यामामनन्ति मुनयः प्रकृतिं पुराणीं
विद्येति यां श्रुतिरहस्यविदो वदन्ति ।
तामर्धपल्वितशङ्कररूपमुद्रां
देवीमनन्यशरणश्शरणं प्रपद्ये ॥१॥
अम्ब स्तवेषु तव तावद[1]कर्तृकाणि
कुण्ठीभवन्ति वचसामपि गुम्फनानि ।
डिम्भस्य मे स्तुतिरसावसमञ्जसापि
वात्सल्यनिघ्नहृदयां भवतीं धिनोतु ॥२॥
व्योमेति बिन्दुरिति नाद इतीन्दुलेखा-
रूपेति वाग्भवतनूरिति मातृकेति ।
निःस्यन्दमानसुखबोधसुधास्वरूपा
विद्योतसे मनसि भाग्यवातां जनानाम् ॥३॥
आविर्भवत्पुलकसन्तति[2]भिश्शरीरैः
निःस्यन्दमानसलिलैर्नयनैश्च नित्यम् ।
वाग्भिश्च गद्गदपदाभिरुपासते ये
पादौ तवाम्ब भुवनेषु त एव धन्याः ॥४॥
वक्त्रं यदुद्यतमभिष्टुतये भवत्या-
स्तुभ्यं नमो यदपि देवि शिरः करोति ।
चेतश्च यत्त्वयि परायणमम्ब तानि
कस्यापि कै[3]रपि भवन्ति तपोविशेषैः ॥५॥
मूलालवालकुहरादुदिता भवानि
निर्भिद्य षट्सरसिजानि तटिल्लतेव ।
भूयोऽपि तत्र विशसि[4] ध्रुवमण्डलेन्दु-
निःस्यन्दमानपरमामृततोयरूपा[5] ॥६॥
दग्धं यदा[6] मदनमेकमनेकधा ते
मुग्धः कटाक्षविधिरङ्कुरयाञ्चकार ।
धत्ते तदाप्रभृति देवि ललाटनेत्रं
सत्यं ह्रियैव मुकुलीकृतमिन्दुमौलेः[7] ॥७॥
अज्ञातसम्भवमनाकलितान्ववायं
भिक्षुं कपालिनमवाससमद्वितीयम् ।
पूर्वं करग्रहणमङ्गलतो भवत्याः
शम्भुं क एव बुबुधे गिरिराजकन्ये ॥८॥
चर्माम्बरं च शवभस्मविलेपनं च
भिक्षाटनं च नटनं[8] च परेतभूमौ ।
वेतालसंहतिपरिग्रहता च शम्भोः
शोभां बिभर्ति[9] गिरिजे तव साहचर्यात् ॥९॥
कल्पोपसंहरणकेलिषु पण्डितानि
चण्डानि खण्डपरशोरपि ताण्डवानि ।
आलोकनेन[10] तव कोमलितानि मात-
र्लास्यात्मना परिणमन्ति जगद्विभूत्यै ॥१०॥
जन्तोरपश्चिमतनोस्सति कर्मसाम्ये
निश्शेषपाशपटलच्छिदुरा निमेषात् ।
कल्याणि देशिककटाक्षसमाश्रयेण
कारुण्यतो भवति शाम्भववेधदीक्षा ॥११॥
मुक्ताविभूषणवती नवविद्रुमाभा
यच्चेतसि स्फुरसि तारकितेव सन्ध्या ।
एकः स एव भुवनत्रयसुन्दरीणां
कन्दर्पतां व्रजति पञ्चशरीं विनापि ॥१२॥
ये भावन्त्यमृतवाहिभिरंशुजालै-
राप्यायमान[11]भुवनाममृतेश्वरीं त्वाम् ।
ते लङ्घयन्ति ननु मातरलङ्घनीयां
ब्रह्मादिभिः सुरवरैरपि कालकक्षाम् ॥१३॥
यः स्फाटिकाक्षगुणपुस्तककुण्डिकाढ्यां
व्याख्यासमुद्यतकरां शरदिन्दुशुभ्राम् ।
पद्मासनाञ्च हृदये भवतीमुपास्ते
मातः स विश्वकवितार्किकचक्रवर्ती ॥१४॥
बर्हावतंसयुतबर्बरकेशपाशां
गुञ्जावलीकृतघनस्तनहारशोभाम् ।
श्यामां प्रवालवदनां[12] सुकुमारहस्तां[13]
त्वामेव नौमि शबरीं शबरस्य जायाम्[14] ॥१५॥
अर्धेन किं नवलताललितेन[15] मुग्धे
क्रीतं विभोः परुष[16]मर्धमिदं त्वयेति ।
आलीजनस्य परिहासवचांसि मन्ये
मन्दस्मितेन तव देवि जडीभवन्ति ॥१६॥
ब्रह्माण्डबुद्बुदकदम्बकसङ्कुलोऽयं
मायोदधिर्विविधतत्त्वतरङ्गमालः ।
आश्चर्यमम्ब झटिति प्रलयं प्रयाति
त्वद्ध्यानसन्ततिमहाबडवामुखाग्नौ ॥१७॥
दाक्षायणीति कुटिलेति कुहारिणीति
कात्यायनीति कमलेति कलावतीति[17] ।
एका सती भगवती परमार्थतोऽपि
सन्दृश्यसे बहुविधा ननु नर्तकीव ॥१८॥
आनन्दलक्षणमनाहतनाम्नि देशे
नादात्मना परिणतं तव रूपमीशे ।
प्रत्यङ्मुखेन मनसा परिचीयमानं
शंसन्ति नेत्रसलिलैः पुलकैश्च धन्याः ॥१९॥
त्वं चन्द्रिका शशिनि तग्मरुचौ रुचिस्त्वं
त्वं चेतनासि पुरुषे पवने बलं त्वम् ।
त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा
निःसारमेव[18] निखिलं त्वदृते यदि स्यात् ॥२०॥
ज्योतींषि यद्दिवि चरन्ति यदन्तरिक्षं
सूते पयांसि यदहिर्धरणीञ्च धत्ते ।
यद्वाति वायुरनलो यदुदर्चिरास्ते
तत्सर्वमम्ब तव केवलमाज्ञयैव ॥२१॥
सङ्कोचमिच्छसि यदा गिरिजे तदानीं
वाक्तर्कयोस्त्वमसि भूमिरनामरूपा ।
यद्वा विकासमुपयासि यदा तदानीं
त्वन्नामरूपगणनाः सुकरा भवन्ति ॥२२॥
भोगाय देवि भवतीं कृतिनः प्रणम्य
भूकिङ्करीकृतसरोजगृहाः[19] सहस्रम् ।
चिन्तामणि[20]प्रचयकल्पितकेलिशैले
कल्पद्रुमोपवन एव चिरं रमन्ते[21] ॥२३॥
हर्तुं[22] त्वमेव भवसि त्वदधीनमीशे
संसारतापमखिलं दयया पशूनाम् ।
वैकर्तनी किरणसंहति[23]रेव शक्ता
धर्मं निजं शमयितुं निजयैव[24] वृष्ट्या[25] ॥२४॥
शक्तिश्शरीरमधिदैवतमन्तरात्मा
ज्ञानं क्रिया करणमानसजालमिच्छा ।
ऐश्वर्यमायतनमावरणानि च त्वं
किं तन्न यद्भवसि देवि शशाङ्कमौलेः ॥२५॥
भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा
विद्यानले मरुति शान्तिरतीवकान्तिः[26] ।
व्योम्नीति याः किल कलाः कलयन्ति विश्वं
तासां हि दूरतरमम्ब पदं त्वदीयम् ॥२६॥
यावत्पदं पदसरोजयुगं त्वदीयं
नाङ्गीकरोति हृदयेषु जगच्छरण्ये ।
तावद्विकल्पजटिलाः कुटिलप्रकाराः[27]
तर्क[28]ग्रहाः समयिनां प्रलयं न यान्ति ॥२७॥
निर्देवयानपितृयानविहारमेके[29]
कृत्वा मनःकरणमण्डलसार्वभौमम् ।
ध्याने[30] निवेश्य तव कारणपञ्चकस्य
पर्वाणि पार्वति नयन्ति निजासनत्वम् ॥२८॥
स्थूलासु मूर्तिषु महिप्रमुखासु मूर्तेः
कस्याश्चनापि तव वैभवमम्ब यस्याः ।
पत्या गिरामपि न शक्यत एव वक्तुं
सापि स्तुता मयेति तितिक्षितव्यम् ॥२९॥
कालाग्निकोटिरुचिमम्ब[31] षडध्वशुद्धा-
वाप्लावनेषु भवतीममृतौघवृष्टिम् ।
श्यामां घनस्तनतटां शकलीकृताघां
ध्यायन्त एव जगतां गुरवो भवन्ति ॥३०॥
विद्यां परां कतिचिदम्बरमम्ब केचि-
दानन्दमेव कतिचित्कतिचिच्च मायाम् ।
त्वां विश्वमाहुरपरे वयमामनामः
साक्षादपारकरुणां गुरुमूर्तिमेव ॥३१॥
कुवलयदलनीलं बर्बरस्निग्धकेशं
पृथुतरकुचभाराक्रान्तकान्तावलग्नम् ।
किमिह बहुभिरुक्तैः त्वत्स्वरूपं[32] परं नः
सकलभुवनमातः[33] सन्ततं सन्निधत्ताम्॥३२॥