अमरखण्डनम् (१०)

                                         कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम्   व्रीहिभेदस्त्वणुः पुमान् इति यत्तन्न मनोहरम् । तृणोऽस्त्रि(?)……शुपुटके व्रीहिदुढादिकेऽपि (?)……………..  च ॥ इति शब्दरत्ने । कणः कणं च लेशे स्यात् तृणोऽपि तृणमस्त्रियाम् इति शब्दशब्दार्थमञ्जूषायाम् । कपिशं सस्यमञ्जरी इत्यसत् । कणिशः कण्टकः छन्नः पन्नलः सस्यमञ्जरी इति शब्दशब्दार्थमञ्जर्याम् । कणिशं कणिशश्चैव कणीशी कणिशापि च इति शब्दचन्द्रकियाञ्च ॥           अयोऽग्रं मुसलोऽस्त्री स्यात् इत्यसंगतम् । अयोऽग्रः कुन्तलादौ च मुसलादौ शरादिके इति शब्दरत्ने । अयोऽग्रोऽस्त्री शरादौ च मुसलादौ च संमतः इति लोकाक्षिभट्टश्च । रुक्म कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् इत्यसत् । जाम्बूनदशब्दस्यापि पुँल्लिङ्गस्य सत्त्वात् । यदाहाजयः — लोहाजोष्टापदो हेम जाम्बूनदमयानुकाः । क्लीबेऽप्येते च शब्दाः स्युरिति शास्त्रविदो विदुः ॥ इति शब्दमीमांसायाम् । अत एव शब्दशब्दार्थमञ्जूषायां च — हेम जाम्बूनदपदे पुंसि चाहुर्विशेषकाः  इति । एवमश्मसारमधुछषकादीनां यथायोगं योजनीयं सूक्ष्मधीभिरित्युपरम्यते ।  एवमरनिबन्धनस्याशास्त्रीयत्वमिति सिद्धान्तितम् ॥ इत्थं विपक्षविबुधमस्तकन्यस्तसत्पदा । श्रीहर्षेण कृतं सन्तः पठन्त्वमरखण्डनम् ॥   ॥ इत्यमरखण्डनं श्रीहर्षरचितं समाप्तम् ॥

Author Socials Follow me

This site uses Akismet to reduce spam. Learn how your comment data is processed.