पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/८)


विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥८॥
 व्यासभाष्यम्

स कस्मान्न प्रमाणम् । यतः प्रमाणेन बाध्यते , भूतार्थविषयत्वात्प्रमाणस्य । तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम् । तद्यथा – द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति ।
सेयं पञ्चपर्वा भवत्वविद्या । अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति । ए(अ)त एव स्वसञ्ज्ञाभिस्तमो मोहो महामोस्तामिस्रोऽन्धतामिस्र इति । ऐत चित्तमलप्रसङ्गेनाभिधास्यन्ते ॥८॥

 

तत्त्ववैशारदी
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् । विपर्यय इति लक्ष्यनिर्देशः । मिथ्याज्ञानमित्यादि लक्षणम् । यज्ज्ञानप्रतिभासिरूपं , तद्रूपाप्रतिष्ठमेवातद्रूपप्रतिष्ठम् । यथाऽश्राद्धभोजीति । अतः संशयोऽपि सङ्गृहीतः । एतावांस्तु विशेषः – तत्र ज्ञानारूढैवाप्रतिष्ठता , द्विचन्द्रादेस्तु बाधज्ञानेन ।
नन्वेवं विकल्पोऽपि तद्रूपाप्रातिष्ठानाद्विचारतो विपर्ययः प्रसज्येतेति ।
अत आह – मिथ्याज्ञानमिति । अनेन हि सर्वजनीनानुभवसिद्धो बाध उक्तः । स चास्ति विर्पयये न तु विकल्पे , तेन व्यवहारात् । पण्डितरूपाणामेव तु विचारयतां तत्र बाधबुद्धेरिति ।
चोदयति — स कस्मान्न प्रमाणम् । नोत्तरेणोपजातविरोधिना ज्ञानेन पूर्वं बाधनीयमपि तु पूर्वेणैव प्रथममुपजातेनानुपजातविरोधिना परमिति भावः ।
परिहरति – यतः प्रमाणेनेति । यत्र हि पूर्वापेक्षा परोत्पत्तिस्तत्रैवम् । इह तु स्वस्वकारणादन्योन्यानपेक्षे ज्ञाने जायेते । तेनोत्तरस्य पूर्वमनुपमृद्योदयमनासादयतस्तदपबाधात्मैवोदयो न तु पूर्वस्योत्तरबाधात्मा , तस्य तदानीमप्रसक्तेः । तस्मादनुपजातविरोधिता बाध्यत्वे हेतुः , उपजातिविरोधिता च बाधकत्वे । तस्माद् भूतार्थविषयत्वात्प्रमाणेनाप्रमाणस्य बाधनं सिद्धम् । उदाहरणमाह – तत्र प्रमाणनेति ।
अस्य कुत्सितत्वं हानाय दर्शयति – सेयं पञ्चेति । अविद्यासामान्यमविद्यास्मितादिषु पञ्चसु पर्वस्वित्यर्थः । अव्यक्तमहदहङ्कारपञ्चतन्मात्रेष्वष्टस्वनात्मस्वात्मबुद्धिरविद्या तमः । एवं योगिनामष्टस्वणिमादिकेष्वैश्वर्येष्वश्रेयःसु श्रेयोबुद्धिरष्टविधो मोहः पूर्वस्माज्जघन्य , स चास्मितोच्यते । तथा योगेनाष्टविधमैश्वर्यमुपादाय सिद्धो भूत्वा दृष्टानुश्रविकान् शब्दादीन्दशविषयान्मोक्ष इत्येवमात्मिका प्रतिपत्तिर्महामोहो रागः । एवमेतेनैवाभिसन्धिना प्रवर्तमानस्य केनचित्प्रतिबद्धत्वादणिमादीनामनुत्पत्तौ तन्निबन्धनस्य दृष्टानुश्रविकविषयोपभोगस्यासिद्धेः प्रतिबन्धकविषयः क्रोधः स तामिस्राख्यो द्वेषः । एवमणिमादिगुणसम्पत्तौ दृष्टानुश्रविकविषयप्रत्युपस्थाने च कल्पान्ते सर्वमेतन्नक्ष्यतीति यस्त्रासः सोऽभिनिवेशोऽन्धतामिस्त्रः । तदुक्तम् –
‘भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः । तामिस्त्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः’ ॥( साङ्ख्यकारिका ४८ )
इति ॥८॥

Author Socials Follow me

This site uses Akismet to reduce spam. Learn how your comment data is processed.