उक्तार्थे दृष्टान्तरम् (दृष्टान्तम्) आह – उल्काहस्तो यथाकालं द्रव्यमालोक्य तां त्यजेत् । ज्ञानेन ज्ञेयमालोक्य ज्ञानं पश्चात्परित्यजेत् ॥२१॥ कश्चिल्लोके अन्धकारस्थितद्रव्यदर्शनार्थी सन् यथा उल्काहस्त उल्मुकहस्तो भवति पश्चाद्द्रव्यमालोक्य तदनन्तरं तामुल्कां यथा त्यजेत्तथा ज्ञानेन ज्ञानसाधनेन ज्ञेयं ब्रह्मालोक्य अपरोक्षीकृत्य पश्चाद् ज्ञानं ज्ञानसाधनं परित्यजेत् ॥२१॥ जाते चापरोक्षज्ञाने तेन प्रयोजनाभावात् साधनं परित्याज्यमित्येतद्दृष्टान्तान्तरेणाप्याह – यथाऽमृतेन तृप्तस्य पयसा किं प्रयोजनम् । एवं तं परमं ज्ञात्वा वेदैर्नास्ति प्रयोजनम् ॥२२॥ यथामृतेन सागरमथनोद्भूतेन तृप्तस्य संतुष्टस्य पयसा नीरेण प्रयोजनं नास्ति । एवं परमं तं ज्ञात्वा परमात्मानमपरोक्षीकृत्य वेदैः वेदान्तशास्त्रादिभिःकिं प्रयोजनम् ? न किमपीत्यर्थः ॥२२॥ तत्त्वज्ञानिनां विधिनिषेधादिकर्तव्यमपि नास्तीत्याह – ज्ञानाऽमृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चास्ति किञ्चित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥२३॥ ज्ञानामृतेन तृप्तस्य आनन्दैकरसं प्राप्तस्य कृतकृत्यस्य कृतार्थस्य योगिनो मुक्तस्य किञ्चिदपि कर्तव्यं नास्ति । (किन्तु) लोकसङ्ग्रहार्थमेव यद्यभिनिवेशेन कर्मासक्तिरस्ति तर्हि स तत्त्वविन्न भवति आरूढो न भवतीत्यर्थः ॥२३॥
You must log in to post a comment.