधनगोचरः कर्तृव्यापारो न फलगोचर इति ॥१३॥