पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/५)

ताः पुनर्निरोद्धव्या बहुत्वे सति चित्तस्य – 
वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लि(ष्टा अक्लि)ष्टाः ॥५॥ 
व्यासभाष्यम् 
क्लेशहेतुकाः कर्माशयप्रचयक्षेत्रीभूताः क्लिष्टाः । ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः । क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः । क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति ; अक्लिष्टच्छिद्रेषु क्लिष्टा इति । तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते , संस्कारैश्च वृत्तय इति । एवं वृत्तिसंस्कारचक्रमनिशमावर्तते । तदेवंभूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते , प्रलयं वा गच्छतीति । ताः क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तयः ॥५॥ 

तत्त्ववैशारदी

स्यादेतत् – पुरुषो हि शक्य उपदिश्यते । न च वृत्तिनिरोधो वृत्तीरविज्ञाय शक्यः । न च सहस्त्रेणापि पुरुषायुषैरलमिमाः कश्चित्परिगणयितुम् । असङ्ख्याताश्च कथं निरोद्धव्याः – इत्याशङ्क्य ;
तासामियत्तास्वरूपप्रतिपादनपरं सूत्रमवतारयति – ‘ताः पुनर्निरोद्धव्या बहुत्वे सति चितस्य’ – ‘वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः’ ।
वृत्तिरूपोऽवयव्येकः , तस्य प्रमाणादयोऽवयवाः पञ्च । ततस्तदवयवा – पञ्चतयी – पञ्चावयवा वृत्तिर्भवति ।
ताश्च वृत्तयश्चैत्रमैत्रादिचित्तभेदाद्बह्व्य इति बहुवचनमुपपन्नम् ।
एतदुक्तं भवति – चैत्रो वा मैत्रो वाऽन्यो वा कश्चित्सर्वेषामेव तेषां वृत्तयः पञ्चतय्य एव , नाधिका – इति ।
चित्तस्येति चैकवचनं जात्यभिप्रायम् । चित्तानामिति तु द्रष्टव्यम् ।
तासामवान्तरविशेषमनुष्ठानोपयोगिनं दर्शयति – क्लिष्टाऽक्लिष्टा इति ।
अक्लिष्टा उपादाय क्लिष्टा निरोद्धव्याः , ता अपि परेण वैराग्येणेति । अस्य व्याख्यानम् – क्लेशहेतुका इति ।
क्लेशा – अस्मितादयो , हेतवः – प्रवृत्तिकारणं यासां वृत्तीनां , ताः तथोक्ताः ।
यद्वा – पुरुषार्थप्रधानस्य , रजस्तमोमयीनां हि वृत्तीनां क्लेशकारणत्वेन (क्लेशकारित्वेन) , क्लेशायैव प्रवृत्तिः ।
क्लेशः – क्लिष्टं , तदासामस्तीति क्लिष्टा – इति ।
यत एव क्लेशोपार्जनार्थममूषां प्रवृत्तिः , अत एव कर्माशयप्रचये क्षेत्रीभूताः ।
प्रमाणादिना खल्वयं प्रतिपत्ताऽर्थमवसाय तत्र सक्तो द्विष्टो वा कर्माशयमाचिनोतीति , भवन्ति धर्माधर्मप्रचयप्रसवभूमयो वृत्तयः क्लिष्टा – इति ।
अक्लिष्टा व्याचष्टे – ख्यातिविषया इति ।
विधूतरजस्तमसो बुद्धिसत्त्वस्य प्रशान्तवाहिनः प्रज्ञाप्रसादः ख्यातिः । तया विषयिण्या तद्विषयं सत्त्वपुरुषविवेकमुपलक्षयति ।
तेन – सत्त्वपुरुषविवेकविषया यतो , अत एव गुणाधिकारविरोधिन्यः । कार्यारम्भणं हि गुणानामधिकारः । विवेकख्यातिपर्यवसानं च तदिति , चरिताधिकाराणां गुणानामधिकारं नि(वि)रुन्धन्तीति । अतस्ता अक्लिष्टाः प्रमाणप्रभृतयो वृत्तयः ।
स्यादेतद् – वीतरागजन्मादर्शनात्क्लिष्टवृत्तय एव सर्वे प्राणभृतः । न च क्लिष्टवृत्तिप्रवाहे भवितुमर्हन्त्यक्लिष्टा वृत्तयः । न चामूषां भावेऽपि कार्यकारिता , विरोधिमध्यपातित्वात् । तस्मात्क्लिष्टानामक्लिष्टाभिर्निरोधः , तासां च वैराग्येण परेणेति मनोरथमात्रमिति ।
अत आह – क्लिष्टप्रवाहेति ।
आगमानुमानाचार्योपदेशपरिशीलनलब्धजन्मनी अभ्यासवैराग्ये क्लिष्टच्छिद्रमन्त(रा)रं , तत्र पतिताः स्वयमक्लिष्टा एव , यद्यपि क्लिष्टप्रवाहपतिताः । न खलु शालग्रामे किरातशतसंर्कीर्णे प्रतिवसन्नपि ब्राह्मणः किरातो भवति ।
अक्लिष्टच्छिद्रेष्विति निदर्शनम् ।
क्लिष्टान्तरवर्तितया च क्लिष्टाभिरनभिभूता अक्लिष्टाः स्वसंस्कारपरिपाकक्रमेण क्लिष्टा एव तावदभिभवन्तीत्याह – तथाजातीयका इति ।
अक्लिष्टाभिर्वृत्तिभिरक्लिष्टाः संस्कारा – इत्यर्थः ।
तदिदं वृत्तिसंस्कारचक्रमनिशमावर्तते – आनिरोधसमाधेः ।
तदेवंभूतं चित्तं निरोधावस्थं संस्कारशेषं भूत्वाऽत्मकल्पेनावतिष्ठत – इत्यापाततः , प्रलयं वा गच्छती- ति परमार्थतः ।
पिण्डीकृत्य सूत्रार्थमाह – ता इति ।
पञ्चधेत्यर्थकथनमात्रम् , न तु शब्दवृत्तिव्याख्यानम् , तयपः प्रकारेऽस्मरणात् ॥५॥

Author Socials Follow me

This site uses Akismet to reduce spam. Learn how your comment data is processed.