एवं योगधारणयोपासकस्य प्राणायामपरायणस्य नान्तरीयकफलमप्याह — गच्छँस्तिष्ठन् सदाकालं वायुस्वीकरणं परम् ।
सर्वकालप्रयोगेण सहस्रायुर्भवेन्नरः ॥८॥
नरः शतायुः पुरुषः शतेन्द्रिय इति परिमितायुरपि गच्छन् गमनकाले तिष्ठन् अवस्थानकाले सदाका(लं/ले)सर्वस्मिन् स्नानशयनादिकालान्तरे परं विशेषेण वायुस्वीकरणं प्राणायामं कुर्वन् तेन सर्वकालप्रयोगेण सार्वकालिकवायुधारणया सहस्रायुः सहस्रवर्षजीवी भवेत् भूयादित्यर्थः ॥८॥ ननु परमफलं कदा भवतीत्यत्राह — यावत्पश्येत् खगाकारं तदाकारं विचिन्तयेत् । खगाकारं हंसरूपं यावत्प्रपश्येत् यावत्पर्यन्तं साक्षात्कुर्यात् तावत्पर्यन्तं तदाकारं ब्रह्मरूपं पूर्वोक्तधारणया प्रवृद्धायुः विचिन्तयेत् ध्यायेदित्यर्थः ॥ तादृशात्मसाक्षात्कारार्थमात्मजगतोरभेदमाह — खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु ॥९॥ आत्मानं खमयं कृत्वा न किञ्चिदपि चिन्तयेत् ॥१०॥ खमध्ये दहराकाशमध्ये आत्मानं परमात्मानं कुरु एतदभिन्नसत्ताकमिति भावयेदित्यर्थः । आत्ममध्ये च परमात्मनि खं कुरु आाकाशं कुरु तदुपादानकं भावयेत् ॥९॥ आत्मानं परमात्मानं खमयमाकाशात्मकं कृत्वा किञ्चिदपि ब्रह्मव्यतिरिक्तम(न्यद)पि न चिन्तयेत् न ध्यायेदित्यर्थः । यद्वा खशब्देन जीवोऽभिधीयते । आकाशशरीरं ब्रह्म इति श्रुतेः आत्मशब्देन परमात्माभिधीयते । तयोरैक्यं बुद्ध्वा न किञ्चिदपि चिन्तयेत् ॥१०॥