अमरखण्डनम् (३)

                                            कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम्                   स्त्रियां बहुस्वप्सरसः स्वर्वेश्या उर्वशीमुखाः इति यदुक्तं तदयुक्तम् । अप्सरा चाप्यप्सराश्च किञ्चाप्सरस इत्यपि इति मुचिकुन्दभाष्यविवरणे महेन्द्राचार्याः । अत एव भास्कलभाष्येऽपि बहुत्वमप्सरसादीनाम् इतीदं सूचितम् इति शारदातिलकभाष्यविवरणेऽप्यस्मद्गुरवः सङ्घभटाचार्या अप्याहुः । एतदधिकं तत्रैव द्रष्टव्यं सूक्ष्मशेमुषीभिः । तत्सर्वं नोक्तमिति तदज्ञता स्फुटीकृता । नच तत्सोऽर्थ क्त्यैव (?)…..र्गप्रदर्शनमेवं कृतमिति वाच्यम् । तथा चेत् जातिर्जातं च सामान्यम् , स्थलं स्थली इति भणनमेव न स्यात् । तत्रापि तदेवेत्युक्तावापि अनवस्थादोषः । किञ्च विरिञ्चनादिपर्यायाणामेकपर्यायविकारकरणेनैव चारितार्थ्यादन्येषामजागलस्तनता इत्येतावन्तग्रन्थविरोध एव स्फूर्जत्येवेत्यलं शोधितशोधितेन ॥ तमस्तु राहुः स्वर्भानुः सैह्मिकेयो विधुंतुदः इति यत्तदसत् । तम इति शब्दस्य लिङ्गनिश्चयाभावात् । न च तमिस्रं तिमिरं तमः इति वाक्यादत्रापि नपुंसकतैवोपेया । अत एव रजो गुणेऽपि स्त्रीवृष्ये राहोर्वान्ते गुणः तमः इत्यभिधानान्तरम् । अतस्तत्रापि क्लीबतैवेत्युच्यत इति वाच्यम् । तर्हि पूः स्त्री पुरीनगर्यौ वा इत्यस्य व्यर्थतैव , पुरमित्युत्तरानुशासनात् । आस्तामेतत् । यदि रूपभेदेनोच्यते इत्युच्यमाने पुंस्त्वं तदा रजो गुणेऽपि इति कोशविरोधः । किञ्च तव मते पुंस्त्वानुशासनाभावाद् अगत्या क्लीबतैवेति सिद्धम् ।

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.