उत्तरगीता गौडपादीयदीपिकासहिता (९)

अर्थज्ञानं विना केवलवेदपाठमात्रेण वेदवित्त्वं नास्ति , किन्तु वेदतात्पर्यगोचरब्रह्मज्ञानेन वेदवित्त्वमित्याह –

तैलधारमिवाच्छिन्नं दीर्घघण्टानिनादवत् ।
अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥२४॥
तैलधारमिवाच्छिन्नं सन्ततधारावद्विच्छेदरहितं , दीर्घघण्टानिनासवद् अतिदीर्घघण्टाध्वन्यग्रवद्विच्छेदरहितम् अवाच्यं वाङ्मनसोरगोचरं प्रणवस्य अकारोकारमकारबिन्दुनादकलात्मकस्य सकलवेदसारस्य अग्रं लक्ष्यं ब्रह्म यो वेद स वेदविद् वेदान्तार्थज्ञानी नान्य इत्यर्थः ॥२४॥
तत्त्वज्ञानिनः समाधिसाधनस्वरूपमाह –
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥ २५॥
आत्मानं कर्तृत्वाद्यध्यासवन्तं जीवमरणिं कृत्वा अधरारणिं भावयित्वा प्रणवं परमात्मप्रतिपादकस्वरूपं शब्दमुत्तरारणिं कृत्वा भावयित्वा ध्याननिर्मथनाभ्यासात् ध्यानरूपमथनपौनःपुन्येन , एवं पूर्वोक्तप्रकारेण निगूढवत् पाण्डित्याप्रकटनेन यो वर्तेत स एव परमात्मानं पश्यन् नान्य इत्यर्थः ॥२५॥

Author Socials Follow me