कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम् अतिचित्रमिदं हि चिन्त्यताम् विबुधैरप्यबुधातिजल्पितम् । रसवन्ति भवन्ति (?) तद्यथा – मरसिंहस्य कृतिप्रकाशनम् ॥ तदिहैव विविच्यतेऽखिलं शतशस्त्वेवमिति प्रबोधयन् । रसिकाः सरसी(?) कान्तमालस- द्हृदयं ते सदयं पिबन्तु भोः ॥ यथा – “समाहृत्य” इत्यादौ । अयमाशयः – विपुलसंकुलप्राचीनग्रन्थशब्दवर्गै रूपभेदादिपूर्वकं बहुलनाम यावल्लिङ्गविशिष्टत्वेन ग्रन्थरचना क्रियते इति । एतद्रीत्यात्र न प्रतिमितीदं (?) न सम्यक् । यथा वा — हय उच्चैःश्रवाः सूतो मातलिर्नन्दनं वनम् इत्यत्र हय उच्चैःश्रवा नीला शुभ्राङ्गी शक्रवाहनः । सूतोऽस्य मातलिः तिप्रः देवसारथिरित्यपि ॥ वनं च नन्दनं देवकाननं नन्दनामकम् ॥ देवोद्यानं ……………………………… ॥ इत्यादि पर्यायरत्नमालारचितमस्ति नामबाहुल्यं हयादिना । किञ्च – मातलिर्माकविस्तिप्रः सारथिस्तु हयङ्कषः इति रसभः । एवमेव तत्र तत्र कोशेषु वर्तते । तट्टीकमेव(?) नामरचितमिति बहुलयावन्नामता नास्तीत्यस्य निबन्धनभङ्गः । न च सङ्क्षिप्तपदेन तद्दोषपरिहार इति वाच्यम् ; तदपेक्षया विशेषपरिष्काराभावादश्रद्धेयत्वप्रसक्तेः । किञ्च इन्द्रादिपर्यायाणां प्रवचनात् तद्बाध किता (बाधकता) स्यात् । न च प्राचुर्यत्वेन प्रतिपादनमिति वाच्यम् ; तस्याविवक्षित्वात् स्वारस्याभावात् । पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः इत्यादिषु बहुषु प्रतिपादितस्य व्यर्थतापत्तेश्च । अत एव — देवलोको देवनिधिः स्वर्गः स्वभुवनं परम् । राजालयं सौख्यनिधिर्निरर्गलशुभोदयः ॥ स्वर्लोकस्तूर्ध्वलोकः स्यादपलोदपलोदयः । मन्दरः सैरिकः शक्रभवनं खं दिवं नभः ॥ इति केशवः ॥ वराली मेघनिलया सौख्याधारा सुखालया । दूर्वामरावती स्थूणा गुलूची त्वमरास्मृते ॥ इति विश्वप्रकाशिकाकारः ॥ शतकोटिर्भिदुर्वज्रं व्याधावः शतधारकम् इति वैजयन्त्याम् ॥ वज्रोऽशनिर्गिरीकण्ठः पविर्दम्भोलिरक्षभम् इति रभसः ॥ तारा भं रात्रिजं धिष्ण्यं सन्नक्षत्रमुडुर्न ना इति वैजयन्त्याम् ॥ बलभद्रो बलश्चैव तस्य संवर्त्तकं हलम् । सौनन्दमस्य मुसलं खड्गस्तु खचितः …॥ इति वैजयन्त्याम् ॥ एवं तत्र तत्र द्रष्टव्यम् । एतेन प्रतिसंस्कृतनिबन्धस्याजागलस्तनता व्यक्ता ।
एकाक्षरकोशः
अकारो वासुदेवः स्याद् आकारस्तु पितामहः । पूजायामपि माङ्गल्ये आकारश्च प्रकीर्तितः ॥१॥ इकार उच्यते कामो लक्ष्मीः ईकार उच्यते । उकारः शङ्करः प्रोक्त ऊकारश्चापि लक्षणे ॥२॥ रक्षणे चापि ऊकार ऊकारो ब्रहणि स्मृतः । ऋकारो वेदमाता स्याद् ॠकारो दनुजप्रसूः ॥३॥ लृकारो देवजातीनां माता सद्भिः प्रकिर्तिता । ॡकारः स्मर्यते पूर्वैः जननी शब्दकोविदैः ॥४॥ एकार उच्यते विष्णुरैकारः स्यान्महेश्वरः । ओकारस्तु भवेद् ब्रह्मा औङ्कारोऽनन्त उच्यते ॥५॥ अं स्याच्च परं ब्रह्म अः स्याच्चैव महेश्वरः । कः प्रजापतिरुद्दिष्टः कोऽर्कवाय्वनलेषु च ॥६॥ कश्चात्मनि मयूरे च कः प्रकाश ऊदाहृतः । कं शिरोजलमाख्यातं कं सुखं च पकीर्तितम्ं ॥७॥ पृथिव्यां कुः समाख्यातः कुः शब्देऽपि प्रकीर्तितः । खमिन्द्रिये खमाकाशे खः स्वर्गेऽपि प्रकीर्तितः ॥८॥ सामान्ये च तथा शून्ये खशब्दः परिकीर्तितः । गो गणेशः समुद्दिष्टो गन्धर्वो गः प्रकीर्तितः ॥९॥ गं गीतं गा च गाथा स्याद् गौश्च धेनुः सरस्वती । घा घण्टा च समाख्याता घो घनश्च प्रकीर्तितः ॥१०॥ घो घण्टाहननेऽधर्मे घुर्घोणा घूः ध्वनावपि । ङकारो भैरवः ख्यातो ङकारो विषयस्पृहा ॥११॥ चश्चन्द्रमा समाख्यातो भास्करे तस्करे मतः । निर्मलं छं समाख्यातं तरले छः प्रकीर्तितः ॥१२॥ छेदके छः समाख्यातो विद्वद्भिः शब्दकोविदैः । जकारो गायने प्रोक्तो जेमने जः प्रकीर्तितः ॥१३॥ जेता जश्च प्रकथितः सूरिभिः शब्दशासने । रवो झकारः कथितो नष्टे झश्चोच्यते बुधैः ॥१४॥ झकारश्च तथा वायौ नेपथ्ये समुदाहृतः । ञकारो गायने प्रोक्तो ञकारो झर्झरध्वनौ ॥१५॥ टो धरित्र्याञ्च करके टो ध्वनौ च प्रकीर्तितः । ठकारो जनतायां स्याट्ठो ध्वनौ च शठेऽपि च ॥१६॥ ठो महेशः समाख्यातष्ठश्च शून्ये प्रकीर्तितः । बृहद्ध्वनौ च ठः प्रोक्तः तथा चन्द्रस्य मण्डले ॥१७॥ डकारः शङ्करे त्रासे ध्वनौ भीमे निरुच्यते । ढकारः कीर्तिता ढक्का निर्गुणे निर्धने मतः ॥१८॥ णकारः सूकरे ज्ञाने निश्चये निर्णयेऽपि च । तकारः कीर्तितश्चौरे क्रोडपुच्छे प्रकीर्तितः ॥१९॥ शिलोच्चये थकारः स्यात्थकारो नयरक्षणे । दकारोऽभ्रे कलत्रे च च्छेदे दाने च दातरि ॥२०॥ धं धने सधने धः स्याद्विधातरि मुनावपि । धिषणा धीः समाख्याता धूश्चैव भारवित्तयोः ॥२१॥ नेता नश्च समाख्यातस्तरणौ नः प्रकीर्तितः । नकारः सौगते बुद्धौ स्तुतौ वृक्षे प्रकीर्तितः ॥२२॥ नः शब्दः स्वागते बन्धौ वृक्षे सूर्ये च कीर्तितः । पः कुवेरः समाख्यातः पश्चिमे च प्रकीर्तितः ॥२३॥ पवने पः समाख्यातः पः स्यात्पाने च पातरि । कफे वारे फकारः स्यात्तथाऽऽह्वाने प्रकीर्तितः ॥२४॥ फूत्कारेऽपि च फः प्रोक्तः तथा निष्फलभाषणे । बकारो वरुणः प्रोक्तः कलशे बः फलेऽपि च ॥२५॥ वक्षःस्थले च बः प्रोक्तो गदायां समुदाहृतः । नक्षत्रे भं बुधाः प्राहुः भवने भः प्रकीर्तितः ॥२६॥ दीप्तिर्भा स्याच्च भूर्भुमिः भीर्भयं कथितं बुधैः । मः शिवश्चन्द्रमा वेधा मा लक्ष्मीश्च प्रकीर्तिता ॥२७॥ मा च मातरि माने बन्धने मः प्रकीर्तितः । यशो यः कथितः प्राज्ञैः यो वायुरिति शब्दितः ॥२८॥ याने यातरि यस्त्यागे कथितः शब्दवेधिभिः । रश्च रामेऽनिले वह्नौ भूमावपि धने पि च ॥२९॥ इन्द्रियेन्धनयोगे च रुर्भवे च प्रकीर्तितः । लो दीप्तौ द्यां लश्च भूमौ भये चाह्लादनेऽपि च ॥३०॥ लो वाते लवणे च स्याल्लो दाने च प्रकीर्तितः । लः श्लेषे चाशये चैव प्रलये साधनेऽपि लः ॥३१॥ मानसे वरुणे चैव लकारः सान्त्वने ऽपि च । विश्च पक्षी निगदितो गगनं परिकीर्तितम् ॥३२॥ शं सुखं शङ्करः श्रेयः शश्च सीम्नि निगद्यते । शयने शः समाख्यातो हिंसायां शो निगद्यते ॥३३॥ षः कीर्तितो बुधैः श्रेष्ठे षश्च गम्भीरलोचने । उपसर्गे परोक्षे च षकारः परिकीर्तितः ॥३४॥ सः कोपे वरणे सः स्यात्तथा शूलिनि कीर्तितः । सा च लक्ष्मीः बुधैः प्रोक्ता गौरी सा च स ईश्वरः ॥३५॥ हः कोपे वारणे हश्च तथा शूली प्रकीर्तितः । हिः पद्मावरणे प्रोक्तो हिः स्याद्धेत्ववधारणे ॥३६॥ क्षः क्षेत्रे वक्षसि प्रोक्तो बुधैःक्षः शब्दशासने । क्षिः क्षेत्रे क्षत्ररक्षे च नृसिंहे च प्रकीर्तितः ॥३७॥ आगमेभ्योऽभिधानेभ्यो धातुभ्यः शब्दशासनात् । एवमेकाक्षरं नामाभिधानं रचितं मया ॥३८॥ ॥ इति पुरुषोत्तमदेवप्रणीतः एकाक्षरकोशः समाप्तः ॥
उत्तरगीता गौडपादीयदीपिकासहिता (५)
एवमुक्तप्रकारेण योगी भूत्वा ब्रह्मज्ञाननिष्ठ एव स्यादित्याह — स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः । बहिर्व्योमस्थितं नित्यं नासाग्रे च व्यवस्थितम् ॥ निष्कलं तं विजानीयाच्छ्वासो यत्र लयं गतः ॥११॥ ब्रह्मविदुक्तप्रकारेण ब्रह्मज्ञानी सन् स्थिरबुद्धिः निश्चयज्ञानी भूत्वा असम्मूढः अज्ञानरहितः सन् ब्रह्मणि स्थितः ब्रह्मनिष्ठ एव नित्यं यत्र श्वासः श्वासवायुः लयं गतः नाशं प्राप्तः तत्र नासाग्रे व्यवस्थितं बहिर्व्योमस्थितं बहिराकाशस्थितं च निष्कलं कालातीतं ब्रह्म जानीयात् ॥११॥ ब्रह्मज्ञाननिष्ठस्य मनोनैश्चल्यार्थं धारणाविशेषमाह — पुटद्वयविनिर्मुक्तो वायुर्यत्र विलीयते । तत्र संस्थं मनः कृत्वा तं ध्यायेत्पार्थ ईश्वरम् ॥१२॥ हे पार्थ पुटद्वयविनिर्मुक्तः नासारन्ध्रान्निर्गतो वायुः यत्र विलीयते लयं गच्छति तस्मिन् मार्गे सम्यक् स्थितं मनः कृत्वा तमीश्वरं ध्यायेत् वक्ष्यमाणप्रकारेण ध्यायेत् ॥१२॥ तमेव प्रकारमाह — निष्कलं तं विजानीयात् षडूर्मिरहितं शिवम् ॥१३॥ निष्कलं निष्कृष्टाहङ्कारं चैतन्यात्मकमत एव षडूर्मिरहितं क्षुत्पिपासादिहीनं शिवं मङ्गलस्वरूपमिति विजानीयात् ध्यायेदित्यर्थः ॥१३॥ किञ्च — प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् ॥ प्रभाशून्यं वृत्त्यात्मकप्रकाशरहितम् । तत्र हेतुः मनःशून्यं मनोरहितमत एव बुद्धिशून्यमासक्तिरहितं निरामयं निर्व्याजमत एव निराभासं भ्रमरहितमत एव सर्वशून्यं स्वव्यतिरिक्तवस्तुमात्रस्य मिथ्यात्वेन आनन्दैकरसं यद्ब्रह्म तद्ध्यानं समाधिः ॥ तस्मिन् स्थितस्य किं लक्षणमित्याह — सर्वशून्यं निराभासं समाधिस्थस्य लक्षणम् । त्रिशून्यं यो विजानीयात्स तु मुच्येत बन्धनात् ॥१४॥ त्रिशून्यं यो विजानीयात् पूर्वोक्तप्रभादिशून्यं यो विजानीयात् बुध्येत् । अनेन जाग्रदाद्यवस्थात्रयशून्यत्वं दर्शितम् । प्रभामनोबुद्धिशब्दैः क्रमेण तासामभिधानात् तादृशं ब्रह्म यो विजानीयात् स समाधिस्थः बन्धनात् संसारबन्धनान्मुच्यते मुक्तो भवति ॥१४॥