पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/२२)

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥२२॥ 

व्यासभाष्यम् 
मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति । ततोऽपि विशेषः । तद्विशेषाद् (अपि) मृदुतीव्रसंवेगस्यासन्नः । ततो मध्यतीव्रसंवेगस्यासन्नतरः । तस्मादधिमात्रतीव्रसंवेगस्याधिमात्रोपायस्याप्यासन्नतमः समाधिलाभः समाधिफलञ्चेति ॥२२॥ 
तत्त्ववैशारदी 

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः । निगदव्याख्यातेन भाष्येण व्याख्यातम् इति ॥२२॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/२१)

ते खलु नव योगिनो (भवन्ति) मृदुमध्याधिमात्रोपाया भवन्ति । तद् यथा – मृदूपायः, मध्योपायः, अधिमात्रोपाय इति । तत्र मृदूपायोऽपि त्रिविधो मृदुसंवेगः, मध्यसंवेगः, तीव्रसंवेग इति । तथा मध्योपायस्तथाऽधिमात्रोपाय इति । तत्राधिमात्रोपायानाम् – 
तीव्रसंवेगानामासन्नः ॥२१॥ 

व्यासभाष्यम् 
समाधिलाभः समाधिफलं च भवतीति ॥२१॥ 

तत्त्ववैशारदी 
ननु श्रद्धाऽऽदयश्चेद् योगोपायास्तर्हि सर्वेषामविशेषेण समाधितत्फले स्याताम् । दृश्यते तु कस्यचित्सिद्धिः, कस्यचिदसिद्धिः, कस्यचिच्चरेण सिद्धिः, कस्य चिच्चिरतरेण सिद्धिः, कस्यचित् क्षिप्रमिति ।
अत आह – ते खलु नवयोगिन इति । उपायाः श्रद्धाऽऽदयो मृदुमध्याधिमात्राः प्राग्भवीयसंस्कारादृष्टवशाद् येषां ते तथोक्ताः । संवेगः वैराग्यम् । तस्यापि मृदुमध्यतीव्रता प्राग्भवीयवासनाऽदृष्टवशादेवेति । तेषु यादृशां क्षेपीयसी सिद्धिस्तान् दर्शयति सूत्रेण – तीव्रसंवेगानामासन्न इति सूत्रम् । शेषं भाष्यम् । समाधेः सम्प्रज्ञातस्य फलमसम्प्रज्ञातस्तस्यापि कैवल्यम् ॥२१॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/२०)

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥ 

व्यासभाष्यम् 
उपायप्रत्ययो योगिनां भवति । श्रद्धा चेतसः सम्प्रसादः । सा हि जननीव कल्याणी योगिनं पाति । तस्य हि श्रद्दधानस्य विवेकार्थिनो वीर्यमुपजायते । समुपजातवीर्यस्य स्मृतिरूपतिष्ठते । स्मृत्युपस्थाने च चित्तमनाकुलं समाधीयते । समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते, येन यथा(र्थं/वद्) वस्तु जानाति । तदभ्यासात् (तत्)तद्विषयाच्च वैराग्यादसम्प्रज्ञातः समाधिर्भवति ॥ २० ॥ 
तत्त्ववैशारदी 
योगिनां तु समाधेरुपायक्रममाह – श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् । नन्विन्द्रियादिचिन्तका अपि श्रद्धावन्त एवेत्यत आह – श्रद्धा चेतसः सम्प्रसादः । स चागमानुमानाचार्योपदेशसमधिगततत्त्वविषयो भवति हि चेतसः सम्प्रसादोऽभिरुचिरतीच्छा श्रद्धा, नेन्द्रियादिष्वात्माभिमानिनामभिरुचिरसम्प्रसादो हि सः व्यामोहमूलत्वादित्यर्थः । कुतोऽसावेव श्रद्धेत्यत आह – सा हि जनवीव कल्याणी योगिनं पाति विमार्गपातजन्मतोऽनर्थात् । सोऽयमिच्छाविशेष इष्यमाणविषयं प्रयत्नं प्रसूत इत्याह – तस्य हि श्रद्दधानस्य । तस्य विवरणम् – विवेकार्थिनो वीर्यमुपजायते । स्मृतिर्ध्यानम्, अनाकुलमविक्षिप्तम्, समाधीयते = योगाङ्गसमाधियुक्तं भवति । यमनियमादिनान्तरीयकसमाध्युपन्यासेन च यमनियमादयोऽपि सूचिताः । तदेवमखिलयोगाङ्गसम्पन्नस्य सम्प्रज्ञातो जायत इत्याह – समाहितचित्तस्येति । प्राज्ञाया विवेकः = प्रकर्ष उपजायते । सम्प्रज्ञातपूर्वमसम्प्रज्ञातोत्पादमाह – तदभ्यासात् तत्रैव तत्तद्भूमिप्राप्तौ तत्तद्विषयाच्च वैराग्यादसम्प्रज्ञातः समाधिर्भवति । स हि कैवल्यहेतुः । सत्त्वपुरुषान्यताख्यातिपूर्वो हि निरोधश्चित्तमखिलकार्यकरणेन चरितार्थमधिकारादवसादयति ॥२०॥