सकलजननीस्तोत्रम्

  अजानन्तो यान्ति क्षयमवशमन्योन्यकलहैः

अमी मायाग्रन्थौ तव परिलुठन्तः समयिनः ।

जगन्मातर्जन्मज्वरभयतमःकौमुदि वयं

नमस्ते कुर्वाणाश्शरणमुपयामो भगवतीम् ॥१॥

वचस्तर्कागम्यस्वरसपरमानन्दविभव-

प्रबोधाकाराय द्युतितुलित[1]नीलोत्पलरुचे ।

शिवाद्याराध्याय स्तनभरविनम्राय सततं[2]

नमस्तस्मै[3] कस्मैचन भवतु मुग्धाय महसे ॥२॥

अनाद्यन्ताभेदप्रणयरसिकापि[4] प्रणयिनी

शिवस्यासीर्यत्त्वं[5] परिणयविधौ देवि गृहिणी ।

सवित्री भूतानामपि यदुदभूश्शैलतनया

तदेतत्संसारप्रणयनमहानाटकमु[6]खम् ॥३॥

ब्रुवन्त्येके[7] तत्त्वं भगवति सदन्ये विदुरसत्

परे मातः प्राहुस्तव सदसदन्ये सुकवयः[8] ।

परे नैत[9]त्सर्वं समभिदधते देवि सुधियः

तदेतत्त्वन्मायाविलसितमशेषं ननु शिवे ॥४॥

लुठद्गुञ्जाहारस्तनभरनमन्मध्यलतिकाम्

उदञ्चद्घर्माम्भःकणगुणितवक्त्राम्बुजरुचम्[10] ।

शिवं पार्थत्राणप्रवणमृगयाकारगुणितं[11]

शिवामन्वग्यान्तीं शरणमहमन्वेमि शबरीम् ॥५॥

मिथःकेशाकेशिप्रथननिधनास्तर्कघटना

बहुश्रद्धाभक्तिप्रणति[12]विषयाश्शास्त्र[13]विधयः ।

प्रसीद प्रत्यक्षीभव गिरिसुते देहि शरणं[14]

निरालम्बं[15] चेतः परिलुठति पारिप्लवमिदम् ॥६॥

शुनां वा वह्नेर्वा खगपरिषदो वा यदशनं

तदा केन क्वेति क्वचिदपि न कश्चित्कलयति ।

अमुष्मिन्विश्वासं विजहिहि ममाह्नाय वपुषि

प्रपद्येथाश्चेतः सकलजननीमेव शरणम् ॥७॥

तटि(डि)त्कोटिज्योतिर्द्युतिदलितषड्ग्रन्थिगहनं

प्रविष्टं स्वाधारं(रे) पुनरपि सुधावृष्टिवपुषा ।

किमप्यष्टाविंशत्किरणसकलीभूतमनिशं

भजे धाम श्यामं कुचभरनतं बर्बरकचम् ॥८॥

चतुष्पत्रान्तःषड्दलपुटभगान्तस्त्रिवलय-

स्फुरविद्युद्वह्निद्युमणिनियुताभद्युतिल(यु)ते ।

षडश्रं भित्त्वादौ दशदलमथ द्वादशदलं

कलाश्रं च द्व्यश्रं गतवति नमस्ते गिरिसुते ॥९॥

कुलं केचित् प्राहुर्वपुरकुलमन्ये तव बुधाः

परे तत्सम्भेदं समभिदधते कौलमपरे ।

चतुर्णामप्ये[16]षामुपरि किमपि प्राहुरपरे

महामाये तत्त्वं तव कथममी निश्चिनुमहे ॥१०॥

षडध्वारण्यानीं प्रलयरवि[17]कोटिप्रतिरुचा

रुचा भस्मीकृत्य स्वपदकमलप्रह्वशिरसा(स)म् ।

वितन्वानश्शैवं किमपि वपुरिन्दीवर[18]रुचिः

कुचाभ्यामानम्र[19]स्तव पुरुषकारो विजयते ॥११॥

प्रकाशानन्दाभ्यामविदितचरीं(री) मध्यपदवीं

प्रविश्यैतद्द्वन्दं रविशशिसमाख्यं कवलयन् ।

प्रपद्योर्ध्वं नादं लयदहनभस्मीकृतकुलः

प्रसादात् ते जन्तुश्शिवमकुलमम्ब प्रविशति(ते) ॥१२॥

मनुष्यास्तिर्यञ्चो मरुत इति लोकत्रयमिदं

भवाम्भोधौ मग्नं त्रिगुणलहरीकोटिलुठितम् ।

कटाक्षश्चेद्यत्र क्वचन तव मातः करुणया

शरीरी सद्योऽयं व्रजति परमानन्दतनुताम् ॥१३॥

प्रियङ्गुश्यामाङ्गीमरुणतरवासकिसलयां

समुन्मिलन्मुक्ताफलवहलनेपथ्यसुभगाम् ।

स्तनद्वन्द्वस्फारस्तबकनमितां कल्पलतिकां

सकृद् ध्यायन्त्यस्त्वां दधति शिवचिन्तामणिपदम् ॥१४॥

षडाधारावर्तैरपरिमितमन्त्रोर्मिपटलैः

लसन्मु[20]द्राफेनैर्बहुविधचल[21]द्दैवतझषैः।

क्रमस्रोतोभिस्त्वं वहसि परनादामृतनदी(दीं)

भवानि प्रत्यग्रा शिवचिद[22]मृताब्धिप्रणयिनी ॥१५॥

महिपाथोवह्निश्वशनवियदात्मेन्दुरविभिः

वपुर्भिर्ग्रस्ता(तां)शैरपि तव कियानम्ब महिमा ।

अमून्यालोल्य(क्य)न्ते भगवति न कुत्राप्यणुतमाम्(राम्)

अवस्थां प्राप्तानि त्वयि तु परमव्योमवपुषि ॥१६॥

कलामाज्ञां प्रज्ञां[23] समयमनुभूतिं समरसं

गुरुं पारम्पर्यं विनयमुपदेशं शिवपद(र)म् ।

प्रमाणं निर्वाणं प्रकृतिमभि(ति)भूतिं परगुहां

विधिं विद्यामाहुस्सकलजननीमेव मुनयः॥१७॥

प्रलीने शब्दौघे तदनु विरते बिन्दुविभवे

ततस्तत्त्वे चाष्टध्वनिभिरनपायिन्यधिगते[24] ।

श्रिते[25] शाक्ते पर्वण्यनु(पि क)कलितचिन्मात्रगहनां

स्वसंवित्तिं[26] योगी रस(च)यति शिवाख्यां भगवतीम्[27] ॥१८॥

परानन्दाकारां निरवधिशिवैश्वर्यवपुषं[28]

निराघात[29]ज्ञानप्रकृतिमप(नव)रिच्छिन्नकरुणाम् ।

सवित्रीं लोकानां निरतिशयधामा[30]स्पदपदां

भवो वा मोक्षो वा भवतु भवतीमेव भजताम् ॥१९॥

जगत्काये कृत्वा तदपि हृदये तच्च पुरुषे

पुमांसं वि(बि)न्दुस्थं तदपि वियदाख्ये च गहने ।

तदेतज्ज्ञानाख्ये तदपि परमानन्दगहने[31]

महाव्योमाकारे(रः) त्वदनुभवशीलो विजयते ॥२०॥

विधे विद्ये वेद्ये विविधसमये[32] वेदगुलिके

विचित्रे विश्वाद्ये विनयसुलभे वेदजननि ।

शिवज्ञे शूलस्थे शिवपदवदान्ये शिवनिधे

शिवे मातः मह्यं त्वयि वितर भक्तिं निरुपमाम् ॥२१॥

विधेर्मुण्डं हृत्वा यदकुरुत पात्रं करतले

हरिं शूलप्रोतं यदगमयदंसाभरणताम् ।

अलञ्चक्रे कण्ठं यदपि गरलेनाम्ब गिरिशः

शिवस्थायाश्शक्तेस्तदिदमखिलं ते विलसितम् ॥२२॥

विरिञ्च्याख्या मातः सृजसि हरिसञ्ज्ञा त्वमवसि

त्रिलोकीं रुद्राख्या हरसि वि(नि)दधासीश्वरदशाम् ।

भवन्ती नादाख्या विहरसि च पाशौघदलनी(नात्)

त्वमेवैकाऽनेका[33] भवसि कृतिभेदैर्गिरिसुते ॥२३॥

मुनीनां चेतोभिः प्रमृ(मु)दितकषायैरपि मनाग्

असक्यं संस्प्रष्टुं चकितचकितैरम्ब सततम् ।

श्रुतीनां मूर्धानः प्रकृतिकठिनाः कोमलतरे(ले)

कथं ते(वा) विन्दन्ते पदकिसलये पार्वति पदम्[34] ॥२४॥

तटिद्वल्लीं नित्याममृतसरितं पाररहितां

मलोत्तीर्णां ज्योत्स्नां प्रकृतिमगुणग्रन्थिगहनाम् ।

गिरां दूरां विद्यामविनितकुचां विश्वजननीम्

अपर्यन्तां लक्ष्मीमभिदधति सन्तो भगवतीम् ॥२५॥

शरीरं क्षित्यम्भःप्रकृ(भृ)तिरचितं केवलमचित्

सुखं दुःखं चायं कलयति पुमां(पर)श्चेतन इति ।

स्फुटं जानानोऽपि प्रभवति न देही रच(ह)यितुं

शरीराहङ्कारं तव समय[35]बाह्यो गिरिसुते ॥२६॥

पिता माता भ्राता सुहृदनुचरस्सद्मगृहिणी

वपुः क्षेत्रं मित्रं धनमपि यदा मां विजहति ।

तदा मे भिन्दाना सपदि भय(व)मोहान्धतमसं

महाज्योत्स्ने मातः भव करुणया सन्निधिकरी ॥२७॥

सुता दक्षस्यादौ किल सकलमातः त्वमुदभूः

सदो(रो)षं तं हित्वा तदनुगिरिराजस्य दुहिता[36] ।

अनाद्यन्ता शम्भोरपृथगपि शक्तिर्भगवती

विवाहाज्जायासीत्यहह [37]चरितं वेत्ति तव कः ॥२८॥

कणास्त्वद्दीप्तीनां रविशशिकृशानुप्रभृतयः

परं ब्रह्म क्षुद्राः(द्रं) तव नियतमानन्द[38]कणिकाः ।

शिवादिक्षित्यन्तं त्रिवलय[39]तनोस्सर्वमुदरे

तवास्ते भक्तस्य स्फुरसि हृदि चित्रं भगवति ॥२९॥

पुरःपश्चादन्तर्बहिरपरिमेयं परिमितं

परं स्थूलं सूक्ष्मं सकलमकलं गुह्यमगुहम् ।

दवीयो नेदीयस्सदसदिति विश्वं भगवती

सदा पश्यन्त्याख्यां वहसि भुवनक्षोभजननीम् ॥३०॥

प्रविश्य त्वन्मार्गं सहजदयया देशिकदृशा

षडध्वध्वान्तौघच्छिदुरगणनातीतकरुणाम् ।

परामाज्ञाकारां सपदि शिवयन्तीं शिवतनुं

स्वमात्मानं धन्याश्चिरमुपलभन्ते भगवतीम् ॥३१॥

मयूखाः पूष्णीव ज्वलन इव तद्दीप्तिकणिकाः

पयोधौ कल्लोलाः प्रतिहतमहिम्नीव पृषतः।

उदेत्योदेत्याम्ब त्वयि सः निजैस्सात्त्विकगुणैः

भजन्ते तत्त्वौघाः प्रशममनुकल्पं परवशाः ॥३२॥

विधुर्विष्णुर्ब्रह्मा प्रकृतिरणुरात्मा दिनकरः

स्वभावो जैनेन्द्रस्सुगतमुनिराकाशमलिनः ।

शिवश्शक्तिश्चेति श्रुतिविषयतां तामुपगता

विकल्पैरेभित्वामभिदधति सन्तो भगवतीम् ॥३३॥

शिवस्त्वं शक्तिस्त्वं त्वमसि समया(यः) त्वं समयिनी

त्वमात्मा[40] त्वं दीक्षा त्वमयमणिमादिर्गुणगणः ।

अविद्या त्वं विद्या त्वमसि निखिलं तत्त्व[41]मपरं

पृथक् तत्त्वं त्वत्तो भगवति न वीक्षामह इमे ॥३४॥

त्वयासौ जानीते रचयति भवत्यैव सततं

त्वयैवेच्छत्यम्ब त्वमसि निखिला यस्य तनवः ।

जगत्साम्यं शम्भोर्वहसि परमव्योमवपुषः

तथाप्यर्धं भूत्वा विहरसि शिवस्येति किमिदम् ॥३५॥

असङ्ख्यैः प्राचीनैर्जननि जननैः कर्मविलयात्

सकृज्जन्मन्यन्ते गुरुवपुषमासाद्य गिरिशम्[42] ।

अ(त)वाप्याज्ञां शैवीं शिवतनुमपि त्वां विदितवान्

नयेयं त्वत्पूजास्तुतिविरचनेनैव दिवसान् ॥३६॥

यत्षट्‍पत्रं कमलमुदितं तस्य या कर्णिकाख्या

योनिस्तस्याः प्रथितमुदरे य(त)त्तदोङ्कारपीठम् ।

तस्याप्यन्तः कुचभरनतां कुण्डलीति प्रसिद्धां

श्यामाकारां सकलजननीं सन्ततं[43] भावयामि[44] ॥३७॥

भुवि पयसि कृशानौ मारुते खे शशाङ्के

सवितरि यजमानेऽप्यष्टधा शक्तिरेका ।

वहसि कुचभराभ्यां याऽव[45]नम्रापि(सि) विश्वं

सकलजननि सा त्वं पाहि मामित्यवाच्यम् ॥३८॥

॥इति सकलजननीस्तवः॥
——————————————————————————————–

[1] दलित [2] महते [3] नमो यस्मै [4] रचितापि[5] शिवस्याजर्यत्वं [6] सु [7] येते [8] प्राहुः सदसदपि चान्येऽप्यसदसत् [9] चिरेणैतत्

[10] रुचिम् [11] रकरुणं [12] प्रणत [13] याश्चापि वि [14] चरणौ [15] म्बे [16] र्णामेतेषा [17] शिख [18] रिन्दूपलरुचिः

[19] म्रश्शिवपुरुषकारो [20] वलन्मु [21] लस [22] चिदचिदमृ [23] कलां प्राज्ञां मायां [24] ध्वनिवपुरुपाधिन्युपगते [25] गते

[26] स्वयं व्यक्तां [27] शिवानन्दतनुताम् [28] निरवधिकमैश्वर्यवपुषं [29] निराकारं [30] मायास्पदपदां [31] वियदानन्दगहने

[32] विनयसुलभे [33] तदेका नैकासि [34] पर्वतसुते [35] जननि बाह्यं [36] तनया [37] तव को वेत्ति चरितम् [38] लतिका

[39] त्रिवलित [40] माज्ञा [41] त्वं कि [42] वपुषि [43] चेतसा [44] चिन्तयामि [45] वि

Author Socials Follow me