कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम् किञ्च — स्त्रियां नौस्तरणिस्तरिः इत्युक्तेस्तरणिशब्दस्य स्त्रीत्वे क्तुसति ? सूर्यपर्यायतरणिशब्दस्यापि स्त्रीत्वमेव स्यात् । यद्वा वेना(?)त्रैव पुंस्त्वं वा स्यात् । अत्रोभयत्रापि लिङ्गैकत्वेन येन केनापि रचितं नः श्रुतं च । अतस्त्वेवमेतस्मिन् ग्रन्थे कल्पितुं न युक्तम् । तथानुशासनाभावादशास्त्रीयत्वेन मायतैवेत्यास्तां प्रसक्तानुप्रसक्त्या । प्रकृतमनुसरामः – तमः इति पुँल्लिङ्ग इति महेन्द्राचार्याः । उक्तं च शब्दशब्दार्थमञ्जूषायाम् — तमः पुंसि गुणे राहौ धूलिध्वान्तार्तवारिषु । तमा तमी तमाश्चापि ध्वान्तादिषु समीहता ॥ इति । अत एव तम इत्यादिकं पुंस्येव सम्यगिति मन्यतेऽस्मिन्नर्थे सुदर्शनमिश्रैः इति शाबरभाष्यव्याख्याने गदाधरोऽप्याहेति तत्सिद्धम् । यत्तु — पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम् इति तन्न । पीडा पीडश्च सम्मतः इति पूर्वाचार्याः । चूडा गूडा नडा पीडा स्त्रियां पुंसि च रूढितः इति वज्रखड्गभट्टाचार्योऽप्याह शब्दरत्ने । अत एवास्मत्तातचरणैः शब्दचिन्तामणौ पुंसि पीडादिनाङ्कः पीडः इति कथितम् । तस्मात्तथैव तदिति मन्तव्यम् । महाक्षोणी भूमिः इति यत् तन्न । अत्र इकारान्तईकारान्तयोः सत्त्वात् । यदाहुः …….को लाक्षिभट्टाचार्याश्च चन्द्रिकायाम् — कही मही सही क्षोणी मतिभूमिमहीमुखाः । ईकारान्ता इकारान्ताश्चेति सर्वज्ञशासनम् ॥ इति । अत एव प्राञ्चः शब्दानुशासनेऽप्याहुः — ईकारान्ता इकारान्ता इकारान्तास्तथैव हि इति । एवं तत्र योज्यम् । अत एवान्येऽप्याचार्या आहुः — पुरः पुरा पुरं पुरी महिर्मही इत्यादिना ।
अमरखण्डनम् (३)
कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम् स्त्रियां बहुस्वप्सरसः स्वर्वेश्या उर्वशीमुखाः इति यदुक्तं तदयुक्तम् । अप्सरा चाप्यप्सराश्च किञ्चाप्सरस इत्यपि इति मुचिकुन्दभाष्यविवरणे महेन्द्राचार्याः । अत एव भास्कलभाष्येऽपि बहुत्वमप्सरसादीनाम् इतीदं सूचितम् इति शारदातिलकभाष्यविवरणेऽप्यस्मद्गुरवः सङ्घभटाचार्या अप्याहुः । एतदधिकं तत्रैव द्रष्टव्यं सूक्ष्मशेमुषीभिः । तत्सर्वं नोक्तमिति तदज्ञता स्फुटीकृता । नच तत्सोऽर्थ क्त्यैव (?)…..र्गप्रदर्शनमेवं कृतमिति वाच्यम् । तथा चेत् जातिर्जातं च सामान्यम् , स्थलं स्थली इति भणनमेव न स्यात् । तत्रापि तदेवेत्युक्तावापि अनवस्थादोषः । किञ्च विरिञ्चनादिपर्यायाणामेकपर्यायविकारकरणेनैव चारितार्थ्यादन्येषामजागलस्तनता इत्येतावन्तग्रन्थविरोध एव स्फूर्जत्येवेत्यलं शोधितशोधितेन ॥ तमस्तु राहुः स्वर्भानुः सैह्मिकेयो विधुंतुदः इति यत्तदसत् । तम इति शब्दस्य लिङ्गनिश्चयाभावात् । न च तमिस्रं तिमिरं तमः इति वाक्यादत्रापि नपुंसकतैवोपेया । अत एव रजो गुणेऽपि स्त्रीवृष्ये राहोर्वान्ते गुणः तमः इत्यभिधानान्तरम् । अतस्तत्रापि क्लीबतैवेत्युच्यत इति वाच्यम् । तर्हि पूः स्त्री पुरीनगर्यौ वा इत्यस्य व्यर्थतैव , पुरमित्युत्तरानुशासनात् । आस्तामेतत् । यदि रूपभेदेनोच्यते इत्युच्यमाने पुंस्त्वं तदा रजो गुणेऽपि इति कोशविरोधः । किञ्च तव मते पुंस्त्वानुशासनाभावाद् अगत्या क्लीबतैवेति सिद्धम् ।
अमरखण्डनम् (२)
कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम् किञ्च — उपेन्द्र इन्द्रावरजो माधवः श्रीपतिर्हरिः इत्यादिकं क्वचिदुक्तमेवेति पुनः स्मरीकरिष्यते । एवं चैतत्तात्पर्येणैव — “ ……………दावस्तु दावो वनहुताशनः” “ पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः” “…………….तारा तारकाप्युडु वास्त्रियाम्” “रोहितो लोहितो रक्तः शोणः कोकनदच्छविः” “निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि” “भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुसश्चेति नर्तकः” “अनादरः परिभवः परीभावस्तिरस्क्रिया “ “कौतूहलं कौतुकं च कुतुकं च कुतूहलम्” “निम्नं गभीरं गम्भीरं ………………….” “खगे विहङ्गविहगविहङ्गमविहायसाः । शकुन्तपक्षिशकुनशकुन्तशकुनिद्विजाः । पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ॥” “द्राक्षा लाक्षा जतु क्लिबे ………………..” “वाणिज्यं तु वणिज्यं स्यात् …………………” इत्याद्युक्ता । एवं चात्र यावद्विकारवक्तृत्वस्य विषयत्वमिति स्फुट्यते । तथापि भाजनं पात्रमित्यादिषु नोक्तत्वात् क्वचित्प्रदेशप्रकाशनमितीदं कियदिति । प्रकृतमनुसरामः । किञ्च कोशस्तु द्विविधः पर्यायनानार्थभेदात् । अत एव पर्यायरत्नमाला, पर्यायार्णवः, नानार्थचन्द्रिका, नानार्थशिखामणिः, शब्दशब्दार्थमञ्जूषा इत्यादिरूपेण लोकव्यवहारः । एष तु द्विविधरूपः सलिङ्गनिर्लिङ्गवर्गव्यतिरिक्तानां वर्गाणां पर्यायत्वादस्मिन् । अत एव — एकार्थवाचिशब्दानां पर्यायो मेलनं मतः इति सुदर्शनाचार्यभट्टाचार्या आहुः मञ्जर्याम् । एवञ्च तन्निबन्धनेनैव तत्कण्ठबन्धनं कुर्महे । किञ्चासङ्गतान्तरमत्रास्ति । अमरा निर्जरा देवा जिष्णुरिन्द्रः शतक्रतुः इत्यादिना सामान्यविशेषाभावेन सर्वत्र प्रणीतमेव न्याय्यम् । नैर्ऋतिपर्यायार्धे असुरा दैत्यदैतेयाः इति सामान्यराक्षसपर्यायगणनाप्रस्तावे तत्पर्यायभूतान् — राक्षसः कोणपः क्रव्यात्क्रव्यादोऽस्रप आशरः रात्रिञ्चरो रात्रिचरः …………………………… ॥ इत्यादिशब्दान् विहाय विशेषगणनाया विशेषपुस्कारेण नीतमिति तन्नियतिः किमु वक्तव्येत्यत्रोपरम्यते ।