एवं पृष्टो भगवान् ब्रह्मणि समन्वेति इति
उत्तरमाह –
अनाहतस्य शब्दस्य परावस्थापन्नप्रणवस्य यो ध्वनिः
नादः तस्य नादस्य ज्योतिः अन्तर्गतम्। तेन तेजोरूपकलायां
नादस्यान्तर्भाव इति तात्पर्यम् । कलान्तर्भावमाह –
ज्योतिरन्तर्गतं मन इति। मनसः ज्योतिष्यन्तर्भावो नाम
तन्मात्रया तत्र व्याप्तिः । तथा च मनसि ज्योतिषः कलायाः
समन्वय इति
भावः । तन्मनः शब्दादिप्रपञ्चकारणभूतं मनः
यत्र विलयं याति यत्र ब्रह्मणि
वेदान्तजन्यनिर्विकल्पकब्रह्मगोचरमनोवृत्तिः लयं याति , तत् वृत्तिलयस्थानं वृत्तिलयात्मकं वा विष्णोः परमम् उत्कृष्टं पदं स्वरूपमिति ।
तदुक्तम् – मनः कायाग्निना हन्तीत्यादिना॥४२॥
पुनस्तदेव विशिनष्टि –
ओङ्कारध्वनिनादेन ओङ्कारध्वन्यात्मकनादेन सह वायोः
संहरणान्तिकं रेचकपूरकादिक्रमेण नियमितवायोरुपसंहारपर्यन्तं निरालम्बं निर्विशेषं ब्रह्म समुद्दिश्य लक्ष्यं
कृत्वा ध्यायेत्। यत्र स नादो लयं गतः नाशं
प्राप्नुयात् , तत् नादनाशाधिकरणात्मकं नादनाशात्मकं
वा विष्णोः परमं पदमित्यर्थः॥४३॥
एवं ध्यानप्रकारेण शुद्धान्तःकरणस्य आरूढस्य
पुण्यपापे विधूय ब्रह्मसायुज्येऽभिहिते ,
आरुरुक्षोरपरिशुद्धान्तःकरणित्वेन ब्रह्मसायुज्यासम्भवे
धर्माधर्मविधूननासम्भवेन
तद्द्वारा जननमरणादिकमवश्यं भाव्यमिति मनसि निश्चित्य
पुनरावृत्तिप्रकारं पृच्छति –
पञ्चात्मके पञ्चभूतात्मके देहे स्थूलशरीरे
भिन्ने गते सति , पञ्चसु पञ्चभूतेषु पञ्चधा
तत्तत्पृथिव्याद्याकारेण स्थितेषु सत्सु , देहे प्राणैः प्राणादिपञ्चवायुभिः
वियुक्ते सति , धर्माधर्मौ पुण्यपापे क्व गच्छतः कुत्र
यास्यतः ॥४४॥
एवं पृष्टो भगवान् लिङ्गशरीराधारतया तिष्ठत
इत्युत्तरमाह –
धर्माधर्मौ पुण्यपापे मनश्च अन्तःकरणं यानि च
पञ्चभूतानि पृथिव्यादीनि यानि च पञ्चेन्द्रियाणि चक्षुरादीनि वागादीनि ज्ञानकर्मात्मकानि च याश्चान्याः
पञ्चदेवताः पञ्चेन्द्रियाभिमानिन्यः दिग्वातादयः ,
तदुक्तम् –
दिग्वातादर्कप्रवेताश्विवह्निप्राप्यप्रलीयकाः इति , ता
देवताः , एते सर्वभूतादयः मनसा अन्तरिन्द्रियेण नित्यमेव
सर्वदा
अभिमानतः ममताहङ्कारविषयत्वेन यावत्तत्त्वं न विन्दति
अपरोक्षब्रह्मानुभवं न प्राप्नोति , तावज्जीवेन सह
जीवोपाधिना
लिङ्गेन सह गच्छन्ति गतागतं प्राप्नुवन्तीत्यर्थः ॥४५-४६॥
You must log in to post a comment.