पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/७)

(तत्र-)

प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥ 


व्यासभाष्यम् 
इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् । फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः । (बुद्धेः) प्रतिसंवेदी पुरुष इत्युपरिष्टादुपपादयिष्यामः ।

अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः सम्बन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम् । यथा देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकम् चैत्रवत् , विन्ध्यश्चाप्राप्ति(प्ते)रगतिः । 

आप्तेन दृष्टोऽनुमितो वार्थः परत्र स्वबोधसङ्क्रान्तये शब्देनोपदिश्यते , शब्दात्तदर्थविषया वृत्तिः श्रोतुरागमः । यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः , स आगमः प्लवते । मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात् ॥७॥ 
तत्त्ववैशारदी 
तत्र प्रमाणवृत्तिं विभजन्सामान्यलक्षणमाह – प्रत्याक्षानुमानागमाः प्रमाणानि । अनधिगततत्त्वबोधः पौरुषयो व्यवहारहेतुः प्रमा । तत्करणं प्रमाणम् । विभागवचनं च न्यूनाधिकसङ्ख्याव्यवच्छेदार्थम् । 

तत्र सकलप्रमाणमूलत्वात्प्रथमतः प्रत्यक्षं लक्षयति – इन्द्रियेति । अर्थस्येति समारोपितत्वं निषेधति । तद्विषयेति बाह्यगोचरतया ज्ञानाकारगोचरत्वं निवारयति । चित्तवर्तिनो ज्ञानाकारस्य बाह्यज्ञेयसम्बन्धं दर्शयति – बाह्यवस्तूपरागादिति । व्यवहितस्य तदुपरागे हेतुमाह – इन्द्रियप्रणालिकयेति । सामान्यमात्रमर्थ इत्येके , विशेषा एवेत्यन्ये , सामान्यविशेषतद्वत्तेत्यपरे वादनः प्रतिपन्नाः । तन्निरासायाह – सामान्यविशेषात्मन इति । न तद्वत्ता , किन्तु तादात्म्यमर्थस्य । एतच्चैकान्तानभ्युपगम (यो.सू.भा.३।१३) इत्यत्र प्रतिपादयिष्यते । अनुमानागमविषयात्प्रत्यक्षविषयं व्यवच्छिनत्ति – विशेषावधारणप्राधानेति । यद्यपि सामान्यमपि प्रत्येक्षे प्रतिभासते तथापि विशेषं प्रत्युपर्सनीभूतमित्यर्थः । एतच्च साक्षात्कारोपलक्षणपरम् । तथा च विवेकख्यातिरपि लक्षिता भवति । फलविप्रतिपत्तिं निराकरोति – फलं पौरुषेयश्चित्तवृत्तिबोध इति । 

ननु पुरुषवर्ती बोधः कथं चित्तगताया वृत्तेः फलम् । न हि खदिरगोचरव्यापारेण परशुना पलाशे छिदा क्रियत इति । 
अत आह – अविशिष्ट इति । न हि पुरुषगतो बोधो जन्यते , अपि तु चैतन्यमेव बुद्धिदर्पणप्रतिबिम्बितं बुद्धिवृत्त्याऽर्थाकारया तदाकारतामापद्यमानं फलम् । तच्च तथाभूतं बुद्धेरविशिष्टं = बुद्ध्यात्मकम् , वृत्तिश्च बुद्ध्यात्मिकेति सामानाधिकरण्याद्युक्तः प्रमाणफलभाव इत्यर्थः । एतच्चोपपादयिष्याम इत्याह – (बुद्धेः) प्रतिसंवेदीति ।
प्रत्यक्षानन्तरं प्रवृत्त्यादिलिङ्गकश्रोतृबुद्ध्यनुमानप्रभवसम्बन्धदर्शनसमुत्थतया आगमस्यानुमानजत्वादनुमितस्य चागमेनान्वाख्यानादागमात्प्रागनुमानं लक्षयति – अनुमेयस्येति । जिज्ञासितधर्मविशिष्टो धर्म्यनुमेयः , तस्य तुल्यजातीयाः = साध्यधर्मसामान्येन समानार्थाः सपक्षास्तेष्वनुवृत्त इति । अनेन विरुद्धत्वमसाधारणत्वं च साधनधर्मस्य निराकरोति । भिन्नजातीयाः = असपक्षाः ते च सपक्षादन्ये तद्विरुद्धास्तदभाववन्तश्च तेभ्यो व्यावृत्तः । तदनेन साधारणानैकान्तिकत्वमपाकरोति । सम्बध्यत इति सम्बन्धो लिङ्गम् । अनेन पक्षधर्मतां दर्शयन्नसिद्धतां निवारयति । तद्विषया = तन्निबन्धना , षिञ् बन्धने (धा. पा ५।२) इत्यस्माद्विषयपदव्युत्पत्तेः । सामान्यावधारणेति प्रत्यक्षविषयाद्व्यवच्छिनत्ति । सम्बन्धसंवेदनाधीनजन्मानुमानं विशेषेषु सम्बन्धग्रहणाभावेन सामान्यमेव सुकरसबन्धग्रहणं गोचरयतीति । उदाहरणमाह – यथेति । चो हेत्वर्थः । विन्ध्योऽगतिर्यतस्तस्मात्तस्याप्राप्तिरतो गतिनिवृत्तौ प्राप्तेर्निवृत्तिः , देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवदिति सिद्धम् । 
आगमस्य वृत्तेर्लक्षणमाह – आप्तेनेति । तत्त्वदर्शनकारुण्यकरणपाटवाभिसम्बन्ध आप्तिः , तया (सह) वर्तत इत्याप्तः । तेन दृष्टाऽनुमितो वार्थः । श्रुतस्य पृथगनुपादानं तस्य दृष्टानुमितमूलत्वेन ताभ्यामेव चरितार्थत्वात् । आप्तचित्तवर्तिज्ञानसदृशस्य ज्ञानस्य श्रोतृचित्ते समुत्पादः स्वबोधसंक्रान्तिस्तस्यै , अर्थ उपदिश्यते = श्रोतृहिताहितप्राप्तिपरिहारोपायतया प्रज्ञाप्यते । शेषं सुगमम् । यस्यागमस्याश्रद्धेयार्थो वक्ता , यथा ‘यान्येव दश दाडिमानि तानि षडपूपा भविष्यन्ति’ इति । न दृष्टानुमिर्तार्थः , यथा ‘चैत्यं वन्देत स्वर्गकामः’ इति स आगमः प्लवते । 
नन्वेवं मन्वादीनामप्यागमः प्लवेत । न हि तेऽपि दृष्टानुमितार्थाः । यथाहुः – 

यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः । 
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ।। 
इति । 

अत आह – मूलवक्तरि त्विति । मूलवक्ता हि तत्रेश्वरो दृष्टानुमितार्थ इत्यर्थः । (नन्वेवं मन्वादीनामप्यागमः प्लवेत । न हि तेऽपि दृष्टानुमितार्थाः । इत्यत आह – मूलवक्तरि त्विति । मूलवक्ता हि तत्रेश्वरो दृष्टानुमितार्थ इत्यर्थः । यथाहुः – यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः ।स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः।) ॥७॥

Author Socials Follow me

This site uses Akismet to reduce spam. Learn how your comment data is processed.