पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/४)

कथं तर्हि , दर्शितविषयत्वात्–

वृत्तिसारूप्यमितरत्र ॥४॥

 

व्यासभाष्यम्
व्युत्थाने याश्चित्तवृत्तयस्तदविशिष्टवृत्तिः पुरुषः । तथा च सूत्रम् – “एकमेव दर्शनं ख्यातिरेव दर्शनम्” इति । चित्तमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेनं स्वं भवति पुरुषस्य स्वामिनः । तस्माच्चित्तवृत्तिबोधे पुरुषस्यानादिः संबन्धो हेतुः ॥४॥ 
 
तत्त्ववैशारदी
सूत्रान्तरमवतारयितुं पृच्छति – कथं तर्हीति । यदि तथा (थापि) भवन्ती न तथा, केन तर्हि प्रकारेण प्रकाशत इत्यर्थः ।
हेतुपदमध्याहृत्य सूत्रं पठति – दर्शितविषयत्वाद्वृत्तिसारूप्यमितरत्रइतरत्र व्युत्थाने याश्चित्तवृत्तयः शान्तघोरमूढास्ता एवाविशिष्टा अभिन्ना वृत्तयो यस्य पुरुषस्य, स तथोक्तः । सारूप्यमित्यत्र ‘’ शब्द एकपर्यायः ।
एतदुक्तं भवति – जपाकुसुमस्फटिकयोरिव बुद्धिपुरुषयोः सन्निधानादभेदग्रहे बुद्धिवृत्तिः पुरुषे समारोप्य “शान्तोऽस्मि, दुखितोऽस्मि, मूढोऽस्मी”- त्यध्यवस्यति ; यथा मलिने दर्पणतले प्रतिबिम्बितं मुखं मलिनमारोप्य शोचत्यात्मानं मलिनोऽस्मीति । यद्यपि पुरुषसमारोपोऽपि शब्दादिविज्ञानवद्बुद्धिवृत्तिर्यद्यपि च प्राकृतत्वेनाचिद्रूपतयानुभाव्यस्तथापि बुद्धेः पुरुषत्वमापादयन्पुरुषवृत्तिरिवानुभव इवावभासते । तथा चायमविपर्ययोऽप्यात्मा विपर्ययवानिवाभोक्तापि भोक्तेव विवेकख्यातिरहितोऽपि तत्सहित इव विवेकख्यात्या प्रकाशते । एतच्च ‘‘चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम्’’ यो.सू.४।२२, इत्यत्र, ‘‘सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः यो.सू.३।३५ इत्यत्र चोपपादयिष्यते ।
एतच्च मतान्तरेपि सिद्धमित्याह – तथा चेति । पञ्चशिखाचार्यस्य सूत्रम् – एकमेव दर्शनं ख्यातिरेव दर्शनम् इति ।
ननु कथमेकं दर्शनं यावता बुद्धेः शब्दादिविषया विवेकविषया च वृत्तिः प्राकृततया जडत्वेनानुभाव्या दर्शनं ततोऽन्यत्पुरुषस्य चैतन्यमनुभवो दर्शनमिति ।
अत आह – ख्यातिरेव दर्शनमिति । उदयव्ययधर्मिणीं वृत्तिं ख्यातिं लौकिकीमभिप्रेत्य एतदुक्तम् – एकमेवेति । चैतन्यं तु पुरुषस्य स्वभावो न ख्यातेः । तत्तु न लोकप्रत्यक्षगोचरः, अपि त्वागमानुमानगोचर इत्यर्थः ।
तदनेन व्युत्थानावस्थायां मूलकारणमविद्यां दर्शयता तद्धेतुकः संयोगो भोगहेतुः स्वस्वामिभावोऽपि सूचित इति ।
तमुपपादयन्नाह – चित्तं स्वं भवति पुरुषस्य स्वामिन इति सम्बन्धः ।
ननु चित्तजनितमुपकारं भजमानो हि चेतनश्चित्तस्येशिता । न चास्य तज्जनितोपकारसम्बन्धसम्भवः, तत्संयोगतदनुपकार्यत्वात् । तत्संयोगतदुपकारभागित्वे च परिणाम(मित्व)प्रसङ्गादिति ।
अत आह – अयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेनेति । न पुरुषसंयुक्तं चित्तम्, अपि तु तत्सन्निहितम् । सन्निधिश्च पुरुषस्य न देशतः कालतो वा तदसंयोगात्, किन्तु योग्यतालक्षणः । अस्ति च पुरुषस्य भोक्तृशक्तिश्चित्तस्य भोग(ग्य)शक्तिः । तदुक्तं – दृश्यत्वेनेति । शब्दाद्याकारपरिणतस्य भोग्यत्वेनेत्यर्थः । भोगश्च यद्यपि शब्दाद्याकारा वृत्तिश्चित्तस्य धर्मस्तथापि चित्तचैतन्ययोरभेदसमारोपाद्वृत्तिसारूप्यात्पुरुषस्येत्युक्तम् । तस्माच्चित्तेनासंयोगेऽपि तज्जनितोपकारभागिता पुरुषस्याऽपरिणामिता चेति सिद्धम् ।
ननु स्वस्वामिसम्बन्धो भोगहेतुरविद्यानिमित्तः । अविद्या तु किंनिमित्ता ? न खल्वनिमित्तं कर्यमुत्पद्यते । यथाहुः – “स्वप्नादिवदविद्यायाः प्रवृत्तिस्तस्य किंकृता” । इति शङ्कामुपसंहारव्याजेनोद्धरति – तस्माच्चित्तवृत्तिबोधे शान्तघोरमूढाकारचित्तवृत्युपभोगे अनाद्यविद्यानिमित्तत्वादनादिः संयोगो हेतुः, अविद्यावासनयोश्च सन्तानो बीजाङ्कुरसन्तानवदनादिरिति भावः ॥४॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/३)

 
तदवस्थे चेतसि विषयाभावाद्बुद्धिबोधात्मा पुरुषः किंस्वभाव इति ?
 

तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥
 
 
व्यासभाष्यम्
 

स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये । व्युत्थानचित्ते तु सति तथापि भवन्ती न तथा ।।३।।
 
 

तत्त्ववैशारदी
 

संप्रत्युत्तरसूत्रमवतार(यन् / यितुं) चोदयति – तदवस्थे चेतसीति ।
किमापेक्षे ।
तत्तदाकारपरिणतबुद्धिबोधात्मा खल्वयं पुरुषः सदानुभूयते , न तु बुद्धिबोधरहितः । अतोऽस्य पुरुषस्य बुद्धिबोधः स्वभावः , सवितुरिव प्रकाशः । न च संस्कारशेषे चेतसि सोऽस्ति । न च स्वभावमपहाय भावो वर्तितुमर्हतीति – भावः ।
स्यादेतत् – संस्कारशेषामपि बुद्धिं कस्मात्पुरुषो न बुध्यत इति ।
अत आह – विषयाभावादिति । न बुद्धिमात्रं पुरुषस्य विषयः, अपि तु पुरुषार्थवती बुद्धिः । विवेकख्यातिविषयभोगौ च पुरुषार्थौ । तौ च निरुद्धावस्थायां न स्तः इति – सिद्धो विषयाभाव इत्यर्थः ।
सूत्रेण परिहरति – दा द्रष्टुः स्वरूपेऽवस्थानम्
स्वरूप इत्यारोपितं शान्तघोरमूढस्वरूपं निवर्तयति । पुरुषस्य हि चैतन्यं स्वरूपमनौपाधिकं, न तु बुद्धिबोधः शान्तादिरूपः । औपाधिको हि सः, स्फटिकस्येव स्वभावस्वच्छधवलस्य जपाकुसुमसन्निधानोपाधिररुणिमा । न चोपाधिनिवृत्तावुपहितनिवृत्तिः, अतिप्रसङ्गगादिति – भावः ।
स्वरूपस्य चाभेदेऽपि भेदं विकल्प्याधिकरणभाव उक्त इति ।
अयमेवार्थो भाष्यकृता द्योत्यते – स्वरूपप्रतिष्ठेति ।
तदानीम् = निरोधावस्थायां , न व्युत्थानावस्थायामिति – भावः ।
स्यादेतत् – व्युत्थानावस्थायामप्रतिष्ठिता स्वरूपे चितिशक्तिर्निरोधावस्थायां प्रतितिष्ठन्ती परिणामिनी स्यात् । व्युत्थाने वा स्वरूपप्रतिष्ठाने व्युत्थाननिरोधयोरविशेष इति ।
अत आह – व्युत्थानचित्त त्विति ।
न जातु कूटस्थनित्या चितिशक्तिः स्वरूपाच्च्यवते । तेन यथा निरोधे , तथैव व्युत्थानेऽपि । न खलु शुक्तिकायाः प्रमाणविपर्ययज्ञानगोचरत्वेऽपि स्वरूपोदयव्ययौ भवतः । प्रतिपत्ता तु तथाभूतमप्यतथात्वेनाभिमन्यते ।
निरोधसमाधिमपेक्ष्य संप्रज्ञातोऽपि व्युत्थानमेवेति ॥३॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/२)

 
तस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते (प्रवर्त्तते) –
 

योगश्चित्तवृत्तिनिरोधः
 
 
व्यासभाष्यम्
 

सर्वशब्दाग्रहणात्संप्रज्ञातोऽपि योग इत्याख्यायते ।
चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात्त्रिगुणम् ।
प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयप्रियं भवति । तदेव तमसानुविद्धमधर्माज्ञानावैराग्यानैश्वर्योपगं भवति । तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति । तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति । तत्परं प्रसंख्यानमित्याचक्षते ध्यायिनः ।
चितिशक्तिरपरिणामिन्यप्रतिसंक्रमा दर्शितविषया शुद्धा चानन्ता च ।
सत्त्वगुणात्मिका चेयम् , अतो विपरीता विवेकख्यातिरिति ।
अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं निरुणद्धि । तदवस्थं संस्कारोपगं भवति । स निर्बीजः समाधिः । न तत्र किञ्चित्संप्रज्ञायत इत्यसंप्रज्ञातः । द्विविधः स योगश्चित्तवृत्तिनिरोध इति ॥२॥
 
 

तत्त्ववैशारदी
 

द्वितीयं सूत्रमवतारयति – तस्य लक्षणेति । तस्येति पूर्वसूत्रोपात्तं द्विविधं योगं परामृशति ।
योगश्चित्तवृत्तिनिरोधः
निरुध्यन्ते यस्मिन्प्रमाणादिवृत्तयोऽवस्थाविशेषे चितस्य, सोऽवस्थाविशेषो योगः
ननु संप्रज्ञातस्य योगस्याव्यापकत्वादलक्षणमिदम् । अनिरुद्धा हि तत्र सात्त्विकी चित्तवृत्तिरिति ।
अत आह — सर्वशब्दाग्रणादिति । यदि ‘सर्वचित्तवृत्तिनिरोध’ – इत्युच्येत , भवेदव्यापकं संप्रज्ञातस्य । क्लेशकर्मविपाकाशयपरिपन्थी चित्तवृत्तिनिरोधस्तु तमपि संगृह्णाति । तत्रापि राजसतामसचित्तवृत्तिनिरोधात् तस्य च तद्भावादित्यर्थः ।
कुतः पुनरेकस्य चित्तस्य क्षिप्तादिभूमिसम्बन्धः , किमर्थं चैवमवस्थस्य चित्तस्य वृत्तयो निरोद्धव्या – इत्याशङ्क्य ; प्रथमं तावदवस्थासम्बन्धे हेतुमुपन्यस्यति – चित्तं हीति । प्रख्याशीलत्वात्सत्त्वगुणं , प्रवृत्तिशीलत्वात् रजोगुणं , स्थितिशीलत्वात्तमोगुणम् ।
प्रख्याग्रहणमुपलक्षणार्थम् । तेनान्येऽपि सात्त्विकाः प्रसादलाघवप्रीत्यादयः सूच्यन्ते । प्रवृत्त्या च परितापशोकादयो राजसाः । प्रवृत्तिविरोधी तमोवृत्तिधर्मः स्थितिः । स्थितिग्रहणाद् गौरवावरणदैन्यादय उपलक्ष्यन्ते ।
एतदुक्तं भवति – एकमपि चित्तं त्रिगुणनिर्मिततया , गुणानां च वैषम्येण परस्परविमर्दवैचित्र्याद्विचित्रपरिणामं सदनेकावस्थमुपपद्यत – इति ।
क्षिप्ताद्या एव चितस्य भूमीर्यथासम्भवमवान्तरावस्थाभेदवतीरादर्शयति – प्रख्यारूपं हीति ।
चित्तरूपेण परिणतं सत्त्वं चित्तसत्त्वम् । तदेवं प्रख्यारूपतया सत्त्वप्राधान्यं चित्तस्य दर्शितम् ।
तत्र चित्ते सत्त्वात् किञ्चिदूने रजस्तमसी यदा मिथः समे च भवतः ; तदैश्वर्यं च विषयाश्च – शब्दादयस्तान्येव प्रियाणि यस्य , तत्तथोक्तम् । सत्त्वप्राधान्यात्खलु चित्तं तत्त्वे प्रणिधित्सदपि तत्त्वस्य तमसा पिहितत्वादणिमादिकमैश्वर्यमेव तत्त्वमभिमन्यमानं तत्प्रणिधित्सति , प्रणिधत्ते च क्षणम् ।
अथ रजसा क्षिप्यमाणं तत्राप्यलब्धस्थिति(विशेषात्) तत्प्रियमात्रं भवति । शब्दादिषु पुनरस्य स्वरसवाही प्रेमा निरूढ एव । तदनेन विक्षिप्तं चित्तमुक्तम् ।
क्षिप्तं चित्तं दर्शयन्मूढमपि सूचयति – तदेव तमसेति । यदा हि तमो रजो विजित्य प्रसृतं ; तदा चित्तसत्त्वावरकतमःसमुत्सारणेऽशक्तत्वात् रजसः , तमःस्थगितं चित्तमधर्माद्युपगच्छति ।
अज्ञानं च विपर्ययज्ञानम् , अभावप्रत्ययालम्बनं च निद्राज्ञानमुक्तम् । ततश्च मूढावस्थापि सूचितेति । अनैश्वर्यं सर्वत्रेच्छाप्रतीघातः । अधर्मादिव्याप्तं चित्तं भवतीत्यर्थः ।
यदा तु तदेव चित्तसत्त्वमाविर्भूतसत्त्वमपगततमःपटलं सरजस्कं भवति ; तदा धर्मज्ञानवैराग्यैश्वर्याण्युपगच्छति – इत्याह – प्रक्षीणेत्यादि । मोहस्तमः , तदेव चावरणं प्रकर्षेण क्षीणं यस्य ; तत्तथोक्तम् । अत एव , सर्वतो विशेषाविशेषलिङ्गमात्रालिङ्गपुरुषेषु प्रद्योतमानम् । तथापि न धर्मायैश्वर्याय च कल्पते, प्रवृत्त्याभावात् – इति । अत आह – अनुविद्धं रजोमात्रया । रजसः प्रवर्तकत्वादस्ति धर्मादि(प्रवृत्ति)रित्यर्थः । तदनेन संप्रज्ञातसमाधिसंपन्नयोर्मधुभूमिकप्रज्ञाज्योतिषोर्मध्यमयोर्योगिनोश्चित्तसत्त्वं संगृहीतम् ।
सम्प्रति अतिक्रान्तभावनीयस्य ध्यायिनश्चर्तुथस्य चित्तावस्थामाह – तदेव चित्तं रजोलेशान्मलादपेतम् , अत एव स्वरूपप्रतिष्ठम् । अभ्यासवैराग्यपुटपाकप्रबन्धविधूतरजस्तमोमलस्य हि बुद्धिसत्त्वतपनीयस्य स्वरूपप्रति(ष्ठस्य / ष्ठायां) विषयेन्द्रियप्रत्याहृतस्यानवसिताधिकारतया च कार्यकारि(णो / णी) विवेकख्यातिः परं कार्यमवशिष्यत इत्याह – सत्त्वपुरुषान्यताख्यातिमात्रं चित्तं धर्ममेघध्यानोपगं भवतिधर्ममेघश्च वक्ष्यते
अत्रैव योगिजनप्रसिद्धिमाह – तदिति । सत्त्वपुरुषान्यताख्यातिमात्रं चित्तं धर्ममेघपर्यन्तं परं प्रसङ्ख्यानमित्याक्षते ध्यायिनः । चित्तसामानाधिकरण्यं च धर्मधर्मिणोरभेदविवक्षया द्रष्टव्यम् ।
विवेकख्यातेर्हानहेतुं चितिशक्तेश्चोपादानहेतुं निरोधसमाधिमवतारयितुं चितिशक्तेः साधुतामसाधुतां च विवेकख्यातेर्दर्शयति –चितिशक्तिरित्यादि ।
सुखदुःखमोहात्मकत्वमशुद्धिः । सुखमोहावपि हि विवेकिनं दुःखाकुरुतः । अतो दुःखवद्धेयौ । तथा चातिसुन्दरमप्यन्तवद्दुनोति । तेन तदपि हेयमेव विवेकिनः । सेयमशुद्धिरन्तश्च चितिशक्तौ = पुरुषे न स्त – इत्युक्तम् – शुद्धा चानन्ता चेति ।
ननु सुखदुःखमोहात्मकशब्दादीनियं चेतयमाना तदाकारापन्ना कथं विशुद्धा , तदाकारपरिग्रहपरिवर्जने च कुर्वती कथमनन्त – इति ।
अत उक्तम् – दर्शितविषयेति । दर्शितो विषयः शब्दादिर्यस्यै , सा तथोक्ता । भवेदेतदेवं यदि बुद्धिवच्चितिशक्तिर्विषयाकारतामापद्येत, किन्तु बुद्धिरेव विषयाकारेण परिणता सती अतदाकारायै चितिशक्त्यै विषयमादर्शयति । ततः पुरुषश्चेतयत इत्युच्यते ।
नन विषयाकारां बुद्धिमनारूढायाश्चितिशक्तेः कथं विषयवेदनं , विषयारोहे वा कथं न तदाकारापत्तिरिति ।
अत उक्तम् – अप्रतिसंक्रमेति । प्रतिसंक्रमः संचारः । स चितेर्नास्तीत्यर्थः ।
स एव कुतोऽस्या नास्तीति ।
अत उक्तम् – अपरिणामिनीति । न चितेस्त्रिविधोऽपि धर्मलक्षणावस्थालक्षणः परिणामोऽस्ति , येन क्रियारूपेण परिणता सती बुद्धिसंयोगेन परिणमेत चितिशक्तिः । असंक्रान्ताया अपि विषयसंवेदनमुपपादयिष्यते । तत्सिद्धं चितिशक्तिः शोभनेति
विवेकख्यातिस्तु बुद्धिसत्त्वात्मिकाऽशोभनेत्युक्तम् – अतः = चितिशक्तेः विपरीतेति ।
यदा च विवेकख्यातिरपि हेया , तदा कैव कथा वृत्त्यन्तराणां दोषबहुलानामिति – भावः ।
ततस्तद्धेतोर्निरोधसमाधेरवतारो युज्यत इत्याह – अतस्तस्यामिति । ज्ञानप्रसादमात्रेण हि परेण वैराग्येण विवेकख्यातिमपि निरुणद्धीत्यर्थः ।
अथ निरुद्धाशेषवृत्ति चित्तं कीदृशमिति ।
अत आह – तदवस्थमित्यिादि । स निरोधोऽवस्था यस्य , तत्तथोक्तम् ।
निरोधस्य स्वरूपमाह – स निर्बीज इति । क्लेशसहितः कर्माशयो जात्यायुर्भोगबीजं , तस्मान्निर्गत इति निर्बीजः
अस्यैव योगिजनप्रसिद्धामन्वर्थसंज्ञामादार्शयति – न तत्रेति ।
उपसंहरति – द्विविधः स योगश्चित्तवृत्तिनिरोध इति ॥२॥