कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम् अतिचित्रमिदं हि चिन्त्यताम् विबुधैरप्यबुधातिजल्पितम् । रसवन्ति भवन्ति (?) तद्यथा – मरसिंहस्य कृतिप्रकाशनम् ॥ तदिहैव विविच्यतेऽखिलं शतशस्त्वेवमिति प्रबोधयन् । रसिकाः सरसी(?) कान्तमालस- द्हृदयं ते सदयं पिबन्तु भोः ॥ यथा – “समाहृत्य” इत्यादौ । अयमाशयः – विपुलसंकुलप्राचीनग्रन्थशब्दवर्गै रूपभेदादिपूर्वकं बहुलनाम यावल्लिङ्गविशिष्टत्वेन ग्रन्थरचना क्रियते इति । एतद्रीत्यात्र न प्रतिमितीदं (?) न सम्यक् । यथा वा — हय उच्चैःश्रवाः सूतो मातलिर्नन्दनं वनम् इत्यत्र हय उच्चैःश्रवा नीला शुभ्राङ्गी शक्रवाहनः । सूतोऽस्य मातलिः तिप्रः देवसारथिरित्यपि ॥ वनं च नन्दनं देवकाननं नन्दनामकम् ॥ देवोद्यानं ……………………………… ॥ इत्यादि पर्यायरत्नमालारचितमस्ति नामबाहुल्यं हयादिना । किञ्च – मातलिर्माकविस्तिप्रः सारथिस्तु हयङ्कषः इति रसभः । एवमेव तत्र तत्र कोशेषु वर्तते । तट्टीकमेव(?) नामरचितमिति बहुलयावन्नामता नास्तीत्यस्य निबन्धनभङ्गः । न च सङ्क्षिप्तपदेन तद्दोषपरिहार इति वाच्यम् ; तदपेक्षया विशेषपरिष्काराभावादश्रद्धेयत्वप्रसक्तेः । किञ्च इन्द्रादिपर्यायाणां प्रवचनात् तद्बाध किता (बाधकता) स्यात् । न च प्राचुर्यत्वेन प्रतिपादनमिति वाच्यम् ; तस्याविवक्षित्वात् स्वारस्याभावात् । पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः इत्यादिषु बहुषु प्रतिपादितस्य व्यर्थतापत्तेश्च । अत एव — देवलोको देवनिधिः स्वर्गः स्वभुवनं परम् । राजालयं सौख्यनिधिर्निरर्गलशुभोदयः ॥ स्वर्लोकस्तूर्ध्वलोकः स्यादपलोदपलोदयः । मन्दरः सैरिकः शक्रभवनं खं दिवं नभः ॥ इति केशवः ॥ वराली मेघनिलया सौख्याधारा सुखालया । दूर्वामरावती स्थूणा गुलूची त्वमरास्मृते ॥ इति विश्वप्रकाशिकाकारः ॥ शतकोटिर्भिदुर्वज्रं व्याधावः शतधारकम् इति वैजयन्त्याम् ॥ वज्रोऽशनिर्गिरीकण्ठः पविर्दम्भोलिरक्षभम् इति रभसः ॥ तारा भं रात्रिजं धिष्ण्यं सन्नक्षत्रमुडुर्न ना इति वैजयन्त्याम् ॥ बलभद्रो बलश्चैव तस्य संवर्त्तकं हलम् । सौनन्दमस्य मुसलं खड्गस्तु खचितः …॥ इति वैजयन्त्याम् ॥ एवं तत्र तत्र द्रष्टव्यम् । एतेन प्रतिसंस्कृतनिबन्धस्याजागलस्तनता व्यक्ता ।