उत्तरगीता गौडपादीयदीपिकासहिता (१४)

एवं स्थूलदेहलयेऽपि धर्माधर्मौ
लिङ्गशरीरमाश्रित्य तिष्ठत इत्युक्ते , लिङ्गशरीरभङ्गः
कदेति
पृच्छति –
अर्जुन उवाच –

स्थावरं जङ्गमं चैव यत्किञ्चित्सचराचरम्‌।
जीवा जीवेन सिध्यन्ति स जीवः केन सिध्यति॥४७॥

स्थावरजङ्गमात्मकं सचराचरं चराचरसहितं
जगज्जालं सर्वस्मिन्‌ ये जीवाः अभिमानवन्तः
स्थूलदेहाभिमानिनो
विश्वात्मका जीवाः जीवेन लिङ्गशरीराभिमानिना तैजसेन
सिध्यन्ति विश्वाभिमानं त्यजन्ति। स जीवः तैजसाभिमानी केन
हेतुना सिध्यति स्वाभिमानं त्यजतीति प्रश्नार्थः॥४७॥

एवं पृष्टे सति प्राज्ञेन तैजसः सिध्यति ,
प्राज्ञस्तुरीयेणेत्येवं क्रमेण सिध्यतीत्युत्तरमाह –
श्रीभगवानुवाच –

मुखनासिकयोर्मध्ये प्राणः सञ्चरते सदा।
आकाशः पिबते प्राणं स जीवः केन जीवति॥४८॥

मुखनासिकयोर्मध्ये मुखनासिकामध्यतः सदा सर्वदा
यावददृष्टं प्राणवायुः सञ्चरते अजपामन्त्रात्मकत्वेन
एकैकस्य दिनस्य षट्शताधिकैकविंशतिसहस्रसङ्ख्यया
संचरति , तावत्पर्यन्तमदृष्टमहिम्ना लिङ्गमपि वर्तते।
यदा तु योगमहिम्ना ब्रह्मज्ञानानन्तरं जीवस्यादृष्टनिवृत्तिः , तदा आकाशः जीवत्वनिमित्तं प्राणं पिबते , तदा
जीवः केन जीवति जीवत्वापादकाविद्यानिवृत्त्या
निरञ्जनब्रह्मभावे जाते जीवत्वमेव नास्तीत्यर्थः॥४८॥

ननु ब्रह्माण्डाद्युपाधिविशिष्टस्य सर्वगतस्य ब्रह्मणः
कथं निरञ्जनत्वमिति पृच्छति –
अर्जुन उवाच –

ब्रह्माण्डव्यापितं व्योम व्योम्ना चावेष्टितं जगत्‌।
अन्तर्बहिश्च तद्व्योम कथं देवो निरञ्जनः॥४९॥

हे भगवन्‌ ! व्योम आकाशं ब्रह्माण्डव्यापितं
ब्रह्माण्डावच्छिन्नमित्यर्थः । व्योम्ना च आकाशेन जगत्‌ आवेष्टितं
व्याप्तम्‌ , तस्मात्कारणात्‌ अन्तर्बहिश्च व्योमैव वर्तते ,
एवं सति देवः ईश्वरः कथं निरञ्जनः अन्यप्रकाशनिरपेक्षः
कथमित्यर्थः॥४९॥

आकाशादिसर्वप्रपञ्चस्य कल्पितत्वेन सर्वं
सेत्स्यतीत्यभिप्रायेणाह –
श्रीभगवानुवाच –

आकाशो ह्यवकाशश्च आकाशव्यापितं च यत्‌।
आकाशस्य गुणः शब्दो निःशब्दो ब्रह्म उच्यते॥५०॥

आकाशः महाकाशः अवकाशः परिच्छिन्नाकाशः
उभयमप्याकाशेन आकाशतन्मात्रभूतेन शब्देन
व्यापितं व्याप्तं तदुपादनकतया तदतिरिक्तं न
भवतीत्यर्थः। तर्हि उपादानस्य शब्दस्य
अतिरिक्तत्वमस्त्वित्यत आह –
आकाशस्य गुणः शब्द इति , शब्दः तन्मात्रभूत आकाशस्य
मिथ्याभूताकाशस्य गुणः परिणाम्युपादानं यतः , अत एव स्वयमपि
मिथ्याभूत इत्यर्थः। ब्रह्म तु निःशब्दः निष्प्रपञ्चः
इत्युच्यते। तथा च सत्यस्याक्षरस्य ब्रह्मणः असत्येन सह
सम्बन्धासम्भवात्‌ निरञ्जनत्वमुपपद्यत इत्यर्थः॥५०॥

एवं भगवतोक्ते अक्षरशब्दस्य भगवदभिमतार्थम्
अजानानः सन्‌ लोकप्रसिद्धवर्णात्मकाक्षरबुद्ध्या
वर्णानामक्षरत्वं न सम्भवतीत्यभिप्रायेण पृच्छति –
अर्जुन उवाच –

दन्तोष्ठतालुजिह्वानामास्पदं यत्र दृश्यते।
अक्षरत्वं कुतस्तेषां क्षरत्वं वर्तते सदा॥५१॥

हे भगवन्‌ ! यत्र वर्णात्मकाक्षरेषु दन्तोष्ठतालुजिह्वानाम्‌ , उपलक्षणेमेतत्‌ कण्ठादीनामष्टानां
स्थानानाम्‌ , आस्पदम्‌ आस्पदत्वं दृश्यते प्रत्यक्षमनुभूयते । ‘अकुहविसर्जनीयानां कण्ठः ‘ इत्यादिना
श्रूयते च। तथा च तेषां वर्णानाम्‌ अक्षरत्वं नाशरहितत्वं कुतः ? उत्पत्तिमतो नाशावश्यम्भावात्‌ । सदा
सर्वकालं क्षरत्वं नाशवत्त्वमेव वर्तते तेषाम्‌ , नाशरहितत्वं कुत इति प्रश्नार्थः॥५१॥

एवमभिप्रायमजानानेन अर्जुनेन पृष्ठे स्वाभिप्रेतमक्षरशब्दार्थं स्फुटयन्‌ भगवानुवाच –
श्रीभगवानुवाच –

अघोषमव्यञ्जनमस्वरं चाप्यतालुकण्ठोष्ठमनासिकं च।
अरेखजातं परमूष्मवर्जितं
तदक्षरं न क्षरते कथंचित्‌॥५२॥

अघोषं घोषाख्यवर्णगुणरहितम्‌ अव्यञ्जनं
ककारादिव्यञ्जनातीतम्‌ अस्वरम्‌ अजतीतम्‌ , अतालुकण्ठोष्ठमपि अज्व्यञ्जनाद्युत्पत्तिस्थानताल्वोष्ठादिरहितम्‌
अनासिकम्‌ अनुस्वारोत्पातिस्थाननासिकातीतम्‌ अरेखजातं
वर्णव्यञ्जकरेखासमूहातीतम्‌ ऊष्मवर्जितं शषसहातीतम्‌ , यद्वा , ऊष्मशब्देन श्वासाख्यो गुणोऽभिधीयते
तद्रहितम्‌ , परं लोकप्रसिद्धवर्णलक्षणातीतं यत्‌ ब्रह्म
कथञ्चित्‌ सर्वप्रकारेण सर्वकालेऽपि न क्षरते ,
तदेवाक्षरशब्देनोच्यते। न लौकिकान्यक्षराणीत्यर्थः॥५२॥

एतादृशं ब्रह्मज्ञानोपायम्‌ अनुभवदार्ढ्याय
पुनरपि पृच्छति –
अर्जुन उवाच –

ज्ञात्वा सर्वगतं ब्रह्म सर्वभूताधिवासितम्‌।
इन्द्रियाणां निरोधेन कथं सिध्यन्ति योगिनः॥५३॥

सर्वभूताधिवासितं सर्वभूतेष्वप्यन्तर्यामितया
स्थितं
सर्वगतम्‌ अन्तर्बहिश्च परिपूर्णं ब्रह्म ज्ञात्वा सम्यग्विबुध्य योगिनः इन्द्रियाणां निरोधेन इन्द्रियनियमनेन कथं
सिध्यन्ति
केनोपायेन मुक्ता भवन्तीत्यर्थः॥

एवं पृष्टो भगवान्‌ तमेव ज्ञानोपायं पुनरप्याह –
श्रीभगवानुवाच –

इन्द्रियाणां निरोधेन देहे पश्यन्ति मानवाः।
देहे नष्टे कुतो बुद्धिर्बुद्धिनाशे कुतो ज्ञता॥५४॥

मानवाः मनुष्या इन्द्रियाणां निरोधेन इन्द्रियनियमनेन
देहे देहे एव पश्यन्ति ज्ञास्यन्ति , तस्मात्‌ देहदार्ढ्यम् इन्द्रियदार्ढ्यं  च
ज्ञानोपाय इति भावः। तदभावे ज्ञानमेव नास्ति इत्याह –
देहे नष्टे अदृष्टे सति बुद्धिः कुतः तत्त्वज्ञानं कुतः ?
तस्माद्देहेन्द्रियादिभिः यज्ञदानादिश्रवणादिकमेव तत्त्वज्ञाने
कारणमिति भावः॥५४॥

तादृशं च कारणं
यावत्पर्यन्तमनुष्ठेयमित्याशङ्क्य
अवधिमाह –

तावदेव निरोधः स्याद्यावत्तत्त्वं न विन्दति।
विदिते तु परे तत्त्वे एकमेवानुपश्यति॥५५॥

यावत्तत्त्वज्ञानं नास्ति
तावत्पर्यन्तमिन्द्रियनिरोधः स्यात्‌ ;
परे तत्त्वे अखण्डानन्दब्रह्मणि विदिते अपरोक्षभूते सति ,
एकमेवानुपश्यति एकमेव देहेन्द्रियसाधनानुष्ठानादिसाधनरहितं ब्रह्मैवानुपश्यति , नान्यत्‌ ; तदनन्तरं साधनानुष्ठाप्रयासोऽपि मा भूदिति भावः॥५५॥

उत्तरगीता गौडपादीयदीपिकासहिता (१३)

एवं पृष्टो भगवान्‌ ब्रह्मणि समन्वेति इति
उत्तरमाह –

श्रीभगवानुवाच – 
अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः॥४१॥
ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः ।
तन्मनो विलयं याति तद्विष्णोः परमं पदम्‌ ॥४२॥

अनाहतस्य शब्दस्य परावस्थापन्नप्रणवस्य यो ध्वनिः
नादः तस्य नादस्य ज्योतिः अन्तर्गतम्‌। तेन तेजोरूपकलायां
नादस्यान्तर्भाव इति तात्पर्यम्‌ । कलान्तर्भावमाह –
ज्योतिरन्तर्गतं मन इति। मनसः ज्योतिष्यन्तर्भावो नाम
तन्मात्रया तत्र व्याप्तिः । तथा च मनसि ज्योतिषः कलायाः
समन्वय इति
भावः । तन्मनः शब्दादिप्रपञ्चकारणभूतं मनः
यत्र विलयं याति  यत्र ब्रह्मणि
वेदान्तजन्यनिर्विकल्पकब्रह्मगोचरमनोवृत्तिः लयं याति , तत्‌ वृत्तिलयस्थानं वृत्तिलयात्मकं वा विष्णोः परमम्‌ उत्कृष्टं पदं स्वरूपमिति ।
तदुक्तम्‌ – मनः कायाग्निना हन्तीत्यादिना॥४२॥

पुनस्तदेव विशिनष्टि –

ॐकारध्वनिनादेन वायोः संहरणान्तिकम्‌। 
निरालम्बं समुद्दिश्य यत्र नादो लयं गतः॥४३॥

ओङ्कारध्वनिनादेन ओङ्कारध्वन्यात्मकनादेन सह वायोः
संहरणान्तिकं
रेचकपूरकादिक्रमेण नियमितवायोरुपसंहारपर्यन्तं निरालम्बं निर्विशेषं ब्रह्म समुद्दिश्य लक्ष्यं
कृत्वा ध्यायेत्‌। यत्रनादो लयं गतः नाशं
प्राप्नुयात्‌ , तत्‌ नादनाशाधिकरणात्मकं नादनाशात्मकं
वा विष्णोः परमं पदमित्यर्थः॥४३॥

एवं ध्यानप्रकारेण शुद्धान्तःकरणस्य आरूढस्य
पुण्यपापे विधूय ब्रह्मसायुज्येऽभिहिते ,
आरुरुक्षोरपरिशुद्धान्तःकरणित्वेन ब्रह्मसायुज्यासम्भवे
धर्माधर्मविधूननासम्भवेन
तद्द्वारा जननमरणादिकमवश्यं भाव्यमिति मनसि निश्चित्य
पुनरावृत्तिप्रकारं पृच्छति –

अर्जुन उवाच – 
भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा।
प्राणैर्विमुक्ते देहे तु धर्माधर्मौ क्व गच्छतः॥४४॥

पञ्चात्मके पञ्चभूतात्मके देहे स्थूलशरीरे
भिन्ने गते सति , पञ्चसु पञ्चभूतेषु पञ्चधा
तत्तत्पृथिव्याद्याकारेण स्थितेषु सत्सु , देहे प्राणैः प्राणादिपञ्चवायुभिः
वियुक्ते सति , धर्माधर्मौ पुण्यपापे क्व गच्छतः कुत्र
यास्यतः ॥४४॥

एवं पृष्टो भगवान्‌ लिङ्गशरीराधारतया तिष्ठत
इत्युत्तरमाह –

श्रीभगवानुवाच – 
धर्माधर्मौ मनश्चैव पञ्चभूतानि यानि च।
इन्द्रियाणि च पञ्चैव याश्चान्याः पञ्च देवताः॥४५॥
ताश्चैव मनसा सर्वे नित्यमेवाभिमानतः।
जीवेन सह गच्छन्ति यावत्तत्त्वं न विन्दति॥४६॥

धर्माधर्मौ पुण्यपापे मनश्च अन्तःकरणं यानि च
पञ्चभूतानि
पृथिव्यादीनि यानि च पञ्चेन्द्रियाणि चक्षुरादीनि वागादीनि ज्ञानकर्मात्मकानि च याश्चान्याः
पञ्चदेवताः
पञ्चेन्द्रियाभिमानिन्यः दिग्वातादयः ,
तदुक्तम्‌ –
दिग्वातादर्कप्रवेताश्विवह्निप्राप्यप्रलीयकाः इति , ता
देवताः , एते सर्वभूतादयः मनसा अन्तरिन्द्रियेण नित्यमेव
सर्वदा
अभिमानतः ममताहङ्कारविषयत्वेन यावत्तत्त्वं न विन्दति
अपरोक्षब्रह्मानुभवं न प्राप्नोति , तावज्जीवेन सह
जीवोपाधिना
लिङ्गेन सह गच्छन्ति गतागतं प्राप्नुवन्तीत्यर्थः ॥४५-४६॥

उत्तरगीता गौडपादीयदीपिकासहिता (१)

प्रथमोऽध्यायः

गौडपादीयदीपिका

श्रीगणेशाय नमः

अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् ।
      आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥१॥ इह खलु अर्जुनः “अशोच्यानन्वशोचस्त्वम्” इत्यारभ्य भगवदुपदिष्टमात्मतत्त्वोपदेशं विषयभोगप्राबल्येन विस्मृत्य पुनस्तमा(दा ?)त्मतत्त्वं भगवन्तं पृच्छति –   अर्जुन उवाच –

यदेकं निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् ।

अप्रतर्क्यमविज्ञेयं विनाशोत्पत्तिवर्जितम् ॥१॥

कारणं योगनिर्मुक्तं हेतुसाधनवर्जितम् ।

हृदयाम्बुजमध्यस्थं ज्ञानज्ञेयस्वरूपकम् ॥

तत्क्षणादेव मुच्येत यज्ज्ञानाद्ब्रूहि केशव ॥२॥

हे केशव ! यज्ज्ञानाद्यस्य ब्रह्मणः सम्यग्ज्ञानात्तत्क्षणादेव ज्ञानोत्तरक्षण एव मुच्येत अविद्यानिवृत्तिद्वारा आनन्दावाप्तिर्भवेत् तद्ब्रूहि  स्वरूप[1]तट[2]स्थलक्षणाभ्यां प्रतिपादयेत्यर्थः । ते एव लक्षणे दर्शयति – यदित्यादिना । एकं सजातीयविजातीयस्वगतभेदरहितं निष्कलमवयवरहितं व्योमातीतमाकाशादिचतुर्विंशतितत्त्वातीतं निरञ्जनं स्वयंप्रकाशमप्रतर्क्यममनोगोचरं , “यन्मनो न मनुते” इति श्रुतेः । अविज्ञेयं प्रमाणाविषयं , “यद्वाचाऽनिरुक्तम्, यतो वाचो निवर्तन्ते “ इति श्रुतेः । विनाशोत्पत्तिवर्जितं त्रैकालिकं कारणं सर्वोत्पत्तिमन्निमित्तोपादानभूतं योगनिर्मुक्तं वस्त्वन्तरसम्बन्धरहितं हेतुसाधनवर्जितं निमित्तत्वोपादानत्वधर्मवर्जितमित्यर्थः । स्वस्य सनातनत्वेन ताभ्यामेव वर्जितमिति वा । हृदयाम्बुजमध्यस्थं सर्वलोकान्तर्नियामकतया सर्वलोकहृदयमध्यस्थं ज्ञानज्ञेयस्वरूपकं ज्ञानं विषयप्रकाशः ज्ञेयं विषयः, तदुभयसत्तात्मकं यद्ब्रह्म , तत् कीदृशमिति प्रश्नार्थः ॥१॥२॥

[1] पदान्तरार्थसंसर्गागोचरतया लक्ष्यधर्मिस्वरूपमात्रबोधकं स्वरूपलक्ष्यणम् । यथा – प्रकृष्टप्रकाशश्चन्द्र इति ।

[2] यो हि धर्मोऽसाधारणः सन्नेव कदाचिद्धर्मिणा सम्बद्ध्यते स तटस्थलक्षणमित्युच्यते । यथा- छत्रचामरादिकं राज्ञः ।