लिङ्गशरीरमाश्रित्य तिष्ठत इत्युक्ते , लिङ्गशरीरभङ्गः
कदेति
पृच्छति –
अर्जुन उवाच –
स्थावरजङ्गमात्मकं सचराचरं चराचरसहितं
जगज्जालं सर्वस्मिन् ये जीवाः अभिमानवन्तः
स्थूलदेहाभिमानिनो
विश्वात्मका जीवाः जीवेन लिङ्गशरीराभिमानिना तैजसेन
सिध्यन्ति विश्वाभिमानं त्यजन्ति। स जीवः तैजसाभिमानी केन
हेतुना सिध्यति स्वाभिमानं त्यजतीति प्रश्नार्थः॥४७॥
एवं पृष्टे सति प्राज्ञेन तैजसः सिध्यति ,
प्राज्ञस्तुरीयेणेत्येवं क्रमेण सिध्यतीत्युत्तरमाह –
श्रीभगवानुवाच –
मुखनासिकयोर्मध्ये मुखनासिकामध्यतः सदा सर्वदा
यावददृष्टं प्राणवायुः सञ्चरते अजपामन्त्रात्मकत्वेन
एकैकस्य दिनस्य षट्शताधिकैकविंशतिसहस्रसङ्ख्यया
संचरति , तावत्पर्यन्तमदृष्टमहिम्ना लिङ्गमपि वर्तते।
यदा तु योगमहिम्ना ब्रह्मज्ञानानन्तरं जीवस्यादृष्टनिवृत्तिः , तदा आकाशः जीवत्वनिमित्तं प्राणं पिबते , तदा
जीवः केन जीवति जीवत्वापादकाविद्यानिवृत्त्या
निरञ्जनब्रह्मभावे जाते जीवत्वमेव नास्तीत्यर्थः॥४८॥
ननु ब्रह्माण्डाद्युपाधिविशिष्टस्य सर्वगतस्य ब्रह्मणः
कथं निरञ्जनत्वमिति पृच्छति –
अर्जुन उवाच –
हे भगवन् ! व्योम आकाशं ब्रह्माण्डव्यापितं
ब्रह्माण्डावच्छिन्नमित्यर्थः । व्योम्ना च आकाशेन जगत् आवेष्टितं
व्याप्तम् , तस्मात्कारणात् अन्तर्बहिश्च व्योमैव वर्तते ,
एवं सति देवः ईश्वरः कथं निरञ्जनः अन्यप्रकाशनिरपेक्षः
कथमित्यर्थः॥४९॥
आकाशादिसर्वप्रपञ्चस्य कल्पितत्वेन सर्वं
सेत्स्यतीत्यभिप्रायेणाह –
श्रीभगवानुवाच –
आकाशः महाकाशः अवकाशः परिच्छिन्नाकाशः
उभयमप्याकाशेन आकाशतन्मात्रभूतेन शब्देन
व्यापितं व्याप्तं तदुपादनकतया तदतिरिक्तं न
भवतीत्यर्थः। तर्हि उपादानस्य शब्दस्य
अतिरिक्तत्वमस्त्वित्यत आह –
आकाशस्य गुणः शब्द इति , शब्दः तन्मात्रभूत आकाशस्य
मिथ्याभूताकाशस्य गुणः परिणाम्युपादानं यतः , अत एव स्वयमपि
मिथ्याभूत इत्यर्थः। ब्रह्म तु निःशब्दः निष्प्रपञ्चः
इत्युच्यते। तथा च सत्यस्याक्षरस्य ब्रह्मणः असत्येन सह
सम्बन्धासम्भवात् निरञ्जनत्वमुपपद्यत इत्यर्थः॥५०॥
एवं भगवतोक्ते अक्षरशब्दस्य भगवदभिमतार्थम्
अजानानः सन् लोकप्रसिद्धवर्णात्मकाक्षरबुद्ध्या
वर्णानामक्षरत्वं न सम्भवतीत्यभिप्रायेण पृच्छति –
अर्जुन उवाच –
हे भगवन् ! यत्र वर्णात्मकाक्षरेषु दन्तोष्ठतालुजिह्वानाम् , उपलक्षणेमेतत् कण्ठादीनामष्टानां
स्थानानाम् , आस्पदम् आस्पदत्वं दृश्यते प्रत्यक्षमनुभूयते । ‘अकुहविसर्जनीयानां कण्ठः ‘ इत्यादिना
श्रूयते च। तथा च तेषां वर्णानाम् अक्षरत्वं नाशरहितत्वं कुतः ? उत्पत्तिमतो नाशावश्यम्भावात् । सदा
सर्वकालं क्षरत्वं नाशवत्त्वमेव वर्तते तेषाम् , नाशरहितत्वं कुत इति प्रश्नार्थः॥५१॥
एवमभिप्रायमजानानेन अर्जुनेन पृष्ठे स्वाभिप्रेतमक्षरशब्दार्थं स्फुटयन् भगवानुवाच –
श्रीभगवानुवाच –
तदक्षरं न क्षरते कथंचित्॥५२॥
अघोषं घोषाख्यवर्णगुणरहितम् अव्यञ्जनं
ककारादिव्यञ्जनातीतम् अस्वरम् अजतीतम् , अतालुकण्ठोष्ठमपि अज्व्यञ्जनाद्युत्पत्तिस्थानताल्वोष्ठादिरहितम्
अनासिकम् अनुस्वारोत्पातिस्थाननासिकातीतम् अरेखजातं
वर्णव्यञ्जकरेखासमूहातीतम् ऊष्मवर्जितं शषसहातीतम् , यद्वा , ऊष्मशब्देन श्वासाख्यो गुणोऽभिधीयते
तद्रहितम् , परं लोकप्रसिद्धवर्णलक्षणातीतं यत् ब्रह्म
कथञ्चित् सर्वप्रकारेण सर्वकालेऽपि न क्षरते ,
तदेवाक्षरशब्देनोच्यते। न लौकिकान्यक्षराणीत्यर्थः॥५२॥
एतादृशं ब्रह्मज्ञानोपायम् अनुभवदार्ढ्याय
पुनरपि पृच्छति –
अर्जुन उवाच –
सर्वभूताधिवासितं सर्वभूतेष्वप्यन्तर्यामितया
स्थितं
सर्वगतम् अन्तर्बहिश्च परिपूर्णं ब्रह्म ज्ञात्वा सम्यग्विबुध्य योगिनः इन्द्रियाणां निरोधेन इन्द्रियनियमनेन कथं
सिध्यन्ति केनोपायेन मुक्ता भवन्तीत्यर्थः॥
एवं पृष्टो भगवान् तमेव ज्ञानोपायं पुनरप्याह –
श्रीभगवानुवाच –
मानवाः मनुष्या इन्द्रियाणां निरोधेन इन्द्रियनियमनेन
देहे देहे एव पश्यन्ति ज्ञास्यन्ति , तस्मात् देहदार्ढ्यम् इन्द्रियदार्ढ्यं च
ज्ञानोपाय इति भावः। तदभावे ज्ञानमेव नास्ति इत्याह –
देहे नष्टे अदृष्टे सति बुद्धिः कुतः तत्त्वज्ञानं कुतः ?
तस्माद्देहेन्द्रियादिभिः यज्ञदानादिश्रवणादिकमेव तत्त्वज्ञाने
कारणमिति भावः॥५४॥
तादृशं च कारणं
यावत्पर्यन्तमनुष्ठेयमित्याशङ्क्य
अवधिमाह –
यावत्तत्त्वज्ञानं नास्ति
तावत्पर्यन्तमिन्द्रियनिरोधः स्यात् ;
परे तत्त्वे अखण्डानन्दब्रह्मणि विदिते अपरोक्षभूते सति ,
एकमेवानुपश्यति एकमेव देहेन्द्रियसाधनानुष्ठानादिसाधनरहितं ब्रह्मैवानुपश्यति , नान्यत् ; तदनन्तरं साधनानुष्ठाप्रयासोऽपि मा भूदिति भावः॥५५॥