अमरखण्डनम् (९)

कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम्                                     प्रस्थानं गमनं गमः इति यत्तदसत् । गमनं सङ्गतं यानं प्रस्थानं च प्रचालनम् । प्रभालिकादिशब्दाश्च पुंसि चेति विदुर्बुधाः ॥ इति शब्दचिन्तामाणौ । गमनस्तु कलानाथे महेश्वरवसन्तयोः । प्रस्थाने बाहुलेये च पुंसि त्रिषु विकारिषु ॥ इति पर्वतवर्धनोऽपि आह शब्दानुशासने । पांसुर्ना न द्वयो रजः इति न समीचीनम् । शिरोवाचि शिरःशब्दो रजोवाचि रजस्तथा । शिरश्च रज इत्येव सकारान्ते च पुंसि च ॥ इति शब्दशब्दार्थचिन्तामाणौ ।  रजस्तु पुंस्यकारान्तः पांसौ  शम्भौ ॠतावपि इत्यादयः । केतनं ध्वजमस्त्रियाम् इत्याह यत्तदयोग्योम् । केतनं पुंसि लशुने ध्वजे चन्द्रे च न स्त्रियाम्  इति शब्दानुशासनात् । स्त्रियां कृषिः पाशुपाल्यं वाणिज्यञ्चेति वृत्तयः इति यत्तन्न विचारक्षमम् । वाणिज्यं चापि वाणिज्या वाणीज्या इति सम्मता इति शब्दचन्द्रिकायाम् । वृत्तौ प्रोक्ता च वाणीज्यं वाणिज्यापि च वाणिजम् इति गोविन्दपादाः ॥

अमरखण्डनम् (८)

                                              कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम्   तत्कालस्तु तथात्वं स्यादायातिः काल उत्तरः इत्यत्र आयातिशब्दस्य लिङ्गनिश्चयाभावाद् अनुचितमेत्प्रकरणादिना । तदसिद्धेश्च । यदि आयतिशब्दस्य  स्यात्प्रभावोऽपि चायतिः इति नानार्थेषूक्तत्वात् तत्राप्रकरणात् स्त्रीत्वस्य कॣप्तत्वेऽपि स्त्रीत्वमुन्नेयमिति । तर्हि प्रायश इति निबन्धनस्य निष्फलत्वं स्यात्  ।  एतदुपलक्षकमित्युच्यमाने सर्वेषां पर्यायाणां लिङ्गादीनां च उपलक्षका इति स्याताम् । एवं च स्वरव्ययम् इत्युक्त्यैव सवेषामुपलक्षकविधया सिद्धिवशात् ग्रन्थमात्रोच्छेदः स्यादित्यलं धावनेन । एवं च तत्निबन्धनमेव तत्कण्ठबन्धनं जातमिति सूचितम् ।  निगलस्तु गलोद्देशे इति न सम्यक् । निगालश्च निगाला च निगालं च निगालकम् । निगाली च गलोद्देशे गलीये वाच्यवच्च तत् ॥ इति शब्दशब्दार्थमञ्जूषायाम् । तत् उक्तशब्दजातमित्यर्थः  । फलकोऽस्त्री फलं चर्म संग्राह्यो मुष्टरस्य यः इति यत्तदसत् । फलकस्त्रीषु विष्ण्वादौ फलकश्चर्मणि स्मृतः इति मञ्जूषायाम् । शिलाभेदे चर्मणि च फलको सदलेषु (?) इति गोवर्धनोऽपि आह मणौ । दारुपात्रविशेषे च फालेऽश्मनि च चर्मणि । फलकः पुंसि वरदे फलकस्त्रिषु सम्मतः ॥ इति शब्दरत्ने ॥

अमरखण्डनम् (७)

कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम्   अपरे त्वालङ्कारिका एवमाहुः — पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम् इत्याहुः यत्तदसत् । तुलाकोटिशब्दस्य लिङ्गनिश्चयाभावात् । यदि मञ्जीरपदसाहित्यात् पुंस्त्वं वदति , तर्हि तुलाकोटिः स्त्रियां प्रोक्ता मञ्जीरेऽप्यडुके त्रिषु इति कोशरत्नकृतनिर्णयस्य व्यर्थता स्यात् । स्त्रियां तुलाकोटिरासीत् मञ्जीरावर्तयोः पुमान् इति गोविन्दपादाद्युक्तिवैषम्यं प्रसज्येतेत्यलं खण्डनेन ।  तमालपत्रं तिलकं चित्रकं च विशेषकम् । द्वितीयञ्च तुरीयञ्च स स्त्रियामथ कुङ्कुमम् ॥ इति यत्तदसत् । फालाङ्कं चित्रकं दिव्यं तिलकं मुखमण्डनम् । तमालपत्रं प्रद्युम्नसहायं चापि नः स्त्रियाम् ॥ इति शब्दशब्दार्थचिन्तामणौ प्रतिपादनात् । स्मरः प्रियस्मरोद्योगचित्रकान्तिमनोहराः । विशेषकमुखाः शब्दसिलके क्लीबतापि च ॥ इति हेमचन्द्रोक्तेः । अत एव पार्थसारथिमिश्रोऽपि शब्दचिन्तामाणौ  आह — किञ्चापि चित्रकाद्याश्च तिलके पुंनपुसकाः  इति ।