पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/२)

 
तस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते (प्रवर्त्तते) –
 

योगश्चित्तवृत्तिनिरोधः
 
 
व्यासभाष्यम्
 

सर्वशब्दाग्रहणात्संप्रज्ञातोऽपि योग इत्याख्यायते ।
चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात्त्रिगुणम् ।
प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयप्रियं भवति । तदेव तमसानुविद्धमधर्माज्ञानावैराग्यानैश्वर्योपगं भवति । तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति । तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति । तत्परं प्रसंख्यानमित्याचक्षते ध्यायिनः ।
चितिशक्तिरपरिणामिन्यप्रतिसंक्रमा दर्शितविषया शुद्धा चानन्ता च ।
सत्त्वगुणात्मिका चेयम् , अतो विपरीता विवेकख्यातिरिति ।
अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं निरुणद्धि । तदवस्थं संस्कारोपगं भवति । स निर्बीजः समाधिः । न तत्र किञ्चित्संप्रज्ञायत इत्यसंप्रज्ञातः । द्विविधः स योगश्चित्तवृत्तिनिरोध इति ॥२॥
 
 

तत्त्ववैशारदी
 

द्वितीयं सूत्रमवतारयति – तस्य लक्षणेति । तस्येति पूर्वसूत्रोपात्तं द्विविधं योगं परामृशति ।
योगश्चित्तवृत्तिनिरोधः
निरुध्यन्ते यस्मिन्प्रमाणादिवृत्तयोऽवस्थाविशेषे चितस्य, सोऽवस्थाविशेषो योगः
ननु संप्रज्ञातस्य योगस्याव्यापकत्वादलक्षणमिदम् । अनिरुद्धा हि तत्र सात्त्विकी चित्तवृत्तिरिति ।
अत आह — सर्वशब्दाग्रणादिति । यदि ‘सर्वचित्तवृत्तिनिरोध’ – इत्युच्येत , भवेदव्यापकं संप्रज्ञातस्य । क्लेशकर्मविपाकाशयपरिपन्थी चित्तवृत्तिनिरोधस्तु तमपि संगृह्णाति । तत्रापि राजसतामसचित्तवृत्तिनिरोधात् तस्य च तद्भावादित्यर्थः ।
कुतः पुनरेकस्य चित्तस्य क्षिप्तादिभूमिसम्बन्धः , किमर्थं चैवमवस्थस्य चित्तस्य वृत्तयो निरोद्धव्या – इत्याशङ्क्य ; प्रथमं तावदवस्थासम्बन्धे हेतुमुपन्यस्यति – चित्तं हीति । प्रख्याशीलत्वात्सत्त्वगुणं , प्रवृत्तिशीलत्वात् रजोगुणं , स्थितिशीलत्वात्तमोगुणम् ।
प्रख्याग्रहणमुपलक्षणार्थम् । तेनान्येऽपि सात्त्विकाः प्रसादलाघवप्रीत्यादयः सूच्यन्ते । प्रवृत्त्या च परितापशोकादयो राजसाः । प्रवृत्तिविरोधी तमोवृत्तिधर्मः स्थितिः । स्थितिग्रहणाद् गौरवावरणदैन्यादय उपलक्ष्यन्ते ।
एतदुक्तं भवति – एकमपि चित्तं त्रिगुणनिर्मिततया , गुणानां च वैषम्येण परस्परविमर्दवैचित्र्याद्विचित्रपरिणामं सदनेकावस्थमुपपद्यत – इति ।
क्षिप्ताद्या एव चितस्य भूमीर्यथासम्भवमवान्तरावस्थाभेदवतीरादर्शयति – प्रख्यारूपं हीति ।
चित्तरूपेण परिणतं सत्त्वं चित्तसत्त्वम् । तदेवं प्रख्यारूपतया सत्त्वप्राधान्यं चित्तस्य दर्शितम् ।
तत्र चित्ते सत्त्वात् किञ्चिदूने रजस्तमसी यदा मिथः समे च भवतः ; तदैश्वर्यं च विषयाश्च – शब्दादयस्तान्येव प्रियाणि यस्य , तत्तथोक्तम् । सत्त्वप्राधान्यात्खलु चित्तं तत्त्वे प्रणिधित्सदपि तत्त्वस्य तमसा पिहितत्वादणिमादिकमैश्वर्यमेव तत्त्वमभिमन्यमानं तत्प्रणिधित्सति , प्रणिधत्ते च क्षणम् ।
अथ रजसा क्षिप्यमाणं तत्राप्यलब्धस्थिति(विशेषात्) तत्प्रियमात्रं भवति । शब्दादिषु पुनरस्य स्वरसवाही प्रेमा निरूढ एव । तदनेन विक्षिप्तं चित्तमुक्तम् ।
क्षिप्तं चित्तं दर्शयन्मूढमपि सूचयति – तदेव तमसेति । यदा हि तमो रजो विजित्य प्रसृतं ; तदा चित्तसत्त्वावरकतमःसमुत्सारणेऽशक्तत्वात् रजसः , तमःस्थगितं चित्तमधर्माद्युपगच्छति ।
अज्ञानं च विपर्ययज्ञानम् , अभावप्रत्ययालम्बनं च निद्राज्ञानमुक्तम् । ततश्च मूढावस्थापि सूचितेति । अनैश्वर्यं सर्वत्रेच्छाप्रतीघातः । अधर्मादिव्याप्तं चित्तं भवतीत्यर्थः ।
यदा तु तदेव चित्तसत्त्वमाविर्भूतसत्त्वमपगततमःपटलं सरजस्कं भवति ; तदा धर्मज्ञानवैराग्यैश्वर्याण्युपगच्छति – इत्याह – प्रक्षीणेत्यादि । मोहस्तमः , तदेव चावरणं प्रकर्षेण क्षीणं यस्य ; तत्तथोक्तम् । अत एव , सर्वतो विशेषाविशेषलिङ्गमात्रालिङ्गपुरुषेषु प्रद्योतमानम् । तथापि न धर्मायैश्वर्याय च कल्पते, प्रवृत्त्याभावात् – इति । अत आह – अनुविद्धं रजोमात्रया । रजसः प्रवर्तकत्वादस्ति धर्मादि(प्रवृत्ति)रित्यर्थः । तदनेन संप्रज्ञातसमाधिसंपन्नयोर्मधुभूमिकप्रज्ञाज्योतिषोर्मध्यमयोर्योगिनोश्चित्तसत्त्वं संगृहीतम् ।
सम्प्रति अतिक्रान्तभावनीयस्य ध्यायिनश्चर्तुथस्य चित्तावस्थामाह – तदेव चित्तं रजोलेशान्मलादपेतम् , अत एव स्वरूपप्रतिष्ठम् । अभ्यासवैराग्यपुटपाकप्रबन्धविधूतरजस्तमोमलस्य हि बुद्धिसत्त्वतपनीयस्य स्वरूपप्रति(ष्ठस्य / ष्ठायां) विषयेन्द्रियप्रत्याहृतस्यानवसिताधिकारतया च कार्यकारि(णो / णी) विवेकख्यातिः परं कार्यमवशिष्यत इत्याह – सत्त्वपुरुषान्यताख्यातिमात्रं चित्तं धर्ममेघध्यानोपगं भवतिधर्ममेघश्च वक्ष्यते
अत्रैव योगिजनप्रसिद्धिमाह – तदिति । सत्त्वपुरुषान्यताख्यातिमात्रं चित्तं धर्ममेघपर्यन्तं परं प्रसङ्ख्यानमित्याक्षते ध्यायिनः । चित्तसामानाधिकरण्यं च धर्मधर्मिणोरभेदविवक्षया द्रष्टव्यम् ।
विवेकख्यातेर्हानहेतुं चितिशक्तेश्चोपादानहेतुं निरोधसमाधिमवतारयितुं चितिशक्तेः साधुतामसाधुतां च विवेकख्यातेर्दर्शयति –चितिशक्तिरित्यादि ।
सुखदुःखमोहात्मकत्वमशुद्धिः । सुखमोहावपि हि विवेकिनं दुःखाकुरुतः । अतो दुःखवद्धेयौ । तथा चातिसुन्दरमप्यन्तवद्दुनोति । तेन तदपि हेयमेव विवेकिनः । सेयमशुद्धिरन्तश्च चितिशक्तौ = पुरुषे न स्त – इत्युक्तम् – शुद्धा चानन्ता चेति ।
ननु सुखदुःखमोहात्मकशब्दादीनियं चेतयमाना तदाकारापन्ना कथं विशुद्धा , तदाकारपरिग्रहपरिवर्जने च कुर्वती कथमनन्त – इति ।
अत उक्तम् – दर्शितविषयेति । दर्शितो विषयः शब्दादिर्यस्यै , सा तथोक्ता । भवेदेतदेवं यदि बुद्धिवच्चितिशक्तिर्विषयाकारतामापद्येत, किन्तु बुद्धिरेव विषयाकारेण परिणता सती अतदाकारायै चितिशक्त्यै विषयमादर्शयति । ततः पुरुषश्चेतयत इत्युच्यते ।
नन विषयाकारां बुद्धिमनारूढायाश्चितिशक्तेः कथं विषयवेदनं , विषयारोहे वा कथं न तदाकारापत्तिरिति ।
अत उक्तम् – अप्रतिसंक्रमेति । प्रतिसंक्रमः संचारः । स चितेर्नास्तीत्यर्थः ।
स एव कुतोऽस्या नास्तीति ।
अत उक्तम् – अपरिणामिनीति । न चितेस्त्रिविधोऽपि धर्मलक्षणावस्थालक्षणः परिणामोऽस्ति , येन क्रियारूपेण परिणता सती बुद्धिसंयोगेन परिणमेत चितिशक्तिः । असंक्रान्ताया अपि विषयसंवेदनमुपपादयिष्यते । तत्सिद्धं चितिशक्तिः शोभनेति
विवेकख्यातिस्तु बुद्धिसत्त्वात्मिकाऽशोभनेत्युक्तम् – अतः = चितिशक्तेः विपरीतेति ।
यदा च विवेकख्यातिरपि हेया , तदा कैव कथा वृत्त्यन्तराणां दोषबहुलानामिति – भावः ।
ततस्तद्धेतोर्निरोधसमाधेरवतारो युज्यत इत्याह – अतस्तस्यामिति । ज्ञानप्रसादमात्रेण हि परेण वैराग्येण विवेकख्यातिमपि निरुणद्धीत्यर्थः ।
अथ निरुद्धाशेषवृत्ति चित्तं कीदृशमिति ।
अत आह – तदवस्थमित्यिादि । स निरोधोऽवस्था यस्य , तत्तथोक्तम् ।
निरोधस्य स्वरूपमाह – स निर्बीज इति । क्लेशसहितः कर्माशयो जात्यायुर्भोगबीजं , तस्मान्निर्गत इति निर्बीजः
अस्यैव योगिजनप्रसिद्धामन्वर्थसंज्ञामादार्शयति – न तत्रेति ।
उपसंहरति – द्विविधः स योगश्चित्तवृत्तिनिरोध इति ॥२॥

Author Socials Follow me

This site uses Akismet to reduce spam. Learn how your comment data is processed.