कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम् अपरे त्वालङ्कारिका एवमाहुः — पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम् इत्याहुः यत्तदसत् । तुलाकोटिशब्दस्य लिङ्गनिश्चयाभावात् । यदि मञ्जीरपदसाहित्यात् पुंस्त्वं वदति , तर्हि तुलाकोटिः स्त्रियां प्रोक्ता मञ्जीरेऽप्यडुके त्रिषु इति कोशरत्नकृतनिर्णयस्य व्यर्थता स्यात् । स्त्रियां तुलाकोटिरासीत् मञ्जीरावर्तयोः पुमान् इति गोविन्दपादाद्युक्तिवैषम्यं प्रसज्येतेत्यलं खण्डनेन । तमालपत्रं तिलकं चित्रकं च विशेषकम् । द्वितीयञ्च तुरीयञ्च स स्त्रियामथ कुङ्कुमम् ॥ इति यत्तदसत् । फालाङ्कं चित्रकं दिव्यं तिलकं मुखमण्डनम् । तमालपत्रं प्रद्युम्नसहायं चापि नः स्त्रियाम् ॥ इति शब्दशब्दार्थचिन्तामणौ प्रतिपादनात् । स्मरः प्रियस्मरोद्योगचित्रकान्तिमनोहराः । विशेषकमुखाः शब्दसिलके क्लीबतापि च ॥ इति हेमचन्द्रोक्तेः । अत एव पार्थसारथिमिश्रोऽपि शब्दचिन्तामाणौ आह — किञ्चापि चित्रकाद्याश्च तिलके पुंनपुसकाः इति ।
अमरखण्डनम् (६)
कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम् नडस्तु धमनः पोटगलोथो कोशमस्त्रियाम् इत्यसत् । नलोऽम्बुजे नलं न स्त्री धमनाख्यतृणेऽन्तिमः इति हेमचन्द्रः ॥ स्याद्वीरणं वीरतरं ………………………… तदसत् । वीराङ्को वीरवृक्षः स्यात् वीरणश्चापि वीरकः इति पर्यायरत्नमालायाम् ॥ गिरिका बालमूषिका इति यदुक्तं तन्न सम्यक् । बालमूषीति तस्य पुंस्त्वेन प्रयोगात् । यथा शब्दशब्दार्थमञ्जूषायाम् — गिरिका गैरिका चैव वसुमत्नी महेश्वरी । स्त्रीपुंसयोश्च बालीयमूषिका मूषकश्च सः ॥ इति । उक्तञ्च शब्दरत्ने — गिरिका मूषिका वत्से न क्लिबे गिरिका शिवा । इति ॥ चटकः कलविङ्कः स्यात् तस्य स्त्री चटका तयोः । पुमपत्ये चाटकैरस्त्वपत्ये ……………चटकैव हि ॥ इति यत्तदसत् । एवमुक्तेः प्रयोजनाभावात् । एतत्प्रकरणेऽप्यनुक्तत्वादुक्तस्यापि निष्फलत्वात् । यद्येवमन्येषामूहितुमिति गिरिका बालमूषिका इत्याद्युक्तेः निष्फलतादिदोषबाहुल्यं स्यात् । तत्र बालमूषिकेऽप्यनुक्तत्वादित्यादिकं विचाररमणीयं विवेकिभिः ॥ कान्तार्थिनी तु या याति संकेतं साभिसारिका इति न समीचिनम् । कान्ताथ संकेतगता कान्तेनापि समागता । स्यात्साभिसारिका नैव न क्लिबे दौत्यजन्तुषु ॥ इति शब्दरत्ने । अत एव महेश्वरदीक्षितोपि बालभागवतेऽप्याह — कान्तं गता कान्तगता रहस्यात्साभिसारिका । इति ।
अमरखण्डनम् (५)
कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम् हर्म्यादिर्धनिनां वासः इति यत्तदयोग्यम् , लिङ्गनिश्चयाभावात् । यदि पूर्वोत्तरपर्यालोचनया पुंलिङ्ग इति प्रवदति तर्हि तदप्यायासकरमेव । हर्मि हर्मिश्च हर्म्यश्च हर्म्यं हर्म्यापि राड्गृहे इति शब्दरत्नपाठात् । अत एवाधुनिका अप्येवमाहुः । योज्यम् (?) । निर्झरो झरः इत्यलिङ्गविशेषनिरूपणाभावाद्बाधकमेव । झारि झरा झरी झारिः झारा झाराश्च निर्झरः इति शब्दशब्दार्थमञ्जूषोक्तेः । स्त्रियः सुमनसः पुष्पम् इत्यत्र न सुमनसः इति बहुवचनं युक्तम् । सुमनः सुमनाः स्त्रियाम् इति चक्रवर्त्युक्तेः । कञ्च — सुमनः सुमनाश्चैव स्यात्क्रमात् पुंसि च स्त्रियाम् इति केशवभट्टाचार्याः । अत एव शब्दरूपमीमांसायां च वर्धनाचार्योऽप्याहः– सुमनं सुमनः सुमनः बहुषु इति । पुष्पोऽस्त्री कुसुमम् इति वैजयन्त्याम् । न पुष्प………तिनम् । किञ्च सुदर्शनाचार्योऽप्याह — पुष्पोऽन्त्री कुसुमे नीले घृततालादिकेषु च इति ।