पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१२)

अथासां निरोधे क उपाय इति । 

अभ्यासवैराग्याभ्यां तन्निरोधः ॥१२॥ 
व्यासभाष्यम् 
चित्तनदी नामोभयतो वाहिनी वहति कल्याणय  वहति पापय च । या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा । संसारप्राग्भाराऽविवेकविषयनिम्ना पापवहा । तत्र वैराग्येण विषयस्रोतः खिलीक्रियते , विवेकदर्शनाभ्यासेन विवेकस्रोत्र उद्धाट्यत इत्युभयाघीनश्चित्तवृत्तिनिरोधः ॥१२॥ 
तत्त्ववैशारदी 
निरोधोपायं पृच्छति – अथेति ।
सूत्रेणोत्तरमाह – अभ्यासवैराग्याभ्यां तन्निरोधः ।
अभ्यासवैराग्योर्निरोधे जनयितव्येऽवान्तरव्यापारभेदेन समुच्चयः , न तु विकल्प इत्याह – चित्तनदीति । प्राग्भारः प्रबन्धः । निम्नता गम्भीरता अगाधतेति यावत् ॥१२॥

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.