अमरखण्डनम् (६)

कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम्   नडस्तु धमनः पोटगलोथो कोशमस्त्रियाम् इत्यसत् । नलोऽम्बुजे नलं न स्त्री धमनाख्यतृणेऽन्तिमः इति हेमचन्द्रः ॥ स्याद्वीरणं वीरतरं ………………………… तदसत् । वीराङ्को वीरवृक्षः स्यात् वीरणश्चापि वीरकः इति पर्यायरत्नमालायाम् ॥ गिरिका बालमूषिका इति यदुक्तं तन्न सम्यक् । बालमूषीति तस्य पुंस्त्वेन प्रयोगात् । यथा शब्दशब्दार्थमञ्जूषायाम् — गिरिका गैरिका चैव वसुमत्नी महेश्वरी । स्त्रीपुंसयोश्च बालीयमूषिका मूषकश्च सः ॥ इति । उक्तञ्च शब्दरत्ने — गिरिका मूषिका वत्से न क्लिबे गिरिका शिवा  । इति ॥ चटकः कलविङ्कः स्यात् तस्य स्त्री चटका तयोः । पुमपत्ये चाटकैरस्त्वपत्ये ……………चटकैव हि ॥ इति यत्तदसत् । एवमुक्तेः प्रयोजनाभावात् । एतत्प्रकरणेऽप्यनुक्तत्वादुक्तस्यापि निष्फलत्वात् । यद्येवमन्येषामूहितुमिति गिरिका बालमूषिका इत्याद्युक्तेः निष्फलतादिदोषबाहुल्यं स्यात् । तत्र बालमूषिकेऽप्यनुक्तत्वादित्यादिकं विचाररमणीयं विवेकिभिः ॥ कान्तार्थिनी तु या याति संकेतं साभिसारिका इति न समीचिनम् । कान्ताथ संकेतगता कान्तेनापि समागता । स्यात्साभिसारिका नैव न क्लिबे दौत्यजन्तुषु ॥ इति शब्दरत्ने । अत एव महेश्वरदीक्षितोपि बालभागवतेऽप्याह — कान्तं गता कान्तगता रहस्यात्साभिसारिका । इति ।

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.