0 Search Results found for label/उत्तरगीता गौडपादीयदीपिकासहिता

अनुसन्धेयानुक्रमणिका

Please, click on titles to show/hide posts listed under them. Sanskrit देवनागरी लिपी – मेधा अमरखण्डनम् अमरखण्डनम् (१०) अमरखण्डनम् (९) अमरखण्डनम् (८) अमरखण्डनम् (७) अमरखण्डनम् (६) अमरखण्डनम् (५) अमरखण्डनम् (४) अमरखण्डनम् (३) अमरखण्डनम् (२) अमरखण्डनम् (१) उत्तरगीता उत्तरगीता गौडपादीयदीपिकासहिता (१४) उत्तरगीता गौडपादीयदीपिकासहिता (१३) उत्तरगीता गौडपादीयदीपिकासहिता (१२) उत्तरगीता गौडपादीयदीपिकासहिता (११) उत्तरगीता गौडपादीयदीपिकासहिता (१०) उत्तरगीता गौडपादीयदीपिकासहिता (९) उत्तरगीता गौडपादीयदीपिकासहिता (८) उत्तरगीता गौडपादीयदीपिकासहिता (७) उत्तरगीता गौडपादीयदीपिकासहिता (६) उत्तरगीता गौडपादीयदीपिकासहिता (५) उत्तरगीता गौडपादीयदीपिकासहिता (४) उत्तरगीता गौडपादीयदीपिकासहिता (३) उत्तरगीता गौडपादीयदीपिकासहिता (२) उत्तरगीता गौडपादीयदीपिकासहिता (१) एकाक्षरकोषः एकाक्षरकोषः पञ्चस्तवी सकलजननीस्तोत्रम् अम्बास्तवः चर्चास्तवः घटस्तवः लघुस्तवी योगसूत्रम् पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/२२) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/२१) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/२०) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१९) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१८) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१७) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१६) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१५) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१४) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१३) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१२) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/११) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१०) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/९) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/८) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/७) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/६) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/५) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/४) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/३) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/२) पातञ्जलयोगसूत्रम् तत्त्ववैशारदीविभूषितव्यासभाष्योपेतम् (१/१) योगदर्शनको भूमिका शब्दभेदप्रकाशः शब्दभेदप्रकाशः (२) शब्दभेदप्रकाशः (१) Browse Happily….

उत्तरगीता गौडपादीयदीपिकासहिता (१)

प्रथमोऽध्यायः गौडपादीयदीपिका श्रीगणेशाय नमः अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् ।       आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥१॥ इह खलु अर्जुनः “अशोच्यानन्वशोचस्त्वम्” इत्यारभ्य भगवदुपदिष्टमात्मतत्त्वोपदेशं विषयभोगप्राबल्येन विस्मृत्य पुनस्तमा(दा ?)त्मतत्त्वं भगवन्तं पृच्छति –   अर्जुन उवाच – यदेकं निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् । अप्रतर्क्यमविज्ञेयं विनाशोत्पत्तिवर्जितम् ॥१॥ कारणं योगनिर्मुक्तं हेतुसाधनवर्जितम् । हृदयाम्बुजमध्यस्थं ज्ञानज्ञेयस्वरूपकम् ॥ तत्क्षणादेव मुच्येत यज्ज्ञानाद्ब्रूहि केशव ॥२॥ हे केशव ! यज्ज्ञानाद्यस्य ब्रह्मणः सम्यग्ज्ञानात्तत्क्षणादेव ज्ञानोत्तरक्षण एव मुच्येत अविद्यानिवृत्तिद्वारा आनन्दावाप्तिर्भवेत् तद्ब्रूहि  स्वरूप[1]तट[2]स्थलक्षणाभ्यां प्रतिपादयेत्यर्थः । ते एव लक्षणे दर्शयति – यदित्यादिना । एकं सजातीयविजातीयस्वगतभेदरहितं निष्कलमवयवरहितं व्योमातीतमाकाशादिचतुर्विंशतितत्त्वातीतं निरञ्जनं स्वयंप्रकाशमप्रतर्क्यममनोगोचरं , “यन्मनो न मनुते” इति श्रुतेः । अविज्ञेयं प्रमाणाविषयं , “यद्वाचाऽनिरुक्तम्, यतो वाचो निवर्तन्ते “ इति श्रुतेः । विनाशोत्पत्तिवर्जितं त्रैकालिकं कारणं सर्वोत्पत्तिमन्निमित्तोपादानभूतं योगनिर्मुक्तं वस्त्वन्तरसम्बन्धरहितं हेतुसाधनवर्जितं निमित्तत्वोपादानत्वधर्मवर्जितमित्यर्थः । स्वस्य सनातनत्वेन ताभ्यामेव वर्जितमिति वा । हृदयाम्बुजमध्यस्थं सर्वलोकान्तर्नियामकतया सर्वलोकहृदयमध्यस्थं ज्ञानज्ञेयस्वरूपकं ज्ञानं विषयप्रकाशः ज्ञेयं विषयः, तदुभयसत्तात्मकं यद्ब्रह्म , तत् कीदृशमिति प्रश्नार्थः ॥१॥२॥ [1] पदान्तरार्थसंसर्गागोचरतया लक्ष्यधर्मिस्वरूपमात्रबोधकं स्वरूपलक्ष्यणम् । यथा – प्रकृष्टप्रकाशश्चन्द्र इति । [2] यो हि धर्मोऽसाधारणः सन्नेव कदाचिद्धर्मिणा सम्बद्ध्यते स तटस्थलक्षणमित्युच्यते । यथा- छत्रचामरादिकं राज्ञः ।…

उत्तरगीता गौडपादीयदीपिकासहिता (२)

एवमर्जुनेन पृष्टो भगवान् प्रश्नार्थमभिनन्दन्नुत्तरमाह — श्रीभगवानुवाच — साधु पृष्टं महाबाहो बुद्धिमानसि पाण्डव । यन्मां पृच्छसि तत्त्वार्थमशेषं प्रवदाम्यहम् ॥३॥   हे महाबाहो इति सम्बोधयन् सर्वशत्रुनिबर्हणसामर्थ्यं द्योतयति । त्वं मां प्रति यत् आत्मतत्त्वार्थं पृच्छसि तदशेषं यथा भवति तथा तुभ्यमहं प्रवदामि ॥३॥ तदेवमात्मतत्त्वं सोपायमाह — आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् । योगेन गतकामानां भावना ब्रह्म चक्षते  ॥४॥ आत्मनि तात्पर्येण पर्यवसन्नस्य प्रणवात्मकस्य मन्त्रस्य तात्पर्यविषयहंसस्य हन्ति स्वतत्त्वज्ञानेनाज्ञानसंसारमिति हंसः ,  तस्य परमात्मनः परस्परसमन्वयादन्योन्यप्रतिपाद्यप्रतिपादकभावसंसर्गादनेन सर्ववेदान्ततात्पर्यगोचरत्वं तत्तु समन्वयात् (व्या. सू. १।१।४ ) इति समन्वयाधिकरणोक्तं दर्शितम्  । योगेन आत्मत्त्वविचाराख्येन गतकामानां नष्टारिषड्वर्गाणाम् । अनेन ज्ञानप्रतिबन्धककल्मषनिवृत्तिर्दर्शिता । तेषां ये भावना तत्त्वमसीत्यादिवाक्यजन्या चरमवृत्तिः  तन्निवृत्तिर्वा (तन्निवृत्याऽविद्यानिवृत्तिर्वा . इति क्वचित्पुस्तके नास्ति) निवृत्त्यधिष्ठानं वा ब्रह्मेत्याचक्षते प्राहुः तत्त्वज्ञा इति शेषः ॥४॥ तदेव तत्त्वज्ञानं तन्नि(वर्त्या / वृत्या)ऽविद्यानिवृत्तिञ्चाह — शरीरिणामजस्यान्तं हंसत्वं पारदर्शनम् । हंसो हंसाक्षरञ्चैव कूटस्थं यत्तदक्षरम्  ॥५॥ तद्विद्वानक्षरं प्राप्य जह्यान्मरणजन्मनी ॥६॥ अजस्य जीवस्य अन्तमवधिभूतं हंसत्वं परब्रह्मरूपत्वं शरीरिणां जीवानां पारदर्शनं परमं ज्ञानं हंसः ब्रह्म हंसाक्षरञ्च प्रणवञ्च एतत्कूटस्थं यत् एतदुभयसाक्षिभूतं यत् तदक्षरमित्युच्यते । अनेन त्रिविधपरिच्छेदशून्यत्वं दर्शितम् । तत् स्वरूपं विद्वान् विवेकी सन् तदक्षरं वस्तु प्राप्य मरणजन्मनी जन्ममरणप्रवाहरूपं संसारं जह्यात् त्यजेदिति यावत् (सा च मुक्तिः . इति क्वचिदधिकं पाठम्) ॥५॥६॥…