पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/२१)

ते खलु नव योगिनो (भवन्ति) मृदुमध्याधिमात्रोपाया भवन्ति । तद् यथा – मृदूपायः, मध्योपायः, अधिमात्रोपाय इति । तत्र मृदूपायोऽपि त्रिविधो मृदुसंवेगः, मध्यसंवेगः, तीव्रसंवेग इति । तथा मध्योपायस्तथाऽधिमात्रोपाय इति । तत्राधिमात्रोपायानाम् – 
तीव्रसंवेगानामासन्नः ॥२१॥ 

व्यासभाष्यम् 
समाधिलाभः समाधिफलं च भवतीति ॥२१॥ 

तत्त्ववैशारदी 
ननु श्रद्धाऽऽदयश्चेद् योगोपायास्तर्हि सर्वेषामविशेषेण समाधितत्फले स्याताम् । दृश्यते तु कस्यचित्सिद्धिः, कस्यचिदसिद्धिः, कस्यचिच्चरेण सिद्धिः, कस्य चिच्चिरतरेण सिद्धिः, कस्यचित् क्षिप्रमिति ।
अत आह – ते खलु नवयोगिन इति । उपायाः श्रद्धाऽऽदयो मृदुमध्याधिमात्राः प्राग्भवीयसंस्कारादृष्टवशाद् येषां ते तथोक्ताः । संवेगः वैराग्यम् । तस्यापि मृदुमध्यतीव्रता प्राग्भवीयवासनाऽदृष्टवशादेवेति । तेषु यादृशां क्षेपीयसी सिद्धिस्तान् दर्शयति सूत्रेण – तीव्रसंवेगानामासन्न इति सूत्रम् । शेषं भाष्यम् । समाधेः सम्प्रज्ञातस्य फलमसम्प्रज्ञातस्तस्यापि कैवल्यम् ॥२१॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/२०)

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥ 

व्यासभाष्यम् 
उपायप्रत्ययो योगिनां भवति । श्रद्धा चेतसः सम्प्रसादः । सा हि जननीव कल्याणी योगिनं पाति । तस्य हि श्रद्दधानस्य विवेकार्थिनो वीर्यमुपजायते । समुपजातवीर्यस्य स्मृतिरूपतिष्ठते । स्मृत्युपस्थाने च चित्तमनाकुलं समाधीयते । समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते, येन यथा(र्थं/वद्) वस्तु जानाति । तदभ्यासात् (तत्)तद्विषयाच्च वैराग्यादसम्प्रज्ञातः समाधिर्भवति ॥ २० ॥ 
तत्त्ववैशारदी 
योगिनां तु समाधेरुपायक्रममाह – श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् । नन्विन्द्रियादिचिन्तका अपि श्रद्धावन्त एवेत्यत आह – श्रद्धा चेतसः सम्प्रसादः । स चागमानुमानाचार्योपदेशसमधिगततत्त्वविषयो भवति हि चेतसः सम्प्रसादोऽभिरुचिरतीच्छा श्रद्धा, नेन्द्रियादिष्वात्माभिमानिनामभिरुचिरसम्प्रसादो हि सः व्यामोहमूलत्वादित्यर्थः । कुतोऽसावेव श्रद्धेत्यत आह – सा हि जनवीव कल्याणी योगिनं पाति विमार्गपातजन्मतोऽनर्थात् । सोऽयमिच्छाविशेष इष्यमाणविषयं प्रयत्नं प्रसूत इत्याह – तस्य हि श्रद्दधानस्य । तस्य विवरणम् – विवेकार्थिनो वीर्यमुपजायते । स्मृतिर्ध्यानम्, अनाकुलमविक्षिप्तम्, समाधीयते = योगाङ्गसमाधियुक्तं भवति । यमनियमादिनान्तरीयकसमाध्युपन्यासेन च यमनियमादयोऽपि सूचिताः । तदेवमखिलयोगाङ्गसम्पन्नस्य सम्प्रज्ञातो जायत इत्याह – समाहितचित्तस्येति । प्राज्ञाया विवेकः = प्रकर्ष उपजायते । सम्प्रज्ञातपूर्वमसम्प्रज्ञातोत्पादमाह – तदभ्यासात् तत्रैव तत्तद्भूमिप्राप्तौ तत्तद्विषयाच्च वैराग्यादसम्प्रज्ञातः समाधिर्भवति । स हि कैवल्यहेतुः । सत्त्वपुरुषान्यताख्यातिपूर्वो हि निरोधश्चित्तमखिलकार्यकरणेन चरितार्थमधिकारादवसादयति ॥२०॥

पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१९)

स खल्वयं द्विविधः – उपायप्रत्ययो भवप्रत्ययश्च । तत्रोपायप्रत्ययो योगिनां भवति –
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥१९॥ 

व्यासभाष्यम् 
विदेहानां देवानां भवप्रत्ययः । ते हि स्वसंस्कारमात्रोप(योगेन/गतेन) चित्तेन कैवल्यपदमिवानुभवन्तः स्वसंस्कारविपाकं तथाजातीयकमतिवाहयन्ति । तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिकारवशाच्चित्तमिति ॥१९॥ 
तत्त्ववैशारदी 
निरोधसमाधेरवान्तरभेदं हानोपादानाङ्गमार्शयति – स खल्वयं निरोधसमाधिर्द्विविधः उपायप्रत्ययो भवप्रत्ययश्च । उपायो वक्ष्यमाणः श्रद्धादिः प्रत्ययः कारणं यस्य निरोधसमाधेः स तथोक्तः । भवन्ति जायन्तेऽस्यां जन्तव इति भवोऽविद्या भूतेन्द्रियेषु वा विकारेषु प्रकृतिषु वाऽव्यक्तमहदहङ्कारपञ्चतन्मात्रेष्वनात्मस्वात्मख्यातिस्तौष्टिकानां वैराग्यसम्पन्नानाम् । स खल्वयं भवः प्रत्ययः कारणं यस्य निरधेसमाधेः स भवप्रत्ययः ।
तत्र तर्योमध्ये उपायप्रयत्यो योगिनां मोक्षमाणानां भवति । विशेषविधानेन शेषस्य मुमुक्षुसम्बन्धं निषेधति । केषां तर्हि भवप्रत्यय इत्यत्र सूत्रेणोत्तरमाह – भवप्रत्ययो विदेहप्रकृतिलयानाम् । विदेहाश्च प्रकृतिलयाश्च तेषामित्यर्थः । तद्व्याचष्टे – विदेहानां देवानां भवप्रत्ययः । भूतेन्द्रियाणमन्यतम(मा/दा)त्मत्वेन प्रतिपन्नास्तदुपासनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरमिन्द्रियेषु भूतेषु वा लीनाः संस्कारमात्रावशेषमनसः षाट्कौशिकशरीररहिता विदेहाः । ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपदमिवानुभवन्तः प्राप्नुवन्तो विदेहाः ।
अवृत्तिकत्वं च कैवल्येन सारूप्यम्, साधिकारसंस्कारशेषता च वैरूपयम् । संस्कारमात्रोपभोगेनेति क्वचित्पाठः । तस्यार्थः – संस्कारमात्रमेवोपभोगो यस्य न तु चित्तवृत्तिरित्यर्थः । प्राप्तावधयः स्वसंस्कारविपाकं तथा जातीयकमतिवाहयन्ति अतिक्रामन्ति, पुनरपि संसारे विशन्ति । तथा च वायुप्रोक्तम् –
दश मन्वन्तराणीह तिष्ठन्तीद्रियचिन्तकाः । 
……………..भौतिकास्तु शतं पूर्णम् । इति ।
तथा प्रकृतिलयाश्चाव्यक्तमहदहंकारपञ्चतन्मात्रेष्वन्यतम(मा/दा)त्मत्वेन प्रतिपन्नास्तदुपासनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरमव्यक्तादीनामन्यतमस्मिँल्ली(मे ली)नाः साधिकारेऽचरितार्थे । एवं हि चरितार्थं चेतः स्याद्यदि विवेकख्यातिमपि जनयेदजनितसत्त्वपुरुषान्यताख्यातेस्तु चेतसोऽचरितार्थस्यास्ति साधिकारतेति । साधिकारे चेतसि प्रकृ(तौ/ति०)लीने कैल्यपदमिवानुभवन्ति यावन्न पुनरावर्ततेऽधिकारवशाच्चित्तमिति । प्रकृतिसाम्यमुपगतमप्यवधिं प्राप्य पुनरपि प्रादुर्भवति ततो विविच्यते । यथा वर्षातिपाते मृद्भावमुपगतो मण्डूकदेहः पुनरम्भोदवारिधारावसेकान्मण्डूकदेहभावमनुभवतीति । तथा च वायुप्रोक्तम्–
…………….. सहस्रं त्वाभिमानिकाः । 
बौद्धा दशसहस्राणि तिष्ठिन्ति विगतज्वराः ॥ 
पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः । 
पुरुषं निर्गुणं प्राप्य कालसङ्ख्या न विद्यते ॥ इति ।
तदस्यपुनर्भवप्राप्तिहेतुतया हेयत्वं सिद्धम् ॥१९॥