उत्तरगीता गौडपादीयदीपिकासहिता (५)

एवमुक्तप्रकारेण योगी भूत्वा ब्रह्मज्ञाननिष्ठ एव स्यादित्याह — स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः । बहिर्व्योमस्थितं नित्यं नासाग्रे च व्यवस्थितम् ॥ निष्कलं तं विजानीयाच्छ्वासो यत्र लयं गतः ॥११॥ ब्रह्मविदुक्तप्रकारेण ब्रह्मज्ञानी सन् स्थिरबुद्धिः निश्चयज्ञानी भूत्वा असम्मूढः अज्ञानरहितः सन् ब्रह्मणि स्थितः ब्रह्मनिष्ठ एव नित्यं यत्र श्वासः श्वासवायुः लयं गतः नाशं प्राप्तः तत्र नासाग्रे व्यवस्थितं बहिर्व्योमस्थितं बहिराकाशस्थितं च निष्कलं कालातीतं  ब्रह्म जानीयात् ॥११॥ ब्रह्मज्ञाननिष्ठस्य मनोनैश्चल्यार्थं धारणाविशेषमाह — पुटद्वयविनिर्मुक्तो वायुर्यत्र विलीयते । तत्र संस्थं मनः कृत्वा तं ध्यायेत्पार्थ ईश्वरम् ॥१२॥ हे पार्थ पुटद्वयविनिर्मुक्तः नासारन्ध्रान्निर्गतो वायुः यत्र विलीयते लयं गच्छति तस्मिन् मार्गे सम्यक् स्थितं मनः कृत्वा तमीश्वरं ध्यायेत् वक्ष्यमाणप्रकारेण ध्यायेत् ॥१२॥ तमेव प्रकारमाह — निष्कलं तं विजानीयात् षडूर्मिरहितं शिवम् ॥१३॥ निष्कलं निष्कृष्टाहङ्कारं चैतन्यात्मकमत एव षडूर्मिरहितं क्षुत्पिपासादिहीनं शिवं मङ्गलस्वरूपमिति विजानीयात् ध्यायेदित्यर्थः ॥१३॥ किञ्च — प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् ॥ प्रभाशून्यं वृत्त्यात्मकप्रकाशरहितम् । तत्र हेतुः मनःशून्यं मनोरहितमत एव बुद्धिशून्यमासक्तिरहितं निरामयं निर्व्याजमत एव निराभासं भ्रमरहितमत एव सर्वशून्यं स्वव्यतिरिक्तवस्तुमात्रस्य मिथ्यात्वेन आनन्दैकरसं यद्ब्रह्म तद्ध्यानं समाधिः ॥ तस्मिन् स्थितस्य किं लक्षणमित्याह — सर्वशून्यं निराभासं समाधिस्थस्य लक्षणम् । त्रिशून्यं यो विजानीयात्स तु मुच्येत बन्धनात् ॥१४॥ त्रिशून्यं यो विजानीयात् पूर्वोक्तप्रभादिशून्यं यो विजानीयात् बुध्येत् । अनेन जाग्रदाद्यवस्थात्रयशून्यत्वं दर्शितम् । प्रभामनोबुद्धिशब्दैः क्रमेण तासामभिधानात् तादृशं ब्रह्म यो विजानीयात् स समाधिस्थः बन्धनात् संसारबन्धनान्मुच्यते मुक्तो भवति ॥१४॥

Author Socials Follow me