शब्दभेदप्रकाशः (२)

श्रीपुरुषोत्तमदेवप्रणीतः कोशः              बुको बकश्च कुसुमे मदनो मलयो द्रुमे । आराग्वधारग्वधौ च खुरकक्षुरकावपि ॥२७॥   पृष्णिः पृश्निश्च सरयूः सरयुश्च निगद्यते । नीलङ्गुरपि नीलाङ्गुरीश्वरी चेश्वरापि च ॥२८॥   तापिच्छमपि तापिञ्जं त्रपुषं त्रापुषं तथा । डिण्डिरोऽपि च डिण्डीरः परशुं पर्शुना सह ॥२९॥   वालुका  बालिका चापि दोर्दोषापि भुजा भुजः । बाहुर्बाहा तृषा तृष्णा सन्ध्या स्यात्सन्धिना सह ॥३०॥   भगिनीमपि च भग्नीं च झल्लरीं जल्लरीं विदुः । वेत्रं वेतसा सार्धम् एधमाहुस्तथैधसा ॥३१॥   संवलनं संवरणं तलुनी तरुणी तथा । प्रमदावनं प्रमदवनं प्रवणं परिकीर्तितम् ॥३२॥   खरूलिका खुरलिका वज्रं वज्रोऽशनिस्तथा । शिलमुच्छं शिलोञ्छं च भवेदुच्छशिलं तथा ॥३३॥   आशिराश्या हि दंष्ट्रायां लक्ष्मीर्लक्ष्मी हरेः प्रिया । कुमुदं कुमुदश्चापि योषित्स्याद् योषिता सह ॥३४॥   तमस्तु तमसा प्रोक्तं रजसापि रजः समम् । जलूकास्तु जलौकाभिः कथिताऽयं जलौकसः ॥३५॥   दिवा दिवं च कथितं पर्ष स्यात् पर्षदा सह । वर्षाः स्युर् वरिषाभिस्तु हविषापि हविस्तथा ॥३६॥   सर्षपः स्यात् सरिषपः कर्षः स्यात्करिषेण सह । मारिषो मर्ष इत्युक्तः परशुः पर्श एव च ॥३७॥   हारितो हरितोऽपि स्यान्मुनिपक्षिविशेषयोः । तुवरस्तूवरोपि स्यात्कुवटः कूवटस्तथा ॥३८॥   उत्तमोऽनुत्तमोऽपि स्यादाहतं स्यादनाहतम् । उदारे चानुदारः स्यादुदग्रे चानुदग्रवत् ॥३९॥   कोङ्कोणः कोङ्कणश्चापि मिहिरो महिरस्तथा । महिलायां महेलाऽपि  महला स्यान्महेलिका ॥४०॥   छेदश्छेकश्च छेकालो विदग्धे छेकिलोऽपि च । गूगुलो गुग्गुलोऽपि स्याद्धिङ्गूले चापि हिङ्गुलम् ॥४१॥   मन्दिरे मन्दिरापि स्याद्वीर्ये विर्यापि कथ्यते । भुक्तेऽप्यवालं चाबालमुदके स्यादुदंसमम् ॥४२॥   कुष्टभेदे शतरुषः शतारुश्च निगद्यते । द्रेक्कद्रेकाणद्रक्काणा भवन्त्यपि दृकाणवत् ॥४३॥   पत्राङ्कमपि पत्राङ्के कुछालश्च कुदालवत् । मारुषं मारिषं शाके प्रीहा प्लिहा गदेऽपि च ॥४४॥   फेणा फेणिस्तथाब्ध्यादौ करिण्यां कारिणीति च । धरित्री धारयित्री च तरीषी तारीषी तथा ॥४५॥   कन्याकुब्जं कान्यकुब्जं कोशलोऽन्तरकोशला । वाराणसीत्यपि प्रोक्ता वारणासीतिवत्तथा ॥४६॥   ताम्रलिप्तादामलिप्ता तुङ्गोऽप्युत्तुङ्ग इत्यपि । अन्तस्थीयवकारश्च पवनस्य तु कथ्यते ॥४७॥   तन्त्रवायस्य वायोऽपि तन्त्रादित्वं च दृश्यते । एवमन्येऽपि चार्हादावूह्या वर्णप्रयोगतः ॥४८॥   मूर्धरेफादयो ज्ञेयाः छन्दोभङ्भयादिह । छन्दावभिप्रायवशौ कलजः स्यात् कलाजवत् ॥४९॥   ह्रस्वादिरपि पीडायां धनुः कोट्यामपीष्यते । एतौ मध्यमवर्गीयौ वैडूर्यमणिशाद्वलौ  ॥५०॥   तालव्यमध्यो विशद ऊर्ध्वशब्दो वकारवान् ।   यावन्यां च भवन्यां च श्रावणे मासि मध्यवः ॥५१॥   शफे खुरं कवर्गीयं क्षकारश्च क्षुरप्रके । नापितस्योपकरणे कषसंयोग इष्यते ॥५२॥   अव्ययान्यव्ययं शत्रौ दोषाशब्दः प्रचक्षते । प्रायो भवेयुः प्रचुरः प्रयोगाः प्रामाणिकोदाहरणे प्रतीताः । रूपादिभेदेषु विचारणेषु विचक्षणो निश्चयतामुपैति ॥५३॥   क्वचित्मात्राकृतो भेदः क्वचिद्वर्णकृतोऽत्र च । क्वचिदर्थान्तरोल्लेखाच्छब्दानां रूढितः क्वचित् ॥५४॥   जागर्ति यस्यैषः मनःसरोजे स एव शब्दार्थविवर्तनेशः । निजप्रयोगार्पितकामचारः परप्रयोगार्थविशारदः ॥५५॥     ॥ इति पुरुषोत्तमदेवकृतः शब्दभेदप्रकाशः समाप्तः ॥

शब्दभेदप्रकाशः (१)

श्रीपुरुषोत्तमदेवप्रणीतः कोशः श्रीगणेशाय नमः प्रबोधमाधातुमशाब्दिकानां कृपामुपेत्याविशतां कवीनाम् । कृतो मया रूपमवाप्य शब्द- भेदप्रकाशोऽखिलवाङ्मयार्थः ॥१॥   विन्द्यादगारमागारमपगामापगामपि । अरातिमारातिमथो अम आमः प्रकीर्तितः ॥२॥   भवेदमर्ष आमर्षोऽप्यङ्कुरोऽप्यङ्कूर एव च । अन्तरिक्षमन्तरीक्षमगस्त्योऽगस्तिरेव च ॥३॥   अटरुशश्चाटरूषोप्यवस्योऽवश्य एव च । प्रतिश्यायः प्रतीश्यायो भल्लूको भल्लुकोऽपि च ॥४॥   उल्मूकमुल्मुं प्राहुः शम्बूकमपि शम्बुकम् । जतुका स्याज्जतूकापि मयूरो मयुरो मतः ॥५॥   वास्तुकं चापि वास्तूकं देवकी दैवकीति च । ज्योतिषं ज्यौतिषञ्चापि ष्ठेवनं ष्ठीवनं तथा ॥६॥   सूत्रामापि च सुत्रामा हनुमान् हनूमान्नपि । दुषणं स्याद्दूषणं च भवदुषरमूषरम् ॥७॥   बन्धूरं बन्धुरं च स्यादूरीकृतमुरीकृतम् । बह्लीकं बह्लिकञ्चापि गाण्डीवं गाण्डिवं तथा ॥८॥   उषाप्यूषा ननन्दा च ननान्दापि प्रकीर्तिता । चाण्डालोऽपि च चण्डालो वादान्योऽपि वदान्यवत् ॥९॥   हालाहलं हालहलं वदन्त्यपि हलाहलम् । हल्लालं च हलालं च हाहलं च प्रचक्षते ॥१०॥   प्रक्वाण प्रक्वणश्चापि श्यामाकः श्यामकोऽपि च । साहचरः सहचरः स्फाटिकं स्फटिकं तथा ॥११॥   गन्धर्वोऽपि च गान्धर्वश्चमरश्चामस्तथा । चोरश्चौरश्चटुश्चाटुश्चोलं चेलं चमुश्चमूः ॥१२॥   चञ्चुश्चञ्चूस्तलस्तालः श्यामलः स्यामलस्तथा । धान्याकमपि धन्याकं युतकं यौतकं तथा ॥१३॥   कवाटञ्च कपाटञ्च कविलं कपिलं तथा । करवालः करःपालोऽवनीकवनीयकौ ॥१४॥   पारावतः पारवतो जरा स्याज्जरसा सह । जटायुषा जटायुश्च विन्द्यादायुस्तथायुषा ॥१५॥   सायं सायो भवेत्कोशः कोषः शण्डश्च षण्डवत् । भाविकं भविकं चापि मुषलं मुसलं तथा ॥१६॥   वेशो वेषश्व कथितो बुषोऽपि स्याद्बुसस्तथा । स्याद्धनुर्धनुषा सार्धं जरसा च जरां विदुः ॥१७॥   सूकरः शूकरोऽपि स्यात्सृगालश्शृगालवत् । सूरः शूरश्च कथितः कलसः कलशोऽपि च ॥१८॥   तनुश्च तनुषा सार्धं धनुना च धनुर्विदुः । सुनासीरः शुनासीरो नारायणनरायणौ ॥१९॥   यातुधानो जातुधानो लक्षणो लक्ष्मणोऽपि च । श्वशुरः स्वसुरोऽपि स्याच्चरित्रं चरितं तथा ॥२०॥   पारदं पारतं वासा वासकः कृमिणा कृमिः । त्रिफला त्रिफलं चापि कृसरा कृशरापि च ॥२१॥   भवेद्वृष्टिस्तथा विष्टिः प्रियालः स्यात्पियालवत् । कलाटीनः कटाटीनो बलिशो बडिशोऽपि च ॥२२॥   संकरः शंकरोऽपि स्यान्नद्गलो मुद्गलोऽपि च । मुद्गरो मूद्गरश्चापि मकुटं मुकुटं त्विह ॥२३॥   सुकृतं सूकृतं चापि चुलुकं चूलुकं तथा । करञ्जः करजोऽपि स्यात्परेतः प्रेत उच्यते ॥२४॥   किर्मीरोऽपि च कर्मीरो हायनं हयनं स्मृतम् । शोण्डीयमपि शौण्डीरं ज्येष्ठे ज्यैठोऽपि दृश्यते ॥२५॥   सौदाम्नी च सुदाम्नी च सौदामन्यपि दृश्यते । जरठो जठरोऽपि स्यान्निमेषो निमिषोऽपि च ॥२६॥