श्रीपुरुषोत्तमदेवप्रणीतः कोशः बुको बकश्च कुसुमे मदनो मलयो द्रुमे । आराग्वधारग्वधौ च खुरकक्षुरकावपि ॥२७॥ पृष्णिः पृश्निश्च सरयूः सरयुश्च निगद्यते । नीलङ्गुरपि नीलाङ्गुरीश्वरी चेश्वरापि च ॥२८॥ तापिच्छमपि तापिञ्जं त्रपुषं त्रापुषं तथा । डिण्डिरोऽपि च डिण्डीरः परशुं पर्शुना सह ॥२९॥ वालुका बालिका चापि दोर्दोषापि भुजा भुजः । बाहुर्बाहा तृषा तृष्णा सन्ध्या स्यात्सन्धिना सह ॥३०॥ भगिनीमपि च भग्नीं च झल्लरीं जल्लरीं विदुः । वेत्रं वेतसा सार्धम् एधमाहुस्तथैधसा ॥३१॥ संवलनं संवरणं तलुनी तरुणी तथा । प्रमदावनं प्रमदवनं प्रवणं परिकीर्तितम् ॥३२॥ खरूलिका खुरलिका वज्रं वज्रोऽशनिस्तथा । शिलमुच्छं शिलोञ्छं च भवेदुच्छशिलं तथा ॥३३॥ आशिराश्या हि दंष्ट्रायां लक्ष्मीर्लक्ष्मी हरेः प्रिया । कुमुदं कुमुदश्चापि योषित्स्याद् योषिता सह ॥३४॥ तमस्तु तमसा प्रोक्तं रजसापि रजः समम् । जलूकास्तु जलौकाभिः कथिताऽयं जलौकसः ॥३५॥ दिवा दिवं च कथितं पर्ष स्यात् पर्षदा सह । वर्षाः स्युर् वरिषाभिस्तु हविषापि हविस्तथा ॥३६॥ सर्षपः स्यात् सरिषपः कर्षः स्यात्करिषेण सह । मारिषो मर्ष इत्युक्तः परशुः पर्श एव च ॥३७॥ हारितो हरितोऽपि स्यान्मुनिपक्षिविशेषयोः । तुवरस्तूवरोपि स्यात्कुवटः कूवटस्तथा ॥३८॥ उत्तमोऽनुत्तमोऽपि स्यादाहतं स्यादनाहतम् । उदारे चानुदारः स्यादुदग्रे चानुदग्रवत् ॥३९॥ कोङ्कोणः कोङ्कणश्चापि मिहिरो महिरस्तथा । महिलायां महेलाऽपि महला स्यान्महेलिका ॥४०॥ छेदश्छेकश्च छेकालो विदग्धे छेकिलोऽपि च । गूगुलो गुग्गुलोऽपि स्याद्धिङ्गूले चापि हिङ्गुलम् ॥४१॥ मन्दिरे मन्दिरापि स्याद्वीर्ये विर्यापि कथ्यते । भुक्तेऽप्यवालं चाबालमुदके स्यादुदंसमम् ॥४२॥ कुष्टभेदे शतरुषः शतारुश्च निगद्यते । द्रेक्कद्रेकाणद्रक्काणा भवन्त्यपि दृकाणवत् ॥४३॥ पत्राङ्कमपि पत्राङ्के कुछालश्च कुदालवत् । मारुषं मारिषं शाके प्रीहा प्लिहा गदेऽपि च ॥४४॥ फेणा फेणिस्तथाब्ध्यादौ करिण्यां कारिणीति च । धरित्री धारयित्री च तरीषी तारीषी तथा ॥४५॥ कन्याकुब्जं कान्यकुब्जं कोशलोऽन्तरकोशला । वाराणसीत्यपि प्रोक्ता वारणासीतिवत्तथा ॥४६॥ ताम्रलिप्तादामलिप्ता तुङ्गोऽप्युत्तुङ्ग इत्यपि । अन्तस्थीयवकारश्च पवनस्य तु कथ्यते ॥४७॥ तन्त्रवायस्य वायोऽपि तन्त्रादित्वं च दृश्यते । एवमन्येऽपि चार्हादावूह्या वर्णप्रयोगतः ॥४८॥ मूर्धरेफादयो ज्ञेयाः छन्दोभङ्भयादिह । छन्दावभिप्रायवशौ कलजः स्यात् कलाजवत् ॥४९॥ ह्रस्वादिरपि पीडायां धनुः कोट्यामपीष्यते । एतौ मध्यमवर्गीयौ वैडूर्यमणिशाद्वलौ ॥५०॥ तालव्यमध्यो विशद ऊर्ध्वशब्दो वकारवान् । यावन्यां च भवन्यां च श्रावणे मासि मध्यवः ॥५१॥ शफे खुरं कवर्गीयं क्षकारश्च क्षुरप्रके । नापितस्योपकरणे कषसंयोग इष्यते ॥५२॥ अव्ययान्यव्ययं शत्रौ दोषाशब्दः प्रचक्षते । प्रायो भवेयुः प्रचुरः प्रयोगाः प्रामाणिकोदाहरणे प्रतीताः । रूपादिभेदेषु विचारणेषु विचक्षणो निश्चयतामुपैति ॥५३॥ क्वचित्मात्राकृतो भेदः क्वचिद्वर्णकृतोऽत्र च । क्वचिदर्थान्तरोल्लेखाच्छब्दानां रूढितः क्वचित् ॥५४॥ जागर्ति यस्यैषः मनःसरोजे स एव शब्दार्थविवर्तनेशः । निजप्रयोगार्पितकामचारः परप्रयोगार्थविशारदः ॥५५॥ ॥ इति पुरुषोत्तमदेवकृतः शब्दभेदप्रकाशः समाप्तः ॥
शब्दभेदप्रकाशः (१)
श्रीपुरुषोत्तमदेवप्रणीतः कोशः श्रीगणेशाय नमः प्रबोधमाधातुमशाब्दिकानां कृपामुपेत्याविशतां कवीनाम् । कृतो मया रूपमवाप्य शब्द- भेदप्रकाशोऽखिलवाङ्मयार्थः ॥१॥ विन्द्यादगारमागारमपगामापगामपि । अरातिमारातिमथो अम आमः प्रकीर्तितः ॥२॥ भवेदमर्ष आमर्षोऽप्यङ्कुरोऽप्यङ्कूर एव च । अन्तरिक्षमन्तरीक्षमगस्त्योऽगस्तिरेव च ॥३॥ अटरुशश्चाटरूषोप्यवस्योऽवश्य एव च । प्रतिश्यायः प्रतीश्यायो भल्लूको भल्लुकोऽपि च ॥४॥ उल्मूकमुल्मुं प्राहुः शम्बूकमपि शम्बुकम् । जतुका स्याज्जतूकापि मयूरो मयुरो मतः ॥५॥ वास्तुकं चापि वास्तूकं देवकी दैवकीति च । ज्योतिषं ज्यौतिषञ्चापि ष्ठेवनं ष्ठीवनं तथा ॥६॥ सूत्रामापि च सुत्रामा हनुमान् हनूमान्नपि । दुषणं स्याद्दूषणं च भवदुषरमूषरम् ॥७॥ बन्धूरं बन्धुरं च स्यादूरीकृतमुरीकृतम् । बह्लीकं बह्लिकञ्चापि गाण्डीवं गाण्डिवं तथा ॥८॥ उषाप्यूषा ननन्दा च ननान्दापि प्रकीर्तिता । चाण्डालोऽपि च चण्डालो वादान्योऽपि वदान्यवत् ॥९॥ हालाहलं हालहलं वदन्त्यपि हलाहलम् । हल्लालं च हलालं च हाहलं च प्रचक्षते ॥१०॥ प्रक्वाण प्रक्वणश्चापि श्यामाकः श्यामकोऽपि च । साहचरः सहचरः स्फाटिकं स्फटिकं तथा ॥११॥ गन्धर्वोऽपि च गान्धर्वश्चमरश्चामस्तथा । चोरश्चौरश्चटुश्चाटुश्चोलं चेलं चमुश्चमूः ॥१२॥ चञ्चुश्चञ्चूस्तलस्तालः श्यामलः स्यामलस्तथा । धान्याकमपि धन्याकं युतकं यौतकं तथा ॥१३॥ कवाटञ्च कपाटञ्च कविलं कपिलं तथा । करवालः करःपालोऽवनीकवनीयकौ ॥१४॥ पारावतः पारवतो जरा स्याज्जरसा सह । जटायुषा जटायुश्च विन्द्यादायुस्तथायुषा ॥१५॥ सायं सायो भवेत्कोशः कोषः शण्डश्च षण्डवत् । भाविकं भविकं चापि मुषलं मुसलं तथा ॥१६॥ वेशो वेषश्व कथितो बुषोऽपि स्याद्बुसस्तथा । स्याद्धनुर्धनुषा सार्धं जरसा च जरां विदुः ॥१७॥ सूकरः शूकरोऽपि स्यात्सृगालश्शृगालवत् । सूरः शूरश्च कथितः कलसः कलशोऽपि च ॥१८॥ तनुश्च तनुषा सार्धं धनुना च धनुर्विदुः । सुनासीरः शुनासीरो नारायणनरायणौ ॥१९॥ यातुधानो जातुधानो लक्षणो लक्ष्मणोऽपि च । श्वशुरः स्वसुरोऽपि स्याच्चरित्रं चरितं तथा ॥२०॥ पारदं पारतं वासा वासकः कृमिणा कृमिः । त्रिफला त्रिफलं चापि कृसरा कृशरापि च ॥२१॥ भवेद्वृष्टिस्तथा विष्टिः प्रियालः स्यात्पियालवत् । कलाटीनः कटाटीनो बलिशो बडिशोऽपि च ॥२२॥ संकरः शंकरोऽपि स्यान्नद्गलो मुद्गलोऽपि च । मुद्गरो मूद्गरश्चापि मकुटं मुकुटं त्विह ॥२३॥ सुकृतं सूकृतं चापि चुलुकं चूलुकं तथा । करञ्जः करजोऽपि स्यात्परेतः प्रेत उच्यते ॥२४॥ किर्मीरोऽपि च कर्मीरो हायनं हयनं स्मृतम् । शोण्डीयमपि शौण्डीरं ज्येष्ठे ज्यैठोऽपि दृश्यते ॥२५॥ सौदाम्नी च सुदाम्नी च सौदामन्यपि दृश्यते । जरठो जठरोऽपि स्यान्निमेषो निमिषोऽपि च ॥२६॥