उत्तरगीता गौडपादीयदीपिकासहिता (६)

एवं जीवन्मुक्तस्य देहादिष्वभिनिवेशो नास्तीत्याह — स्वयमुच्चलिते देहे देही न्यस्तसमाधिना । निश्चलं तं विजानीयात्समाधिस्थस्य लक्षणम् ॥१५॥ देहे स्वयमनादिप्रारब्धकर्मवासनावशादुच्चलिते गमनादिकं कुर्वत्यपि देही जीवः न्यस्तसमाधिना निश्चलसमाधियोगेन निश्चलं यथा भवति तथा तं परमात्मानं विजानीयात् तदेव समाधिस्थस्य आत्मयोगस्थितस्य लक्षणमित्युच्यते ॥१५॥ इतोऽप्यात्मज्ञस्य लक्षणमाह — अमात्रं शब्दरहितं स्वरव्यञ्जनवर्जितम् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥१६॥ अमात्रं ह्रस्वदीर्घप्लुतरहितं शब्दरहितं शब्दातीतं स्वरव्यञ्जनवर्जितमक्षरसमूहात्मकपदानभिधेयं बिन्दुनादकलातीतम्, अनुस्वारः बिन्दुः । संवृत्ते गलविवरे  यद्घण्टानिह्रादवदनुरणनं स नादः । कला नादैकदेशः । तैरतीतं यथाकथञ्चिच्छब्दावाच्यमित्यर्थः । एतादृशं ब्रह्म यो वेद स वेदवित् सकलवेदान्ततात्पर्यज्ञो नान्य इत्यर्थः ॥१६॥ एवं परमात्मतत्त्वज्ञानस्य असंभावनाविपरीतभावनादिनिवृत्तौ सत्यां न किञ्चित् कृत्यमस्तीत्याह — प्राप्ते ज्ञानेन विज्ञाने ज्ञेये च हृदिसंस्थिते । लब्धशान्तिपदे देहे न योगो नैव धारणा ॥१७॥ ज्ञानेन परोक्षात्मकेन विज्ञाने अपरोक्षानुभवे , यद्वा ज्ञानेन शास्त्राचार्योपदेशजन्येन विज्ञाने अनुभवात्मके प्राप्ते सति ज्ञेये च सर्ववेदान्ततात्पर्यगोचरे परमात्मनि हृदि संस्थिते हृद्यपरोक्षतया भासमाने सति देहे देहोपाधिमति जीवे लब्धशान्तिपदे सम्प्राप्तब्रह्मतत्त्वे (तत्त्वे / भावे) सति तदनुयोगोऽपि नास्ति धारणा नास्ति । सिद्ध(द्धे)फले साधने प्रयोजनाभावात् ॥१७॥ 

Author Socials Follow me