एकाक्षरकोशः

  अकारो वासुदेवः स्याद् आकारस्तु पितामहः । पूजायामपि माङ्गल्ये आकारश्च प्रकीर्तितः ॥१॥   इकार उच्यते कामो लक्ष्मीः ईकार उच्यते । उकारः शङ्करः प्रोक्त ऊकारश्चापि लक्षणे ॥२॥   रक्षणे चापि ऊकार ऊकारो ब्रहणि स्मृतः । ऋकारो वेदमाता स्याद् ॠकारो दनुजप्रसूः ॥३॥   लृकारो देवजातीनां माता सद्भिः प्रकिर्तिता । ॡकारः स्मर्यते पूर्वैः जननी शब्दकोविदैः ॥४॥   एकार उच्यते विष्णुरैकारः स्यान्महेश्वरः । ओकारस्तु भवेद् ब्रह्मा औङ्कारोऽनन्त उच्यते ॥५॥   अं स्याच्च परं ब्रह्म अः स्याच्चैव महेश्वरः । कः प्रजापतिरुद्दिष्टः कोऽर्कवाय्वनलेषु च ॥६॥   कश्चात्मनि मयूरे च कः प्रकाश ऊदाहृतः । कं शिरोजलमाख्यातं कं सुखं च पकीर्तितम्ं ॥७॥   पृथिव्यां कुः समाख्यातः कुः शब्देऽपि प्रकीर्तितः । खमिन्द्रिये खमाकाशे खः स्वर्गेऽपि प्रकीर्तितः ॥८॥   सामान्ये च तथा शून्ये खशब्दः परिकीर्तितः । गो गणेशः समुद्दिष्टो गन्धर्वो गः प्रकीर्तितः ॥९॥   गं गीतं गा च गाथा स्याद् गौश्च धेनुः सरस्वती । घा घण्टा च समाख्याता घो घनश्च प्रकीर्तितः ॥१०॥   घो घण्टाहननेऽधर्मे घुर्घोणा घूः ध्वनावपि । ङकारो भैरवः ख्यातो ङकारो विषयस्पृहा ॥११॥   चश्चन्द्रमा समाख्यातो भास्करे तस्करे मतः । निर्मलं छं समाख्यातं तरले छः प्रकीर्तितः ॥१२॥   छेदके छः समाख्यातो विद्वद्भिः शब्दकोविदैः । जकारो गायने प्रोक्तो जेमने जः प्रकीर्तितः ॥१३॥   जेता जश्च प्रकथितः सूरिभिः शब्दशासने । रवो झकारः कथितो नष्टे झश्चोच्यते बुधैः ॥१४॥   झकारश्च तथा वायौ नेपथ्ये समुदाहृतः । ञकारो गायने प्रोक्तो ञकारो झर्झरध्वनौ ॥१५॥   टो धरित्र्याञ्च करके टो ध्वनौ च प्रकीर्तितः । ठकारो जनतायां स्याट्ठो ध्वनौ च शठेऽपि च ॥१६॥   ठो महेशः समाख्यातष्ठश्च शून्ये प्रकीर्तितः । बृहद्ध्वनौ च ठः प्रोक्तः तथा चन्द्रस्य मण्डले ॥१७॥   डकारः शङ्करे त्रासे ध्वनौ भीमे निरुच्यते । ढकारः कीर्तिता ढक्का निर्गुणे निर्धने मतः ॥१८॥   णकारः सूकरे ज्ञाने निश्चये निर्णयेऽपि च । तकारः कीर्तितश्चौरे क्रोडपुच्छे प्रकीर्तितः ॥१९॥   शिलोच्चये थकारः स्यात्थकारो नयरक्षणे । दकारोऽभ्रे कलत्रे च च्छेदे दाने च दातरि ॥२०॥   धं धने सधने धः स्याद्विधातरि मुनावपि । धिषणा धीः समाख्याता धूश्चैव भारवित्तयोः ॥२१॥   नेता नश्च समाख्यातस्तरणौ नः प्रकीर्तितः । नकारः सौगते बुद्धौ स्तुतौ वृक्षे प्रकीर्तितः ॥२२॥   नः शब्दः स्वागते बन्धौ वृक्षे सूर्ये च कीर्तितः । पः कुवेरः समाख्यातः पश्चिमे च प्रकीर्तितः ॥२३॥   पवने पः समाख्यातः पः स्यात्पाने च पातरि । कफे वारे फकारः स्यात्तथाऽऽह्वाने प्रकीर्तितः ॥२४॥   फूत्कारेऽपि च फः प्रोक्तः तथा निष्फलभाषणे । बकारो वरुणः प्रोक्तः कलशे बः फलेऽपि च ॥२५॥   वक्षःस्थले च बः प्रोक्तो गदायां समुदाहृतः । नक्षत्रे भं बुधाः प्राहुः भवने भः प्रकीर्तितः ॥२६॥   दीप्तिर्भा स्याच्च भूर्भुमिः भीर्भयं कथितं बुधैः । मः शिवश्चन्द्रमा वेधा मा लक्ष्मीश्च प्रकीर्तिता ॥२७॥   मा च मातरि माने बन्धने मः प्रकीर्तितः । यशो यः कथितः प्राज्ञैः यो वायुरिति शब्दितः ॥२८॥   याने यातरि यस्त्यागे कथितः शब्दवेधिभिः । रश्च रामेऽनिले वह्नौ भूमावपि धने पि च ॥२९॥   इन्द्रियेन्धनयोगे च रुर्भवे च प्रकीर्तितः । लो दीप्तौ द्यां लश्च भूमौ भये चाह्लादनेऽपि च ॥३०॥   लो वाते लवणे च स्याल्लो दाने च प्रकीर्तितः । लः श्लेषे चाशये चैव प्रलये साधनेऽपि लः ॥३१॥   मानसे वरुणे चैव लकारः सान्त्वने ऽपि च । विश्च पक्षी निगदितो गगनं परिकीर्तितम् ॥३२॥   शं सुखं शङ्करः श्रेयः शश्च सीम्नि निगद्यते । शयने शः समाख्यातो हिंसायां शो निगद्यते ॥३३॥   षः कीर्तितो बुधैः श्रेष्ठे षश्च गम्भीरलोचने । उपसर्गे परोक्षे च षकारः परिकीर्तितः ॥३४॥   सः कोपे वरणे सः स्यात्तथा शूलिनि कीर्तितः । सा च लक्ष्मीः बुधैः प्रोक्ता गौरी सा च स ईश्वरः ॥३५॥   हः कोपे वारणे हश्च तथा शूली प्रकीर्तितः । हिः पद्मावरणे प्रोक्तो हिः स्याद्धेत्ववधारणे ॥३६॥   क्षः क्षेत्रे वक्षसि प्रोक्तो बुधैःक्षः शब्दशासने । क्षिः क्षेत्रे क्षत्ररक्षे च नृसिंहे च प्रकीर्तितः ॥३७॥   आगमेभ्योऽभिधानेभ्यो धातुभ्यः शब्दशासनात् । एवमेकाक्षरं नामाभिधानं रचितं मया ॥३८॥   ॥ इति पुरुषोत्तमदेवप्रणीतः एकाक्षरकोशः समाप्तः ॥