अम्बास्तवः

  यामामनन्ति मुनयः प्रकृतिं पुराणीं

विद्येति यां श्रुतिरहस्यविदो वदन्ति ।

तामर्धपल्वितशङ्कररूपमुद्रां

देवीमनन्यशरणश्शरणं प्रपद्ये ॥१॥

अम्ब स्तवेषु तव तावद[1]कर्तृकाणि

कुण्ठीभवन्ति वचसामपि गुम्फनानि ।

डिम्भस्य मे स्तुतिरसावसमञ्जसापि

वात्सल्यनिघ्नहृदयां भवतीं धिनोतु ॥२॥

व्योमेति बिन्दुरिति नाद इतीन्दुलेखा-

रूपेति वाग्भवतनूरिति मातृकेति ।

निःस्यन्दमानसुखबोधसुधास्वरूपा

विद्योतसे मनसि भाग्यवातां जनानाम् ॥३॥

आविर्भवत्पुलकसन्तति[2]भिश्शरीरैः

निःस्यन्दमानसलिलैर्नयनैश्च नित्यम् ।

वाग्भिश्च गद्गदपदाभिरुपासते ये

पादौ तवाम्ब भुवनेषु त एव धन्याः ॥४॥

वक्त्रं यदुद्यतमभिष्टुतये भवत्या-

स्तुभ्यं नमो यदपि देवि शिरः करोति ।

चेतश्च यत्त्वयि परायणमम्ब तानि

कस्यापि कै[3]रपि भवन्ति तपोविशेषैः ॥५॥

मूलालवालकुहरादुदिता भवानि

निर्भिद्य षट्सरसिजानि तटिल्लतेव ।

भूयोऽपि तत्र विशसि[4] ध्रुवमण्डलेन्दु-

निःस्यन्दमानपरमामृततोयरूपा[5] ॥६॥

दग्धं यदा[6] मदनमेकमनेकधा ते

मुग्धः कटाक्षविधिरङ्कुरयाञ्चकार ।

धत्ते तदाप्रभृति देवि ललाटनेत्रं

सत्यं ह्रियैव मुकुलीकृतमिन्दुमौलेः[7] ॥७॥

अज्ञातसम्भवमनाकलितान्ववायं

भिक्षुं कपालिनमवाससमद्वितीयम् ।

पूर्वं करग्रहणमङ्गलतो भवत्याः

शम्भुं क एव बुबुधे गिरिराजकन्ये ॥८॥

चर्माम्बरं च शवभस्मविलेपनं च

भिक्षाटनं च नटनं[8] च परेतभूमौ ।

वेतालसंहतिपरिग्रहता च शम्भोः

शोभां बिभर्ति[9] गिरिजे तव साहचर्यात् ॥९॥

कल्पोपसंहरणकेलिषु पण्डितानि

चण्डानि खण्डपरशोरपि ताण्डवानि ।

आलोकनेन[10] तव कोमलितानि मात-

र्लास्यात्मना परिणमन्ति जगद्विभूत्यै ॥१०॥

जन्तोरपश्चिमतनोस्सति कर्मसाम्ये

निश्शेषपाशपटलच्छिदुरा निमेषात् ।

कल्याणि देशिककटाक्षसमाश्रयेण

कारुण्यतो भवति शाम्भववेधदीक्षा ॥११॥

मुक्ताविभूषणवती नवविद्रुमाभा

यच्चेतसि स्फुरसि तारकितेव सन्ध्या ।

एकः स एव भुवनत्रयसुन्दरीणां

कन्दर्पतां व्रजति पञ्चशरीं विनापि ॥१२॥

ये भावन्त्यमृतवाहिभिरंशुजालै-

राप्यायमान[11]भुवनाममृतेश्वरीं त्वाम् ।

ते लङ्घयन्ति ननु मातरलङ्घनीयां

ब्रह्मादिभिः सुरवरैरपि कालकक्षाम् ॥१३॥

यः स्फाटिकाक्षगुणपुस्तककुण्डिकाढ्यां

व्याख्यासमुद्यतकरां शरदिन्दुशुभ्राम् ।

पद्मासनाञ्च हृदये भवतीमुपास्ते

मातः स विश्वकवितार्किकचक्रवर्ती ॥१४॥

बर्हावतंसयुतबर्बरकेशपाशां

गुञ्जावलीकृतघनस्तनहारशोभाम् ।

श्यामां प्रवालवदनां[12] सुकुमारहस्तां[13]

त्वामेव नौमि शबरीं शबरस्य जायाम्[14] ॥१५॥

अर्धेन किं नवलताललितेन[15] मुग्धे

क्रीतं विभोः परुष[16]मर्धमिदं त्वयेति ।

आलीजनस्य परिहासवचांसि मन्ये

मन्दस्मितेन तव देवि जडीभवन्ति ॥१६॥

ब्रह्माण्डबुद्बुदकदम्बकसङ्कुलोऽयं

मायोदधिर्विविधतत्त्वतरङ्गमालः ।

आश्चर्यमम्ब झटिति प्रलयं प्रयाति

त्वद्ध्यानसन्ततिमहाबडवामुखाग्नौ ॥१७॥

दाक्षायणीति कुटिलेति कुहारिणीति

कात्यायनीति कमलेति कलावतीति[17] ।

एका सती भगवती परमार्थतोऽपि

सन्दृश्यसे बहुविधा ननु नर्तकीव ॥१८॥

आनन्दलक्षणमनाहतनाम्नि देशे

नादात्मना परिणतं तव रूपमीशे ।

प्रत्यङ्मुखेन मनसा परिचीयमानं

शंसन्ति नेत्रसलिलैः पुलकैश्च धन्याः ॥१९॥

त्वं चन्द्रिका शशिनि तग्मरुचौ रुचिस्त्वं

त्वं चेतनासि पुरुषे पवने बलं त्वम् ।

त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा

निःसारमेव[18] निखिलं त्वदृते यदि स्यात् ॥२०॥

ज्योतींषि यद्दिवि चरन्ति यदन्तरिक्षं

सूते पयांसि यदहिर्धरणीञ्च धत्ते ।

यद्वाति वायुरनलो यदुदर्चिरास्ते

तत्सर्वमम्ब तव केवलमाज्ञयैव ॥२१॥

सङ्कोचमिच्छसि यदा गिरिजे तदानीं

वाक्तर्कयोस्त्वमसि भूमिरनामरूपा ।

यद्वा विकासमुपयासि यदा तदानीं

त्वन्नामरूपगणनाः सुकरा भवन्ति ॥२२॥

भोगाय देवि भवतीं कृतिनः प्रणम्य

भूकिङ्करीकृतसरोजगृहाः[19] सहस्रम् ।

चिन्तामणि[20]प्रचयकल्पितकेलिशैले

कल्पद्रुमोपवन एव चिरं रमन्ते[21] ॥२३॥

हर्तुं[22] त्वमेव भवसि त्वदधीनमीशे

संसारतापमखिलं दयया पशूनाम् ।

वैकर्तनी किरणसंहति[23]रेव शक्ता

धर्मं निजं शमयितुं निजयैव[24] वृष्ट्या[25] ॥२४॥

शक्तिश्शरीरमधिदैवतमन्तरात्मा

ज्ञानं क्रिया करणमानसजालमिच्छा ।

ऐश्वर्यमायतनमावरणानि च त्वं

किं तन्न यद्भवसि देवि शशाङ्कमौलेः ॥२५॥

भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा

विद्यानले मरुति शान्तिरतीवकान्तिः[26] ।

व्योम्नीति याः किल कलाः कलयन्ति विश्वं

तासां हि दूरतरमम्ब पदं त्वदीयम् ॥२६॥

यावत्पदं पदसरोजयुगं त्वदीयं

नाङ्गीकरोति हृदयेषु जगच्छरण्ये ।

तावद्विकल्पजटिलाः कुटिलप्रकाराः[27]

तर्क[28]ग्रहाः समयिनां प्रलयं न यान्ति ॥२७॥

निर्देवयानपितृयानविहारमेके[29]

कृत्वा मनःकरणमण्डलसार्वभौमम् ।

ध्याने[30] निवेश्य तव कारणपञ्चकस्य

पर्वाणि पार्वति नयन्ति निजासनत्वम् ॥२८॥

स्थूलासु मूर्तिषु महिप्रमुखासु मूर्तेः

कस्याश्चनापि तव वैभवमम्ब यस्याः ।

पत्या गिरामपि न शक्यत एव वक्तुं

सापि स्तुता मयेति तितिक्षितव्यम् ॥२९॥

कालाग्निकोटिरुचिमम्ब[31] षडध्वशुद्धा-

वाप्लावनेषु भवतीममृतौघवृष्टिम् ।

श्यामां घनस्तनतटां शकलीकृताघां

ध्यायन्त एव जगतां गुरवो भवन्ति ॥३०॥

विद्यां परां कतिचिदम्बरमम्ब केचि-

दानन्दमेव कतिचित्कतिचिच्च मायाम् ।

त्वां विश्वमाहुरपरे वयमामनामः

साक्षादपारकरुणां गुरुमूर्तिमेव ॥३१॥

कुवलयदलनीलं बर्बरस्निग्धकेशं

पृथुतरकुचभाराक्रान्तकान्तावलग्नम् ।

किमिह बहुभिरुक्तैः त्वत्स्वरूपं[32] परं नः

सकलभुवनमातः[33] सन्ततं सन्निधत्ताम्॥३२॥

॥ इत्यम्बस्तवः॥
[1] कृत्रिमाणि [2] आविर्भवत्पुलकसंहति [3] तै [4] विशति [5] ध्रुवमञ्चितेन्दुनिष्यन्दमानपरमामृतवृष्टिरूपा [6] पुरा [7] मौलिः

[8] वसतिः [9] वहन्ति [10] आलोकितेन [11] राप्लाव्यमान [12] वसनाम् [13] शरचापहस्ताम् [14] नाथाम् [15] तव तथा कलितेन

[16] पुरुष [17] सरस्वतीति [18] मेतद् [19] भूकिङ्करीकृतसरोहगुहाः [20] चिन्तामणौ प्रचय [21] चरन्ति [22] हर्त्री [23] किरणसन्तति

[24] निजया हि [25] दृष्ट्या [26] शान्तिरतीतशान्तिः [27] कुटिलप्रतर्काः [28] सर्वे ग्रहाः [29] निर्देवयानपितृयानविहारमेति [30] याने

[31] कालाग्निकोटिरुचिपुञ्जषड [32] बहुभिरिह किमुक्तैः स्निधरूपम् [33] सकलजननि मातः

Author Socials Follow me