पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/९)

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥९॥ 

व्यासभाष्यम् 
स न प्रमाणोपारोही न विपर्ययोपारोही च । वस्तुशून्यत्वेऽपि शब्दज्ञानमहात्म्यनिबन्धनो व्यवहारो दृश्यते ।
तद्यथा – चैतन्यं पुरुषस्य स्वरूपमिति । यदा चितिरेव(चिदेव) पुरुषस्तदा किमत्र केन व्यवदिश्यते । भवति च व्यपदेशे वृत्तिः । यथा – चैत्रस्य गौरिति । तथा – प्रतिषिद्धवस्तुधर्मो निष्क्रियः पुरुषः , तिष्ठति बाणः , स्थास्यति , स्थित इति । गतिनिवृत्तौ धात्वर्थमात्रं गम्यते । तथा अनुत्पत्तिधर्मा पुरुष इति उत्पत्तिधर्मस्याभावमात्रमवगम्यते , न पुरुषान्वी धर्मः । तस्माद्विकल्पितः स धर्मः , तेन चास्ति व्यवहार इति ।। ९ ।। 
तत्त्ववैशारदी 
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ।
ननु शब्दज्ञानानुपाती चेदागमप्रमाणान्तर्गतो विकल्पः प्रसज्येत , निर्वस्तुकत्वे वा विपर्ययः स्यादिति । अत आह – स नेति । स न प्रमाणान्तर्गतो विपर्ययान्तर्गतो वा । कस्मात् । यतो वस्तुशून्यत्वेऽपीति प्रमाणान्तर्गतिं निषेधति , शब्दाज्ञानमहात्म्यनिबन्धन इति विपर्ययान्तर्गतिम् ।
एतदुक्तं भवति – क्वचिदभेदे भेदमारोपयति , क्वचित्पुनर्भिन्नानामभेदम् । ततो भेदस्याभेदस्य च वस्तुतोऽभावात्तदाभासो विकल्पो न प्रमाण , नापि विपर्ययः , व्यवहाराविसंवादादिति ।
शास्त्रप्रसिद्धमुदाहरणमाह – तद्यथेति । किं विशेष्यं केन व्यवपदिश्यते विशेष्यते । नाभेदे विशेष्यविशेषणभावः , न हि गवा गौर्विशेष्यते , किन्तु भिन्नेनैव चैत्रेण । तदिदमाह – भवति च व्यपदेशे वृत्तिः । व्यपदेशव्यपदेश्य(व्यपदेश्यव्यपदेशक)योर्भावो व्यपदेशः , विशेषणविशेष्यभाव इति यावत् , तस्मिन्वृत्तिर्वाक्यस्य , यथा – चैत्रस्य गौरिति । शास्त्रीयमेवोदाहरणान्तरं समुच्चिनोति – तथेति । प्रतिषिद्धो वस्तुनः पृथिव्यादेर्धर्मः परिस्पन्दो यस्य स तथोक्तः । कौऽसौ ? निष्क्रियः पुरुषः । न खुल साङ्ख्यीये राद्धान्तेऽभावो नाम कश्चिदस्ति वस्तुधर्मो येन पुरुषो विशेष्येतेत्यर्थः । क्वचित्पाठः प्रतिषिद्धा वस्तुधर्मा इति । तस्यार्थः –– प्रतिषेधव्याप्ताः प्रतिषिद्धाः । न वस्तुधर्मा तद्व्याप्यता , भावाभावयोरसम्बन्धात् , अथ च तथा प्रतीतिरिति । लौकिकमुदाहरणमाह – तिष्ठति बाण इति । यथा हि पचति , भिनत्तीत्यत्र पूर्वापरीभूतः कर्मक्षणप्रचय एकफलावच्छिन्नः प्रतीयत एवं तिष्ठतीत्यत्रापि । पूर्वापरीभावमेवाह – स्थास्यति स्थित इति ।
ननु भवतु पाकवत्पूर्वापरीभूतयाऽवस्थानक्रियया बाणाद्भिन्नया बाणस्य व्यपदेश इत्यत आह – गतिनिवृत्तौ धात्वर्थमात्रं गम्यते । गतिनिवृत्तिरेव तावत्कल्पिता , तस्या अपि भावरूप(व)त्त्वम् , तत्रापि पूर्वापरीभाव इत्यहो कल्पनापरम्परेत्यर्थः । अभावः कल्पितो भाव इव चानुगत इव च सर्वपुरुषेषु गम्यते , न पुनः पुरुषव्यतिरिक्तो धर्मः कश्चिदित्युदाहारणान्तरमाह – तथानुत्पत्तिधर्मेति ।
प्रमाणविपर्ययाभ्यामन्या न विकल्पवृत्तिरिति वादिनो बहवः प्रतिपेदिरे । तत्प्रतिबोधनायोदाहरणप्रपञ्च इति मन्तव्यम् ॥९॥

Author Socials Follow me

This site uses Akismet to reduce spam. Learn how your comment data is processed.