पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१९)

स खल्वयं द्विविधः – उपायप्रत्ययो भवप्रत्ययश्च । तत्रोपायप्रत्ययो योगिनां भवति –
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥१९॥ 

व्यासभाष्यम् 
विदेहानां देवानां भवप्रत्ययः । ते हि स्वसंस्कारमात्रोप(योगेन/गतेन) चित्तेन कैवल्यपदमिवानुभवन्तः स्वसंस्कारविपाकं तथाजातीयकमतिवाहयन्ति । तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिकारवशाच्चित्तमिति ॥१९॥ 
तत्त्ववैशारदी 
निरोधसमाधेरवान्तरभेदं हानोपादानाङ्गमार्शयति – स खल्वयं निरोधसमाधिर्द्विविधः उपायप्रत्ययो भवप्रत्ययश्च । उपायो वक्ष्यमाणः श्रद्धादिः प्रत्ययः कारणं यस्य निरोधसमाधेः स तथोक्तः । भवन्ति जायन्तेऽस्यां जन्तव इति भवोऽविद्या भूतेन्द्रियेषु वा विकारेषु प्रकृतिषु वाऽव्यक्तमहदहङ्कारपञ्चतन्मात्रेष्वनात्मस्वात्मख्यातिस्तौष्टिकानां वैराग्यसम्पन्नानाम् । स खल्वयं भवः प्रत्ययः कारणं यस्य निरधेसमाधेः स भवप्रत्ययः ।
तत्र तर्योमध्ये उपायप्रयत्यो योगिनां मोक्षमाणानां भवति । विशेषविधानेन शेषस्य मुमुक्षुसम्बन्धं निषेधति । केषां तर्हि भवप्रत्यय इत्यत्र सूत्रेणोत्तरमाह – भवप्रत्ययो विदेहप्रकृतिलयानाम् । विदेहाश्च प्रकृतिलयाश्च तेषामित्यर्थः । तद्व्याचष्टे – विदेहानां देवानां भवप्रत्ययः । भूतेन्द्रियाणमन्यतम(मा/दा)त्मत्वेन प्रतिपन्नास्तदुपासनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरमिन्द्रियेषु भूतेषु वा लीनाः संस्कारमात्रावशेषमनसः षाट्कौशिकशरीररहिता विदेहाः । ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपदमिवानुभवन्तः प्राप्नुवन्तो विदेहाः ।
अवृत्तिकत्वं च कैवल्येन सारूप्यम्, साधिकारसंस्कारशेषता च वैरूपयम् । संस्कारमात्रोपभोगेनेति क्वचित्पाठः । तस्यार्थः – संस्कारमात्रमेवोपभोगो यस्य न तु चित्तवृत्तिरित्यर्थः । प्राप्तावधयः स्वसंस्कारविपाकं तथा जातीयकमतिवाहयन्ति अतिक्रामन्ति, पुनरपि संसारे विशन्ति । तथा च वायुप्रोक्तम् –
दश मन्वन्तराणीह तिष्ठन्तीद्रियचिन्तकाः । 
……………..भौतिकास्तु शतं पूर्णम् । इति ।
तथा प्रकृतिलयाश्चाव्यक्तमहदहंकारपञ्चतन्मात्रेष्वन्यतम(मा/दा)त्मत्वेन प्रतिपन्नास्तदुपासनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरमव्यक्तादीनामन्यतमस्मिँल्ली(मे ली)नाः साधिकारेऽचरितार्थे । एवं हि चरितार्थं चेतः स्याद्यदि विवेकख्यातिमपि जनयेदजनितसत्त्वपुरुषान्यताख्यातेस्तु चेतसोऽचरितार्थस्यास्ति साधिकारतेति । साधिकारे चेतसि प्रकृ(तौ/ति०)लीने कैल्यपदमिवानुभवन्ति यावन्न पुनरावर्ततेऽधिकारवशाच्चित्तमिति । प्रकृतिसाम्यमुपगतमप्यवधिं प्राप्य पुनरपि प्रादुर्भवति ततो विविच्यते । यथा वर्षातिपाते मृद्भावमुपगतो मण्डूकदेहः पुनरम्भोदवारिधारावसेकान्मण्डूकदेहभावमनुभवतीति । तथा च वायुप्रोक्तम्–
…………….. सहस्रं त्वाभिमानिकाः । 
बौद्धा दशसहस्राणि तिष्ठिन्ति विगतज्वराः ॥ 
पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः । 
पुरुषं निर्गुणं प्राप्य कालसङ्ख्या न विद्यते ॥ इति ।
तदस्यपुनर्भवप्राप्तिहेतुतया हेयत्वं सिद्धम् ॥१९॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१८)

अथासम्प्रज्ञातसमाधिः किमुपायः किंस्वभावो वेति – 
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१८॥ 

व्यासभाष्यम् 
सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः । तस्य परं वैराग्यमुपायः । सालम्बनो ह्यभ्यासस्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते । स चार्थशून्यः । तदभ्यासपूर्वं(र्वकं हि) चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः समाधिरसम्प्रज्ञातः ।। १८ ।। 
 
तत्त्ववैशारदी 
क्रमप्राप्तमसम्प्रज्ञातमवतारयितुं पृच्छति – अथेति । विरामप्रत्यायाभ्यासपूर्वः संस्कारशेषोऽन्यः । पूर्वपदेनोपायकथनमुत्तराभ्यां च स्वरूपकथनम् । मध्यमं पदं विवृणोति – सर्ववृत्तीति । प्रथमं पदं व्याचष्टे – तस्य परमिति । विरामो वृत्तीनामभावः , तस्य प्रत्ययः = कारणम् , तस्याभ्यासः = तदनुष्ठानं पौनःपुन्यम् , तदेव पूर्वं यस्य स तथोक्तः ।
अथापरं वैराग्यं निरोधकारणं कस्मान्न भवतीति ।
अत आह – सालम्बानो हीति । कार्यसरूपं कारणं युज्यते , न विरूपम् । विरूपं चापरं वैराग्यं सालम्बनं निरालम्बनसमाधिना कार्येण । तस्मान्निरालम्बनादेव ज्ञानप्रसादमात्रात्तस्योत्पत्तिर्युक्ता । धर्ममेघसमाधिरेव हि नितान्तविगलितरजस्तमोमलाद् बुद्धिसत्त्वादुपजातः तत्तद्विषयातिक्रमेण प्रवर्तमानोऽनन्तो विषयावद्यदर्शी समस्तविषयपरित्यागाच्च स्वरूपप्रतिष्ठः सन्निरालम्बनः संस्कारमात्रशेषस्य निरालम्बनस्य समाधेः कारणामुपपद्यते सारूप्यादिति । आलम्बनीकरणमाश्रयणम् । अभावप्राप्तमिव वृत्तिरूपकार्याकरणान्निर्बीजो = निरालम्बनः । अथवा बीजम् क्लेशकर्माशयाः , ते निष्क्रान्ता यस्मात्स तथा ॥१८॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१७)

अथोपायद्वयेन निरुद्धचित्तवृत्तेः कथमुच्यते सम्प्रज्ञातः समाधिरिति —

 वितर्कविचारानन्दास्मिता(रूपा)नुगमात्सम्प्रज्ञातः ॥१७॥ 

व्यासभाष्यम् 
वितर्कश्चित्तस्याऽऽलम्बने स्थूल आभोगः । सूक्ष्मो विचारः । आनन्दो ह्लादः । एकात्मिका संविदस्मिता । तत्र प्रथमश्चतुष्टयानुगतः समाधिः सवितर्कः । द्वितीयो वितर्कविकल सविचारः । तृतीयो विचारविकलः सानन्दः । चतुर्थस्तद्विकलोऽस्मितामात्र इति । सर्व एते सालम्बनाः सामाधयः ।।१७ ।। 

तत्त्ववैशारदी
उपायमभिधाय सप्रकारोपेयकथनाय पृच्छति – अथोपायद्वयेनेति । वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः । सम्प्रज्ञातपूर्वकत्वादसम्प्रज्ञातस्य प्रथमं सम्प्रज्ञातोपवर्णनम् । सम्प्रज्ञातसामान्यं वितर्कविचारानन्दास्मितानां रूपैः स्वरूपैरनुगमात् प्रतिपत्तव्यम् ।
वितर्कं विवृणोति – चित्तस्येति । स्वरूपसाक्षात्कारवती प्रज्ञाऽऽभोगः । स च स्थूल विषयत्वात् स्थूलः । यथा हि प्राथमिको धानुष्कः स्थूलमेव लक्ष्यं विध्यत्यथ सूक्ष्मम् , एवं प्राथमिको योगी स्थूलमेव पाञ्चभौतिकं चतुर्भुजादि ध्येयं साक्षात्करोत्यथ सूक्ष्ममिति ।
एवं चित्तस्याऽऽलम्बने सूक्ष्म आभोगः स्थूलकारणभूतसूक्ष्मपञ्चतन्मात्रलिङ्गालिङ्गविषयो विचारः ।
तदेवं ग्राह्यविषयं दर्शयित्वा ग्रहणविषयं दर्शयति – आनन्द इति । इन्द्रिये स्थूल आलम्बने चित्तस्याऽऽभोगो ह्लाद आनन्दः । प्रकाशशीलतया खलु सत्त्वप्रधानादहंकरादिन्द्रियाण्युत्पन्नानि । सत्त्वं सुखमिति तान्यपि सुखानीति तस्मिन्नाभोगो ह्लाद इति ।
ग्रहीतृविषयं सम्प्रज्ञातमाह – एकात्मिका संविदिति । अस्मिताप्रभवाणीन्द्रियाणि , तेनैषामस्मिता सूक्ष्मं रूपम् । सा चाऽऽत्मना ग्रहीत्रा सह बुद्धिरेकात्मिका संवित् (इति) । तस्यां च ग्रहीतुरन्तर्भावाद्भवति ग्रहीतृविषयः सम्प्रज्ञात इति ।
चतुर्णामपरमप्यवान्तरविशेषमाह – तत्र प्रथम इति । कार्यं कारणानुप्रविष्टं न कारणं कार्येण । तदयं स्थूल आभोगः स्थूलसूक्ष्मेन्द्रियास्मिताकारणचतुष्टयानुगतो भवति । उत्तरे तु त्रिद्व्येककारणकास्त्रिद्व्येकरूपा भवन्ति ।
असम्प्रज्ञाताद्भिनत्ति – सर्व एत इति ॥१७॥