एतदेव दार्ष्टान्तिके सर्वं स्पष्टमुपपादयति –
तथा पूर्वोक्ततैलादिवत् सर्वगतः सर्वव्यापी देही
जीवः देहमध्ये नानाभिन्नतिर्यग्देहादिदेहमध्ये व्यवस्थितः
नानाभिन्नतिलेषु तैलवद् एकत्वेन स्थित इत्यर्थः। देहिनां
तत्तद्देहभेदेन भिन्नानां जीवानां मनस्थः तत्तदन्तःकरणस्थः देवः ईश्वरः मनोमध्ये
तत्तद्दुष्टादुष्टान्तःकरणेषु
व्यवस्थितः साक्षितया भासत इत्यर्थः॥३१॥
तादृशब्रह्मापरोक्ष्येण मुच्यन्त इत्याह –
मनस्थं मनोऽवच्छिन्नं मनमध्यस्थं मनःसाक्षिभूतं मध्यस्थं सर्वसाक्षिभूतं मनवर्जितं
सङ्कल्पविकल्पादिरहितं मनः अवबोधात्मकं देवं मनसा
परिशुद्धान्तःकरणेन आलोक्य तद्गोचरापरोक्षचरमवृत्तिं
लब्ध्वा योगिनः स्वयमेव सिध्यन्ति निवृत्ताविद्यका मुक्ता
भवन्तीत्यर्थः॥३२॥
तेषां लक्षणमाह –
आकाशवन्मानसं मनो निर्मलं कृत्वा मनः
सङ्कल्पविकल्पात्मकं निरास्पदं निर्विषयं कृत्वा निश्चलं
निष्क्रियमीश्वरं यो विजानीयात् स एव समाधिस्थः ।
तादृशज्ञानमेव समाधिस्थस्यापि लक्षणमित्यर्थः॥३३॥
आरूढस्य लक्षणमुक्तम् , आरुरुक्षोरुपायमाह –
योगामृतरसं पीत्वा यमनियमाद्यष्टाङ्गयोगामृतपानं कृत्वा तत्तत्प्रतिपादकशास्त्रमभ्यस्येत्यर्थः ,
वायुभक्षः वायुमात्राहरः , उपलक्षणमेतत् हितमितमेध्याशी सदा सुखी सर्वदा सन्तुष्टः सन् , यं यमं
मनोनिग्रहं नित्यमभ्यस्यते , स समाधिरित्युच्यते। स समाधिः
मृत्युनाशकृत् जननमरणसंसारनाशकृदित्यर्थः॥३४॥
तादृशसमाधौ स्थितस्य लक्षणमाह –
ऊर्ध्वशून्यम् ऊर्ध्वदेशपरिच्छेदरहितम्
अधःशून्यम् अधोमध्यदेशपरिच्छेदरहितं सर्वशून्यं
देशकालादिपरिच्छेदरहितं यदात्मकं यत्स्वरूपं , स
आत्मेति भावना समाधिस्थस्य लक्षणमित्यर्थः॥३५॥