पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१)

 
अथ योगानुशासनम् ॥१॥
 
 
व्यासभाष्यम्
 
[1] यस्त्यक्त्वा रूपमाद्यं प्रभवति जगतोऽनेकधानुग्रहाय
प्रक्षीणक्लेशराशिर्विषमविषघरोऽनेकवक्त्रः सुभोगी ।
सर्वज्ञानप्रसूतिर्भुजगपरिकरः प्रीतये यस्य नित्यं
देवोऽहीशः स वोऽव्यात्सितविमलतनुर्योगदो योगयुक्तः ।। १ ।।
 

अथेत्ययमधिकारार्थः ।
योगानुशासनं शास्त्रमधिकृतं वेदितव्यम् ।
योगः समाधिः । स च सार्वभौमश्चित्तस्य धर्मः ।
क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तभूमयः ।
तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते ।
यस्त्वेकाग्रे चेतसि सद्भूतमर्थ प्रद्योतयति, क्षिणोति च क्लेशान्, कर्मबन्धनानि श्लथयति, निरोधमभिमुखं करोति स संप्रज्ञातो योग इत्याख्यायते । स च वितर्कानुगतो विचारानुगत आनन्दानुगतोऽस्मितानुगत इत्युपरिष्टात् (नि/प्र)वेदयिष्यामः ।
सर्ववृत्तिनिरोधे त्वसंप्रज्ञातः समाधिः ।। १ ।।
 
 

 
तत्त्ववैशारदी
 
नमामि जगदुत्पत्तिहेतवे वृषकेतवे ।
क्लेशकर्मविपाकादिरहिताय हिताय च ॥१॥
 
नत्वा पतञ्जलिमृषिं वेदव्यासेन भाषिते ।
संक्षिप्तस्पष्टबह्वर्था भाष्ये व्याख्या वि(धीय/धाष्य)ते ॥२॥
 

इह हि भगवान्पतञ्जलिः प्रारिप्सितस्य शास्त्रस्य सङ्क्षेपतस्तात्पर्यार्थं प्रेक्षावत्प्रवृत्त्यङ्गं श्रोतुश्च सुखावबोधार्थमाचिख्यासुरादाविदं सूत्रं रचयाञ्चकार – अथ योगानुशासनम्
तत्र प्रथमावयवमथशब्दं व्याचष्टे – अथेत्ययमधिकारार्थःअथैष ज्योतिरितिवत्, न त्वानन्तर्यार्थः । अनुशासनमिति हि शास्त्रमाह, अनुशिष्यतेऽनेनेति व्युत्पत्या । न चास्य शमदमाद्यनन्तरं प्रवृत्तिरपि तु तत्त्वज्ञानचिख्यापयिषानान्तरम् । जिज्ञासाज्ञानयोस्तु स्यात् । यथाम्नायते – तस्मात् शान्तो दान्त उपरतः तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्येत् (बृ.उ.४।४।२३) इ(ति / त्यादि) । शिष्यप्रश्नतपश्चरणरसायनाद्युपयोगानन्तर्यस्य च सम्भवेऽपि नाभिधानम्,  शिष्यप्रतीतिप्रवृत्त्योरनुपयोगात्, प्रामाणिकत्वे योगानुशासनस्य तदभावेऽप्युपेयत्वात्, प्रामाणिकत्वे  च तद्भावेऽपि हेयत्वात् ।
एतेन तत्त्वज्ञानचिख्यापयिषयोरानन्तर्याभिधानं परास्तम् । अधिकारार्थत्वे तु  शास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य योगस्याभिधानात्सकलशास्त्रतात्पर्यार्थव्याख्यानेन शिष्यः सुखेनैव बोधितश्च प्रवर्तितश्च भवतीति । निःश्रेयसस्य हेतुः समाधिरिति हि श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धम् ।
ननु किं सर्वसन्दर्भगतोऽथशब्दोऽधिकारार्थः ? तथा सति अथातो ब्रह्मजिज्ञासा (ब्र.सू.१।१।१) इत्यादावपि प्रसङ्गः । इत्यतः आह – अयमिति ।
ननु हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः इति योगियाज्ञवल्क्यस्मृतेः कथं पतञ्जलेर्योगशास्त्र(वक्तृ / कर्तृ)त्वमित्याशङ्क्य सूत्रकारेणानुशासनमित्युक्तम् । शिष्टस्य शासनमनुशासनमित्यर्थः । यदायमथशब्दोऽधिकारार्थस्तदैवं वाक्यार्थः सम्पद्यत इत्याह – योगानुशासनं शास्त्रमधिकृतमिति ।
ननु व्युत्पाद्यमानतया योगोऽत्राधिकृतो न तु शास्त्रमित्यत आह – वेदितव्यमिति ।
सत्यं व्युत्पाद्यमानतया योगः प्रस्तुतः । स तु तद्विषयेण शास्त्रेण करणेन व्युत्पाद्यः । करणगोचरश्च व्युत्पादकस्य व्यापारो न कर्मगोचर इति कर्तृव्यापारविवक्षया योगविषयस्य शास्त्रस्याधिकृतत्वं वेदितव्यम् । शास्त्रव्यापारगोचरतया तु योग एवाधिकृत इति भावः ।
अधिकारार्थस्य चाथशब्दस्यान्यार्थं नीयमानोदककुम्भदर्शनमिव श्रवणं मङ्गलायापि कल्पत इति मन्तव्यम् ।
शब्दसंदेहनिमित्तमर्थसंदेहमपनयति – योगः समाधिरिति । युज समाधौ इत्यस्माद्व्युत्पन्नः समाध्यर्थो न तु युजिर् योगे इत्यस्मात्संयोगार्थ इत्यर्थः ।
ननु समाधिरपि वक्ष्यमाणस्याङ्गिनो योगस्याङ्गम्, न चाङ्गमेवाङ्गीत्यत आह – स च (सार्वभौमः इति) । चस्त्वर्थोऽङ्गादङ्गिनं भिनत्ति । भूमयोऽवस्था वक्ष्यमाणा मधुमती-मधुप्रतीका-विशोका-संस्कारशेषास्ताश्चितस्य । तासु सर्वासु विदितः सार्वभौमश्चित्तवृत्तिनिरोधलक्षणो योगः । तदङ्गं तु समाधिर्नैवंभूतः । व्युत्पत्तिनिमित्तमात्राभिधानं चैतद्योगः समाधिरिति अङ्गाङ्गिनोरभेदविवक्षामात्रेण । प्रवृत्तिनिमित्तं तु योगशब्दस्य चित्तवृत्तिनिरोध एवेति परमार्थः ।
वृत्तयो ज्ञानान्यात्माश्रयाण्यतः तन्निरोधोऽपि आत्माश्रय एवेति ये पश्यन्ति तन्निरासायाह – चित्तस्य धर्म इति । चित्तशब्देनान्तःकरणं बुद्धिमुपलक्ष्यति । न हि कूटस्थनित्या चितिशक्तिरपरिणामिनी ज्ञानधर्मा भवितुमर्हति, बुद्धिस्तु भवेदिति भावः ।
स्यादेतत् – सार्वभौमश्चेद्योगो हन्त भोः क्षिप्तमूढविक्षिप्ता अपि चित्तभूमयः । अस्ति च परस्परापेक्षया वृत्तिनिरोधोऽप्यास्विति तत्रापि योगत्वप्रसङ्ग इत्याशङ्क्य हेयोपादेयभूमीरुपन्यस्यति – क्षिप्तमित्यादि ।
क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणमत्यन्तमस्थिरम् ।
मूढं तु तमःसमुद्रेकान्निद्रावृत्तिमत् ।
क्षिप्ताद्विशिष्टं विक्षिप्तम् । विशेषोऽस्थेमबहुलस्य कादाचित्कः स्थेमा । सा चास्यास्थेमबहुलता सांसिद्धिकी वा वक्ष्यमाणव्याधिस्त्यानाद्यन्तरायजनिता वा ।
एकाग्रमेकतानम् ।
निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं चित्तं निरुद्धम्
तत्र क्षिप्तमूढयोः सत्यपि परस्परापेक्षया वृत्तिनिरोधे पारम्पर्येणापि निःश्रेयसहेतुभावाभावात्तदुपघातकत्वाच्च योगपक्षाद्दूरोत्सारितत्वमिति न तयोर्योगत्वं निषिद्धम् । 
विक्षिप्तस्य तु कादाचित्कसद्भूतविषयस्थेमशालिनः सम्भाव्येत योगत्वमिति निषेधति – तत्र (इति ।) विक्षिप्ते चेतसि समाधिः कादाचित्क(सद्भूतविषयस्य चित्तस्य स्थेमा / सद्भूतविषयश्चित्तस्थेम्ना) न योगपक्षे वर्तते । कस्मात् ? यतस्तद्विपक्षविक्षेपोपसर्जनीभूतः । विपक्षवर्गान्तर्गतस्य हि स्वरूपमेव दुर्लभम्ः, प्रागेव कार्य(क / का)रणम् । न खलु दहनान्तर्गतं बीजं त्रिचतुरक्षणावस्थितमुप्तमप्यङ्कुराय कल्पत इति भावः ।
यदि विक्षेपोपसर्जनीभूतः समाधिर्न योगः, कस्तर्हीत्यत आह – यस्त्वेकाग्रे चेतसीति । भूतमिति समारोपितमर्थं निवर्तयति । निद्रावृत्तिरपि स्वालम्बने तमसि भूते भवत्येकाग्रेत्यत उक्तम् – सदिति । शोभनं नितान्ताविर्भूतं सत्त्वम् । तमःसमुद्रेकस्त्वशोभनस्तस्य क्लेशहेतुत्वादिति ।
द्योतनं हि तत्त्वज्ञानमागमाद्वानुमानाद्वा भवदपि परोक्षरूपतया न साक्षात्कारवतीमविद्यामुच्छिनत्ति, द्विचन्द्रदिङ्मोहादिष्वनुच्छेदकत्वादत आह – प्रेति । प्र(शब्दो / कारो) हि प्रकर्षं द्योतयन् साक्षात्कारं सूचयति ।
अविद्यामूलत्वादस्मितादीनां क्लेशानां विद्यायाश्चाविद्योच्छेदरूपत्वाद्विद्योदये चाविद्यादिक्लेशसमुच्छेदो विरोधित्वात्कारणविनाशाच्चेत्याह – क्षिणोति चेति ।
अत एव कर्मरूपाणि बन्धनानि श्लथयतिकर्म चात्रापूर्वमभिमतम्, कार्ये कारणोपचारात् । श्लथयति स्वकार्यादवसादयति । वक्ष्यति हि – ‘सति मूले तद्विपाकः’ (यो.सू. २।१३) इति ।
किञ्च निरोधमभिमुखं करोत्यभिमुखीकरोति
संप्रज्ञातश्चतुष्प्रकार इत्याह – स चेति ।
असंप्रज्ञातमाह – सर्ववृत्ति इति । रजस्तमोमयी किल प्रमाणदिवृत्तिः सात्विकीं वृत्तिमुपादाय संप्रज्ञाते निरुद्धा । असंप्रज्ञाते तु सर्वासामेव निरोध इत्यर्थः ।
तदिह भूमिद्वये समाप्ता या मधुमत्यादयो भूमयस्ताः सर्वास्तासु विदितः सार्वभौम इति सिद्धम् ॥१॥

[1] अयं श्लोकः विज्ञानभिक्षुप्रणितयोगवार्तिके व्याख्यातः तत्त्ववैशारद्यां तु नास्ति ।

Author Socials Follow me

This site uses Akismet to reduce spam. Learn how your comment data is processed.