पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/२०)

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥ 

व्यासभाष्यम् 
उपायप्रत्ययो योगिनां भवति । श्रद्धा चेतसः सम्प्रसादः । सा हि जननीव कल्याणी योगिनं पाति । तस्य हि श्रद्दधानस्य विवेकार्थिनो वीर्यमुपजायते । समुपजातवीर्यस्य स्मृतिरूपतिष्ठते । स्मृत्युपस्थाने च चित्तमनाकुलं समाधीयते । समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते, येन यथा(र्थं/वद्) वस्तु जानाति । तदभ्यासात् (तत्)तद्विषयाच्च वैराग्यादसम्प्रज्ञातः समाधिर्भवति ॥ २० ॥ 
तत्त्ववैशारदी 
योगिनां तु समाधेरुपायक्रममाह – श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् । नन्विन्द्रियादिचिन्तका अपि श्रद्धावन्त एवेत्यत आह – श्रद्धा चेतसः सम्प्रसादः । स चागमानुमानाचार्योपदेशसमधिगततत्त्वविषयो भवति हि चेतसः सम्प्रसादोऽभिरुचिरतीच्छा श्रद्धा, नेन्द्रियादिष्वात्माभिमानिनामभिरुचिरसम्प्रसादो हि सः व्यामोहमूलत्वादित्यर्थः । कुतोऽसावेव श्रद्धेत्यत आह – सा हि जनवीव कल्याणी योगिनं पाति विमार्गपातजन्मतोऽनर्थात् । सोऽयमिच्छाविशेष इष्यमाणविषयं प्रयत्नं प्रसूत इत्याह – तस्य हि श्रद्दधानस्य । तस्य विवरणम् – विवेकार्थिनो वीर्यमुपजायते । स्मृतिर्ध्यानम्, अनाकुलमविक्षिप्तम्, समाधीयते = योगाङ्गसमाधियुक्तं भवति । यमनियमादिनान्तरीयकसमाध्युपन्यासेन च यमनियमादयोऽपि सूचिताः । तदेवमखिलयोगाङ्गसम्पन्नस्य सम्प्रज्ञातो जायत इत्याह – समाहितचित्तस्येति । प्राज्ञाया विवेकः = प्रकर्ष उपजायते । सम्प्रज्ञातपूर्वमसम्प्रज्ञातोत्पादमाह – तदभ्यासात् तत्रैव तत्तद्भूमिप्राप्तौ तत्तद्विषयाच्च वैराग्यादसम्प्रज्ञातः समाधिर्भवति । स हि कैवल्यहेतुः । सत्त्वपुरुषान्यताख्यातिपूर्वो हि निरोधश्चित्तमखिलकार्यकरणेन चरितार्थमधिकारादवसादयति ॥२०॥

Author Socials Follow me