लघुस्तवी

ऐन्द्रस्येव शरासनस्य दधती मध्ये ललाटं प्रभां

शौक्लीं कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः ।

एषासौ त्रिपुरा हृदि द्युतिरिवोष्णांशोस्सदाहस्थिता

छिन्द्यान्नस्सहसा पदैस्त्रिभिरघं ज्योतिर्मयी वाङ्मयी ॥१॥

या मात्रा त्रपुकिलिता तनुलसत्तन्तुस्थितास्पर्धिनी

वाग्बीजे प्रथमे स्थिता हृदि सदा तां मन्महे ते वयम् ।

शक्तिः कुणडलिनीति विश्वजननी व्यापारबद्धोद्यमा

ज्ञात्वेत्थं न पुनः स्पृशन्ति जननीगर्भेऽर्भकत्वं नरा ॥२॥

दृष्त्वा सम्भ्रमकारिवस्तु सहसा ऐऐ इति व्याहृतं

येनाकूतवशादपीह वरदे बिन्दुं विनाऽप्यक्षरम् ।

तस्यापि ध्रुवमेव देवि तरसा का ते तवानुग्रहे

वाचस्सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्राम्बुजात् ॥३॥

यन्नित्ये तव कामराजमपरं मन्त्राक्षरं निष्कलं

तत्सारस्वतमित्यवैति विरलः कश्चिद्बुधश्चेद्भूवि ।

आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः

प्रारम्भे प्रणवास्पदप्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥४॥

यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधैः

तार्तीयं तदहं नमामि मनसा त्वद्बीजमिन्दुप्रभवम् ।

अस्त्यारोपिसरस्वतीमनुगतो जाड्याम्बुविच्छित्तये

गोशब्दो गिरि वर्तते स नियतं योगं विना सिद्धिदः ॥५॥

एकैकं तव देवि बीजमनघं स व्यञ्जना व्यञ्जनं

कूटस्थं यदि वा पृथक्क्रमगतं यद्वा स्थतं व्युत्क्रमात् ।

यं यं काममपेक्ष्य येन विधिना केनापा वा चिन्तितं

जप्तं वा सफलीकरोति तरसा{सततं} तं तं समस्तं नृणाम् ॥६॥

वामे पुस्तकधारिणीमभयदां साक्षस्रजं दक्षिणे

भक्तेभ्यो वरदानपेशलकरां कर्पूरकुन्दोज्ज्वलाम् ।

उज्जृम्भाम्बुजपत्रकान्तिनिवहस्निग्धप्रभालोकिनीं

येत्वामम्ब न शीलयन्ति वचसा तेषां कवित्वं कुतः ॥७॥

ये त्वां पाण्डरपुण्डरीकपटलस्रग्भाभिरामप्रभां

सिञ्चन्तीममृतद्रवैरिव शिवे ध्ययन्ति मूर्ध्नि स्थिताम् ।

अश्रातं विकटस्फुटाक्षरपदं निर्यान्ति वक्त्रोदरात्

तेषां भारति भारतीसुरसरित्कल्लोललोर्मिवत् ॥८॥

ये सिन्दूरपरागपुञ्जपिहितां त्वत्तेजसा द्यामिमा-

मुर्वीं चापि विलिनयावकरसप्रस्तारमग्नामिव ।

ध्यायन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वर-

क्लान्तास्स्रस्तकुरङ्गशावकदृशो वश्या भवन्ति स्त्रियः ॥९॥

चञ्चत्काञ्चनकुण्डलाङ्गदधरामबद्धकाञ्चीस्रजं

ये त्वां चेतसि तद्गतेक्षणमपि ध्यायन्ति कृत्वा स्थिराम् ।

तषां वेश्मसु विभ्रमादहरहस्फारीभवन्त्यश्चिरं

माद्यत्कुञ्जरकर्णतालतरला स्थैर्यं भजन्ति श्रियः ॥१०॥

आर्भट्या शशिखण्डमण्डनजटाजूटां नृमुण्डस्रजं

बन्धूकप्रसवारुणाम्बरधरां प्रेतासनाध्यासिनीम् ।

त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामपीनतुङ्गस्तनीं

मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसंवित्तये ॥११॥

जातोऽप्यल्पपरिच्छदे क्षितिभुजां सामान्यमत्रे कुले

निश्शेषावनिचक्रवर्तिपदविं लब्ध्वा प्रतापोन्नतः ।

यद्विद्याधरवृन्दवन्दितपदः श्रीवत्सराजोऽभवत्

देवित्वच्चरणाम्बुजप्रणतिजस्सोऽयं प्रसादोदयः ॥१२॥

चण्डि त्वच्चरणाम्बुजार्चनविधौ बिल्वीदलोल्लुण्ठनात्

त्रुट्यत्कण्टककोटिभिः परिचयं येषां न जग्मुः कराः ।

ते दण्डङ्कुशचक्रचापकुलिशश्रीवत्समत्स्याङ्कितैः

जायन्ते पृथिवीभुजः कथमिवाम्भोजप्रभैः पाणिभिः ॥१३॥

विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवैः

त्वां देवि त्रिपुरे परापरमयीं सन्तर्प्य पूजाविधौ ।

यां यां प्रार्थयते मनस्स्थिरतया तेषां त एते ध्रुवं

तां तां सिद्धिमवाप्नुवन्ति तरसा विघ्नैरविघ्नीकृताः ॥१४॥

शब्दानां जननि त्वमत्र भुवने वाग्वादिनीत्युच्यसे

त्वत्तः केशववासवप्रभृतयोऽप्याविर्भवन्ति ध्रुवम् ।

लीयन्ते खलु यत्र कल्पविरमे ब्रम्हादयस्तेऽप्यमी

सा त्वं काचिदचिन्त्यरूपगरिमा शक्तिः परा गीयसे ॥१५॥

देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वराः

त्रैलोक्यं त्रिपुटी त्रिपुष्करमथ त्रिब्रम्ह वर्णास्त्रयः ।

यत्किञ्चिज्जगति त्रिधा नयमितं वस्तुत्रिवर्गात्मकं

तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः ॥१६॥

लक्ष्मीं राजकुले जयां रणमुखे क्षेमङ्करीमध्वनि

क्रव्यादद्विपसर्पभाजि शवरीं कान्तारदुर्गे गिरौ ।

भूतप्रेतपिशाचजृम्भिकभये स्मृत्वा महाभैरवीं

व्यामोहे त्रिपुरां तरन्ति विपदस्तारां च तोयप्लवे ॥१७॥

माया कुण्डलनी क्रिया मधुमयी काली कलामलिनी

मातङ्गी वजया जाय भगवती गौरी शिवा शाम्भवी ।

शक्तिश्शङ्करभल्लभा त्रिनयना वाग्वदिनी भैरवी

ह्रींकारी त्रिपुरे परापरमयी माता कमारीत्यसि ॥१८॥

आईपल्लवितैः परस्परयुतैर्द्वित्रिक्रमाद्यक्षरैः

काद्यैः क्षान्तगतैस्स्वरादिभिरथ क्षान्तैश्च तैस्सस्वरैः ।

नामानि त्रिपुरे भवन्ति खलु यान्यत्यन्तगुह्यानि ते

तेभ्यो भैरवपत्नि विंशतिसहस्रेभ्यः परेभ्यो नमः ॥१९॥

बोद्धव्या निपुणं पदैः स्तुतिरियं कृत्वा मनसस्तद्गतं

भरत्या त्रिपुरेत्यनन्यमनसो यत्राद्यपद्यैः स्फुटम् ।

एकद्वित्रिपदक्रमेण कथितस्त्वत्पादसंख्याक्षरैः

मन्त्रोद्धारविधिर्विशेषसहितस्सत्सम्प्रदायान्वितः ॥२०॥

सावद्यं निरवद्यमस्तु वा किं वानया चिन्तया

नूनं स्तोत्रमिदं पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि ।

सञ्चिन्त्यापि लघुत्वमात्मनि दृढं सञ्जायमनं हटात्

त्वद्भक्त्या मुखरीकृतेन सुचिरं यस्मान्मयापि ध्रुवम् ॥२१॥

॥इति लघुस्तुतिः॥
 

Author Socials Follow me