अमरखण्डनम् (४)

कवितार्किकचूडामणिश्रीश्रीहर्षमिश्ररचितम् किञ्च — स्त्रियां नौस्तरणिस्तरिः इत्युक्तेस्तरणिशब्दस्य स्त्रीत्वे क्तुसति ? सूर्यपर्यायतरणिशब्दस्यापि स्त्रीत्वमेव स्यात् । यद्वा वेना(?)त्रैव पुंस्त्वं वा स्यात् । अत्रोभयत्रापि लिङ्गैकत्वेन येन केनापि रचितं नः श्रुतं च । अतस्त्वेवमेतस्मिन् ग्रन्थे कल्पितुं न  युक्तम् । तथानुशासनाभावादशास्त्रीयत्वेन मायतैवेत्यास्तां प्रसक्तानुप्रसक्त्या । प्रकृतमनुसरामः – तमः इति पुँल्लिङ्ग इति महेन्द्राचार्याः । उक्तं च शब्दशब्दार्थमञ्जूषायाम् —  तमः पुंसि गुणे राहौ धूलिध्वान्तार्तवारिषु । तमा तमी तमाश्चापि ध्वान्तादिषु समीहता ॥ इति । अत एव तम इत्यादिकं पुंस्येव सम्यगिति मन्यतेऽस्मिन्नर्थे सुदर्शनमिश्रैः इति शाबरभाष्यव्याख्याने गदाधरोऽप्याहेति तत्सिद्धम् । यत्तु  —        पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम्  इति तन्न । पीडा पीडश्च सम्मतः इति पूर्वाचार्याः । चूडा गूडा नडा पीडा स्त्रियां पुंसि च रूढितः  इति वज्रखड्गभट्टाचार्योऽप्याह शब्दरत्ने । अत एवास्मत्तातचरणैः शब्दचिन्तामणौ पुंसि पीडादिनाङ्कः पीडः इति कथितम् । तस्मात्तथैव तदिति मन्तव्यम् । महाक्षोणी भूमिः इति यत् तन्न । अत्र इकारान्तईकारान्तयोः सत्त्वात् । यदाहुः …….को लाक्षिभट्टाचार्याश्च चन्द्रिकायाम् — कही मही सही क्षोणी मतिभूमिमहीमुखाः । ईकारान्ता इकारान्ताश्चेति सर्वज्ञशासनम् ॥  इति । अत एव प्राञ्चः शब्दानुशासनेऽप्याहुः — ईकारान्ता इकारान्ता इकारान्तास्तथैव हि इति । एवं तत्र योज्यम् । अत एवान्येऽप्याचार्या आहुः —                                 पुरः पुरा पुरं पुरी महिर्मही  इत्यादिना ।

Author Socials Follow me

This site uses Akismet to reduce spam. Learn how your comment data is processed.